अर्थशास्त्रम् अध्याय ०२ - भाग ८

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

८.०१
कोश.पूर्वाः सर्व.आरम्भाः ॥

८.०२
तस्मात् पूर्वं कोशम् अवेक्षेत ॥

८.०३
प्रचार.समृद्धिश् चरित्र.अनुग्रहश् चोर.निग्रहो युक्त.प्रतिषेधः सस्य.सम्पत् पण्य.बाहुल्यम् उपसर्ग.प्रमोक्षः परिहार.क्षयो हिरण्य.उपायनम् इति कोश.वृद्धिः ॥

८.०४
प्रतिबन्धः प्रयोगो व्यवहारो_अवस्तारः परिहापणम् उपभोगः परिवर्तनम् अपहारश् च_इति कोश.क्षयः ॥

८.०५
सिद्धीनाम् असाधनम् अनवतारणम् अप्रवेशनं वा प्रतिबन्धः ॥

८.०६
तत्र दश.बन्धो दण्डः ॥

८.०७
कोश.द्रव्याणां वृद्धि.प्रयोगाः प्रयोगः ॥

८.०८
पण्य.व्यवहारो व्यवहारः ॥

८.०९
तत्र फल.द्वि.गुणो दण्डः ॥

८.१०
सिद्धं कालम् अप्राप्तं करोति_ अप्राप्तं प्राप्तं वा_इत्य् अवस्तारः ॥

८.११
तत्र पञ्च.बन्धो दण्डः ॥

८.१२
क्लृप्तम्(कॢप्तम्) आयं परिहापयति व्ययं वा विवर्धयति_इति परिहापणम् ॥

८.१३
तत्र हीन.चतुर्.गुणो दण्डः ॥

८.१४
स्वयम् अन्यैर् वा राज.द्रव्याणाम् उपभोजनम् उपभोगः ॥

८.१५
तत्र रत्न.उपभोगे घातः, सार.उपभोगे मध्यमः साहस.दण्डः, फल्गु.कुप्य.उपभोगे तच् च तावत्_ च दण्डः ॥

८.१६
राज.द्रव्याणाम् अन्य.द्रव्येन_आदानं परिवर्तनम् ॥

८.१७
तद् उपभोगेन व्याख्यातम् ॥

८.१८
सिद्धम् आयं न प्रवेशयति, निबद्धं व्ययं न प्रयच्छति, प्राप्तां नीवीं विप्रतिजानीत इत्य् अपहारः ॥

८.१९
तत्र द्वादश.गुणो दण्डः ॥

८.२०
तेषां हरण.उपायाश् चत्वारिंशत् ॥

८.२१
पूर्वं सिद्धं पश्चाद् अवतारितम्, पश्चात् सिद्धं पूर्वम् अवतारितम्, साध्यं न सिद्धम्, असाध्यं सिद्धम्, सिद्धम् असिद्धं कृतम्, असिद्धं सिद्धं कृतम्, अल्प.सिद्धं बहु कृतम्, बहु.सिद्धम् अल्पं कृतम्, अन्यत् सिद्धम् अन्यत् कृतम्, अन्यतः सिद्धम् अन्यतः कृतम्,-

८.२१
देयं न दत्तम्, अदेयं दत्तम्, काले न दत्तम्, अकाले दत्तम्, अल्पं दत्तं बहु कृतम्, बहु दत्तम् अल्पं कृतम्, अन्यद् दत्तम् अन्यत् कृतम्, अन्यतो दत्तम् अन्यतः कृतम्,-

८.२१
प्रविष्टम् अप्रविष्टं कृतम्, अप्रविष्टं प्रविष्टं कृतम्, कुप्यम् अदत्त.मूल्यं प्रविष्टम्, दत्त.मूल्यं न प्रविष्टं -

८.२१
संक्षेपो विक्षेपः कृतः, विक्षेपः संक्षेपो वा, महा.अर्घम् अल्प.अर्घेण परिवर्तितम्, अल्प.अर्घं महा.अर्घेण वा -

८.२१
समारोपितो_अर्घः, प्रत्यवरोपितो वा, संवत्सरो मास.विषमः कृतः, मासो दिवस.विषमो वा, समागम.विषमः, मुख.विषमः, कार्मिक.विषमः -

८.२१
निर्वर्तन.विषमः, पिण्ड.विषमः, वर्ण.विषमः, अर्घ.विषमः, मान.विषमः, मापन.विषमः, भाजन.विषमः - इति हरण.उपायाः ॥ -

८.२२
तत्र_उपयुक्त.निधायक.निबन्धक.प्रतिग्राहक.दायक.दापक.मन्त्रि.वैयावृत्य.करान् एक.एकशो_अनुयुञ्जीत ॥

८.२३
मिथ्या.वादे च_एषां युक्त.समो दण्डः ॥

८.२४
प्रचारे च_अवघोषयेत् "अमुना प्रकृतेन_उपहताः प्रज्ञापयन्तु" इति ॥

८.२५
प्रज्ञापयतो यथा.उपघातं दापयेत् ॥

८.२६
अनेकेषु च_अभियोगेष्व् अपव्ययमानः सकृद् एव पर.उक्तः सर्वं भजेत ॥

८.२७
वैषम्ये सर्वत्र_अनुयोगं दद्यात् ॥

८.२८
महत्य् अर्थ.अपहारे च_अल्पेन_अपि सिद्धः सर्वं भजेत ॥

८.२९
कृत.प्रतिघात.अवस्थः सूचको निष्पन्न.अर्थः षष्ठम् अंशं लभेत, द्वादशम् अंशं भृतकः ॥

८.३०
प्रभूत.अभियोगाद् अल्प.निष्पत्तौ निष्पन्नस्य_अंशं लभेत ॥

८.३१
अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत, न च_अनुग्राह्यः ॥

८.३२
निष्पत्तौ निक्षिपेद् वादम् आत्मानं वा_अपवाहयेत् ।

८.३२
अभियुक्त.उपजापात् तु सूचको वधम् आप्नुयात् ॥ E

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP