अर्थशास्त्रम् अध्याय ०२ - भाग २१

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

२१.०१
शुल्क.अध्यक्षः शुल्क.शालां ध्वजं च प्रान्.मुखम् उदन्.मुखं वा महा.द्वार.अभ्याशे निवेशयेत् ॥

२१.०२
शुल्क.आदायिनश् चत्वारः पञ्च वा सार्थ.उपयातान् वणिजो लिखेयुः - के कुतस्त्याः कियत्.पण्याः क्व च_अभिज्ञानं मुद्रा वा कृता इति ॥

२१.०३
अमुद्राणाम् अत्ययो देय.द्वि.गुणः ॥

२१.०४
कूट.मुद्राणां शुल्क.अष्ट.गुणो दण्डः ॥

२१.०५
भिन्न.मुद्राणाम् अत्ययो घटिका.स्थाने स्थानम् ॥

२१.०६
राज.मुद्रा.परिवर्तने नाम.कृते वा स-पाद.पणिकं वहनं दापयेत् ॥

२१.०७
ध्वज.मूल.उपस्थितस्य प्रमाणम् अर्घं च वैदेहिकाः पण्यस्य ब्रूयुः "एतत्.प्रमाणेन_अर्घेण पण्यम् इदं कः क्रेता" इति ॥

२१.०८
त्रि.रुद्ध.उषितम् अर्थिभ्यो दद्यात् ॥

२१.०९
क्रेतृ.संघर्षे मूल्य.वृद्धिः स-शुल्का कोशं गच्छेत् ॥

२१.१०
शुल्क.भयात् पण्य.प्रमाण मूल्यं वा हीनं ब्रुवतस् तद् अतिरिक्तं राजा हरेत् ॥

२१.११
शुल्कम् अष्ट.गुणं वा दद्यात् ॥

२१.१२
तद् एव निविष्ट.पण्यस्य भाण्डस्य हीन.प्रतिवर्णकेन_अर्घ.अपकर्षणे सार.भाण्डस्य फल्गु.भाण्डेन प्रतिच्छादने च कुर्यात् ॥

२१.१३
प्रतिक्रेतृ.भयाद् वा पण्य.मूल्याद् उपरि मूल्यं वर्धयतो मूल्य.वृद्धिं राजा हरेत्, द्वि.गुणं वा शुल्कं कुर्यात् ॥

२१.१४
तद् एव_अष्ट.गुणम् अध्यक्षस्यच्. छादयतः ॥

२१.१५
तस्माद् विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः, तर्कः फल्गु.भाण्डानाम् आनुग्राहिकाणां च ॥

२१.१६
ध्वज.मूलम् अतिक्रान्तानां च_अकृत.शुल्कानां शुल्काद् अष्ट.गुणो दण्डः ॥

२१.१७
पथिक.उत्पथिकास् तद् विद्युः ॥

२१.१८
वैवाहिकम् अन्वायनम् औपायिकं यज्ञ.कृत्य.प्रसव.नैमित्तिकं देव_इज्या.चौल.उपनयन.गो.दान.व्रत.दीक्षा.आदिषु क्रिया.विशेषेषु भाण्डम् उच्छुल्कं गच्छेत् ॥

२१.१९
अन्यथा.वादिनः स्तेय.दण्डः ॥

२१.२०
कृत.शुल्केन_अकृत.शुल्कं निर्वाहयतो द्वितीयम् एक.मुद्रया भित्त्वा पण्य.पुटम् अपहरतो वैदेहकस्य तच्_च तावच् च दण्डः ॥

२१.२१
शुल्क.स्थानाद् गोमय.पलालं प्रमाणं कृत्वा_अपहरत उत्तमः साहस.दण्डः ॥

२१.२२
शस्त्र.वर्म.कवच.लोह.रथ.रत्न.धान्य.पशूनाम् अन्यतमम् अनिर्वाह्यं निर्वाहयतो यथा_अवघुषितो दण्डः पण्य.नाशश्_च ॥

२१.२३
तेषाम् अन्यतमस्य_आनयने बहिर् एव_उच्छुल्को विक्रयः ॥

२१.२४
अन्त.पालः स-पाद.पणिकां वर्तनीं गृह्णीयात् पण्य.वहनस्य, पणिकाम् एक.खुरस्य, पशूनाम् अर्ध.पणिकां क्षुद्र.पशूनां पादिकाम्, अंस.भारस्य माषिकाम् ॥

२१.२५
नष्ट.अपहृतं च प्रतिविदध्यात् ॥

२१.२६
वैदेश्यं सार्थं कृत.सार.फल्गु.भाण्ड.विचयनम् अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेद् अध्यक्षस्य ॥

२१.२७
वैदेहक.व्यञ्जनो वा सार्थ.प्रमाणं राज्ञः प्रेषयेत् ॥

२१.२८
तेन प्रदेशेन राजा शुल्क.अध्यक्षस्य सार्थ.प्रमाणम् उपदिशेत् सर्वज्ञ.ख्यापन_अर्थम् ॥

२१.२९
ततः सार्थम् अध्यक्षो_अभिगम्य ब्रूयात् "इदम् अमुष्याम् उष्य च सार.भाण्डं फल्गु.भाण्डं च, न निहूहितव्यम्, एष राज्ञः प्रभावः" इति ॥

२१.३०
निहूहतः फल्गु.भाण्डं शुल्क.अष्ट.गुणो दण्डः, सार.भाण्डं सर्व.अपहारः ॥

२१.३१
राष्ट्र.पीडा.करं भाण्डम् उच्छिन्द्याद् अफलं च यत् ।

२१.३१
महा.उपकारम् उच्छुल्कं कुर्याद् बीजं च दुर्लभम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP