TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अर्थशास्त्रम् अध्याय ०२ - भाग १२

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

भाग १२
१२.०१
आकर.अध्यक्षः शुल्ब.धातु.शास्त्र.रस.पाक.मणि.रागज्ञस् तज्ज्ञ.सखो वा तज्.जात.कर्म.कर.उपकरण.सम्पन्नः किट्ट.मूष.अङ्गार.भस्म.लिङ्गं वा_आकरं भूत.पूर्वम् अभुत.पूर्वं वा भूमि.प्रस्तर.रस.धातुम् अत्यर्थ.वर्ण.गौरवम् उग्र.गन्ध.रसं परीक्षेत ॥

१२.०२
पर्वतानाम् अभिज्ञात.उद्देशानां बिल.गुह.उपत्यक.आलयन.गूढ.खातेष्व् अन्तः प्रस्यन्दिनो जम्बू.चूत.ताल.फल.पक्व.हरिद्रा.भेद.गुड(गूड?).हरि.ताल.मनः.शिला.क्षौद्र.हिङ्गुलुक.पुण्डरीक.शुक.मयूर.पत्त्र.वर्णाः सवर्ण.उदक.ओषधि.पर्यन्ताश् चिक्कणा विशदा भारिकाश् च रसाः काञ्चनिकाः ॥

१२.०३
अप्सु निष्ठ्यूतास् तैलवद्.विसर्पिणः षङ्क.मल.ग्राहिणश् च ताम्र.रूप्ययोः शताद् उपरि वेद्धारः ॥

१२.०४
तत्.प्रतिरूपकम् उग्र.गन्ध.रसं शिला.जतु विद्यात् ॥

१२.०५
पीतकास्.ताम्रकास् ताम्र.पीतका वा भूमि.प्रस्तर.धातवो भिन्ना नील.राजीवन्तो मुद्ग.माष.कृसर.वर्णा वा दधि.बिन्दु.पिण्ड.चित्रा हरिद्रा.हरीतकी.पद्म.पत्त्र.शैवल.यकृत्.प्लीह.अनवद्य.वर्णा भिन्नाश् चुञ्चु.वालुक.आलेखा.बिन्दु.स्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तस् ताप्यमाना न भिद्यन्ते बहु.फेन.धूमाश् च सुवर्ण.धातवः प्रतीवाप.अर्थास् ताम्र.रूप्य.वेधनाः ॥

१२.०६
शङ्ख.कर्पूर.स्फटिक.नव.नीत.कपोत.पारावत.विमलक.मयूर.ग्रीवा.वर्णाः सस्यक.गोमेदक.गुड.मत्स्यण्डिका.वर्णाः कोविदार.पद्म.पाटलीक.लाय.क्षौम.अतसी.पुष्प.वर्णाः स-सीसाः स.अञ्जना विस्रा भिन्नाः श्वेत.आभाः कृष्णाः कृष्ण.आभाः श्वेताः सर्वे वा लेखा.बिन्दु.चित्रा मृदवो ध्मायमाना न स्फुटन्ति बहु.फेन.धूमाश् च रूप्य.धातवः ॥

१२.०७
सर्व.धातूनां गौरव.वृद्धौ सत्त्व.वृद्धिः ॥

१२.०८
तेषाम् अशुद्धा मूढ.गर्भा वा तीक्ष्ण.मूत्र.क्षर.भाविता राज.वृक्ष.वट.पीलु.गो.पित्त.रोचना.महिष.खर.करभ.मूत्र.लेण्ड.पिण्ड.बद्धास् तत्.प्रतीवापास् तद्.अवलेपा वा विशुद्धाः स्रवन्ति ॥

१२.०९
यव.माष.तिल.पलाश.पीलु.क्षारैर्.गो.क्षीर.अज.क्षीरैर् वा कदली.वज्र.कन्द.प्रतीवपो मार्दव.करः ॥

१२.१०
मधु.मधुकम् अजा.पयः स-तैलं घृत.गुड.किण्व.युतं स-कन्दलीकम् ।

१२.१०
यद् अपि शत.सहस्रधा विभिन्नं भवति मृदु त्रिभिर् एव तन्.निषेकैः ॥

१२.११
गो.दन्त.शृङ्ग.प्रतीवापो मृदु.स्तम्भनः ॥

१२.१२
भारिकः स्निग्धो मृदुश् च प्रस्तर.धातुर् भूमि.भागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्र.धातुः ॥

१२.१३
काक.मोचकः कपोत.रोचना.वर्णः श्वेत.राजि.नद्धो वा विस्रः सीस.धातुः ॥

१२.१४
ऊषर.कर्बुरः पक्व.लोष्ठ.वर्णो वा त्रपु.धातुः ॥

१२.१५
खरुम्बः पाण्डु.रोहितः सिन्दु.वार.पुष्प.वर्णो वा तीक्ष्ण.धातुः ॥

१२.१६
काक.अण्ड.भुज.पत्त्र.वर्णो वा वैकृन्तक.धातुः ॥

१२.१७
अच्छः स्निग्धः स-प्रभो घोषवान् शीतस् तीव्रस् तनु.रागश् च मणि.धातुः ॥

१२.१८
धातु.समुत्थं तज्.जात.कर्म.अन्तेषु प्रयोजयेत् ॥

१२.१९
कृत.भाण्ड.व्यवहारम् एक.मुखम्, अत्ययं च_अन्यत्र कर्तृ.क्रेतृ.विक्रेतृऋणां स्थापयेत् ॥

१२.२०
आकरिकम् अपहरन्तम् अष्ट.गुणं दापयेद् अन्यत्र रत्नेभ्यः ॥

१२.२१
स्तेनम् अनिसृष्ट.उपजीविनं च बद्धं कर्म कारयेत्, दण्ड.उपकारिणं च ॥

१२.२२
व्यय.क्रिया.भारिकम् आअकरं भागेन प्रक्रयेण वा दद्यात्, लाघविकम् आत्मना कारयेत् ॥

१२.२३
लोह.अध्यक्षस् ताम्र.सीस.त्रपु.वैकृन्त.कार.कूट.वृत्त.कंस.ताल.लोह.कर्म.अन्तान् कारयेत्, लोह.भाण्ड.व्यवहारं च ॥

१२.२४
लक्षण.अध्यक्षश् चतुर्.भाग.ताम्रं रूप्य.रूपं तीक्ष्ण.त्रपु.सीस.अञ्जनानाम् अन्यतम.माष.बीज.युक्तं कारयेत् - पणम् अर्ध.पणं पादम्, अष्ट.भागम् इति, पाद.आजीवं ताम्र.रूपं - माषकम् अर्ध.माषकं काकणीम् अर्ध.काकणीम् इति ॥

१२.२५
रूप.दर्शकः पण.यात्रां व्यावहारिकीं कोश.प्रवेश्यां च स्थापयेत् ॥

१२.२६
रूपिकम् अष्टकं शतम्, पञ्चकं शतं व्याजीम्, पारीक्षिकम् अष्ट.भागिकम्, शतम्, पञ्च.विंशति.पणम् अत्ययं च अन्यत्र.कर्तृ.क्रेतृ.विक्रेतृ.परीक्षितृभ्यः ॥

१२.२७
खन्य्.अध्यक्षः शङ्ख.वज्र.मणि.मुक्ता.प्रवाल.क्षार.कर्म.अन्तान् कारयेत्, पणन.व्यवहारं च ॥

१२.२८
लवण.अध्यक्षः पाक.मुक्तं लवण.भागं प्रक्रयं च यथा.कालं संगृह्णीयाद्, विक्रयाच् च मूल्यं रूपं व्याजीं च ॥

१२.२९
आगन्तु.लवणं षड्.भागं दद्यात् ॥

१२.३०
दत्त.भाग.विभागस्य विक्रयः, पञ्चकं शतं व्याजीं रूपं रूपिकं च ॥

१२.३१
क्रेता शुल्कं राज.पण्यच्.छेद.अनुरूपं च वैधरणं दद्यात्, अन्यत्र क्रेता षट्.छतम् अत्ययं च ॥

१२.३२
विलवणम् उत्तमं दण्डं दद्याद्, अनिषृष्ट.उपजीवी च_अन्यत्र वानप्रस्थेभ्यः ॥

१२.३३
श्रोत्रियास् तपस्विनो विष्टयश् च भक्त.लवणं हरेयुः ॥

१२.३४
अतो_अन्यो लवण.क्षार.वर्गः शुल्कं दद्यात् ॥

१२.३५
एवं मूल्यं च भागं च व्याजीं परिघम् अत्ययम् ।

१२.३५
शुल्कं वैधरणं दण्डं रूपं रूपिकम् एव च ॥

१२.३६
खनिभ्यो द्वादश.विधं धातुं पण्यं च संहरेत् ।

१२.३६
एवं सर्वेषु पण्येषु स्थापयेन् मुख.संग्रहम् ॥

१२.३७
आकर.प्रभः कोशः कोशाद् दण्डः प्रजायते ।

१२.३७
पृथिवी कोश.दण्डाभ्यां प्राप्यते कोश.भूषणा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:19.8270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चुळकें

  • न. एक बायकी शिवी . 
RANDOM WORD

Did you know?

Why Cows are considered secred in Hinduism?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site