अर्थशास्त्रम् अध्याय ०२ - भाग २०

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

२०.०१
मान.अध्यक्ष्यो देश.काल.मानं विद्यात् ॥

२०.०२
अष्टौ परम.अणवो रथ.चक्र.विप्रुट् ॥

२०.०३
ता अष्टौ लिक्षा ॥

२०.०४
ता अष्तौ यूका ॥

२०.०५
ता अष्टौ यव.मध्यः ॥

२०.०६
अष्टौ यव.मध्या अङ्गुलम् ॥

२०.०७
मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्य.प्रकर्षो वा_अङ्गुलम् ॥

२०.०८
चतुर्.अङ्गुलो धनुर्.ग्रहः ॥

२०.०९
अष्ट.अङ्गुला धनुर्.मुष्टिः ॥

२०.१०
द्वादश.अङ्गुला वितस्तिः, छाया.पौरुषं च ॥

२०.११
चतुर्.दश.अङ्गुलं शमः शलः परीरयः पदं च ॥

२०.१२
द्वि.वितस्तिर् अरत्निः प्राजापत्यो हस्तः ॥

२०.१३
स-धनुर्.ग्रहः पौतव.विवीत.मानम् ॥

२०.१४
स-धनुर्.मुष्टिः कुष्कुः कंसो वा ॥

२०.१५
द्वि.चत्वारिंशद्.अङ्गुलस् तक्ष्णः क्राकचनिक.किष्कुः स्कन्ध.आवार.दुर्ग.राज.परिग्रह.मानम् ॥

२०.१६
चतुष्.पञ्चाशद्.अङ्गुलः कूप्य.वन.हस्तः ॥

२०.१७
चतुर्.अशीत्य्.अङ्गुलो व्यामो रज्जु.मानं खात.पौरुषं च ॥

२०.१८
चतुर्.अरत्निर् दण्डो धनुर्.नालिका पौरुषं च गार्हपत्यम् ॥

२०.१९
अष्ट.शत.अङ्गुलं धनुः पथि.प्राकार.मानं पौरुषं च_अग्नि.चित्यानाम् ॥

२०.२०
षट्.कंसो दण्डो ब्रह्म.देय.आतिथ्य.मानम् ॥

२०.२१
दश.दण्डो रज्जुः ॥

२०.२२
द्वि.रज्जुकः परिदेशः ॥

२०.२३
त्रि.रज्जुकं निवर्तनम् एकतः ॥

२०.२४
द्वि.दण्ड.अधिको बाहुः ॥

२०.२५
द्वि.धनुः.सहस्रं गो.रुतम् ॥

२०.२६
चतुर्.गो.रुतं योजनम् ॥

२०.२७
इति देश.मानम् ॥

२०.२८
काल.मानम् अत ऊर्ध्वम् ॥

२०.२९
तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्व.अपर.भागौ दिवसो रात्रिः पक्षो मास ऋतुर् अयनं संवत्सरो युगम् इति कालाः ॥

२०.३०
द्वौ तुटौ लवः ॥

२०.३१
द्वौ लवौ निमेषः ॥

२०.३२
पञ्च.निमेषाः काष्ठाः ॥

२०.३३
त्रिंशत्.काष्ठाः कलाः ॥

२०.३४
चत्वारिंशत्.कलाः नालिका ॥

२०.३५
सुवर्ण.माषकाश् चत्वारश् चतुर्.अङ्गुल.आयामाः कुम्भच्.छिद्रम् आढकम् अम्भसो वा नालिका ॥

२०.३६
द्वि.नालिको मुहूर्तः ॥

२०.३७
पञ्च.दश.मुहूर्तो दिवसो रात्रिश् च चैत्रे च_आश्वयुजे च मासि भवतः ॥

२०.३८
ततः परं त्रिभिर् मुहूर्तैर् अन्यतरः षण्.मासं वर्धते ह्रसते च_इति ॥

२०.३९
छायायाम् अष्ट.पौरुष्याम् अष्टादश.भागश् छेदः, षट्.पौरुष्यां चतुर्.दश.भागः, त्रि.पौरुष्याम् अष्ट.भागः, द्वि.पौरुष्यां षड्.भागः, पौरुष्यां चतुर्.भागः, अष्ट.अङ्गुलायां त्रयो दश.भागाः, चतुर्.अङ्गुलायां त्रयो_अष्ट.भागाः, अच्छायो मध्य.अह्न इति ॥

२०.४०
परावृत्ते दिवसे शेषम् एवं विद्यात् ॥

२०.४१
आषाढे मासि नष्टच्.छायो मध्य.अह्नो भवति ॥

२०.४२
अतः परं श्रावण.आदीनां षण्.मासानां द्व्य्.अङ्गुल.उत्तरा माघ.आदीनां द्व्य्.अङ्गुल.अवरा छाया इति ॥

२०.४३
पञ्चदश.अहो.रात्राः पक्षः ॥

२०.४४
सोम.आप्यायनः शुक्लः ॥

२०.४५
सोम.अवच्छेदनो बहुलः ॥

२०.४६
द्वि.पक्षो मासः ॥

२०.४७
त्रिंशद्.अहो.रात्रः कर्म.मासः ॥

२०.४८
स-अर्धः सौरः ॥

२०.४९
अर्ध.न्यूनश् चान्द्र.मासः ॥

२०.५०
सप्त.विंशतिर् नाक्षत्र.मासः ॥

२०.५१
द्वात्रिंशद् बल.मासः ॥

२०.५२
पञ्चत्रिंशद् अश्व.वाहायाः ॥

२०.५३
चत्वारिंशद्द्.हस्ति.वाहायाः ॥

२०.५४
द्वौ मासाव् ऋतुः ॥

२०.५५
श्रावणः प्रौष्ठपदश् च वर्षाः ॥

२०.५६
आश्वयुजः कार्त्तिकश् च शरत् ॥

२०.५७
मार्ग.शीर्षः पौषश् च हेमन्तः ॥

२०.५८
माघः फाल्गुनश् च शिशिरः ॥

२०.५९
चैत्रो वैशाखश् च वसन्तः ॥

२०.६०
ज्येष्ठामूलीय आषाढश् च ग्रीष्मः ॥

२०.६१
शिशिर.आद्य् उत्तर.अयणम् ॥

२०.६२
वर्ष.आदि दक्षिण.अयनम् ॥

२०.६३
द्व्य्.अयनः संवत्सरः ॥

२०.६४
पञ्च.संवत्सरो युगम् । इति ॥

२०.६५
दिवसस्य हरत्य् अर्कः षष्टि.भागम् ऋतौ ततः ।

२०.६५
करोत्य् एकम् अहश्.छेदं तथा_एव_एकं च चन्द्रमाः ॥

२०.६६
एवम् अर्ध.तृतीयानाम् अब्दानाम् अधिमासकम् ।

२०.६६
ग्रीष्मे जनयतः पूर्वं पञ्च.अब्द.अन्ते च पश्चिमम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP