अर्थशास्त्रम् अध्याय ०२ - भाग ११

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

११.०१
कोश.अध्यक्षः कोश.प्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्.जात.करण.अधिष्ठितः प्रतिगृह्णीयात् ॥

११.०२
ताम्र.पर्णिकं पाण्ड्यक.वाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकम् ॥

११.०३
शुक्तिः शङ्खः प्रकीर्णकं च योनयः ॥

११.०४
मसूरकं त्रि.पुटकं कूर्मकम् अर्ध.चन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं च_अप्रशस्तम् ॥

११.०५
स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देश.विद्धं च प्रशस्तम् ॥

११.०६
शीर्षकम् उपशीर्षकं प्रकाण्डकम् अवघाटकं तरल.प्रतिबद्धं च_इति यष्टि.प्रभेदाः ॥

११.०७
यष्टीनाम् अष्ट.सहस्रम् इन्द्रच्.छन्दः ॥

११.०८
ततो_अर्धं विजयच्.छन्दः ॥

११.०९
चतुष्षष्टिर् अर्ध.हारः ॥

११.१०
चतुष्.पञ्चाशद् रश्मि.कलापः ॥

११.११
द्वात्रिंशद् गुच्छः ॥

११.१२
सप्त.विंशतिर् नक्षत्र.माला ॥

११.१३
चतुर्विंशतिर् अर्ध.गुच्छः ॥

११.१४
विंशतिर् माणवकः ॥

११.१५
ततो_अर्धम् अर्ध.माणवकः ॥

११.१६
एत एव मणि.मध्यास् तन्.माणवका भवन्ति ॥

११.१७
एक.शीर्षकः शुद्धो हारः ॥

११.१८
तद्वत्.शेषाः ॥

११.१९
मणि.मध्यो_अर्ध.माणवकः ॥

११.२०
त्रि.फलकः फलक.हारः, पञ्च.फलको वा ॥

११.२१
सूत्रम् एकावली शुद्धा ॥

११.२२
सा_एव मणि.मध्या यष्टिः ॥

११.२३
हेम.मणि.चित्रा रत्नावली ॥

११.२४
हेम.मणि.मुक्ता.अन्तरो_अपवर्तकः ॥

११.२५
सुवर्ण.सूत्र.अन्तरं सोपानकम् ॥

११.२६
मणि.मध्यं वा मणि.सोपानकम् ॥

११.२७
तेन शिरो.हस्त.पाद.कटी.कलाप.जालक.विकल्पा व्याख्याताः ॥

११.२८
मणिः कौटो.मालेयकः पार.समुद्रकश् च ॥

११.२९
सौगन्धिकः पद्म.रागो_अनवद्य.रागः पारिजात.पुष्पको बाल.सूर्यकः ॥

११.३०
वैडूर्यम् उत्पल.वर्णः शिरीष.पुष्पक उदक.वर्णो वंश.रागः शुक.पत्त्र.वर्णः पुष्य.रागो गो.मूत्रको गो.मेदकः ॥

११.३१
इन्द्र.नीलो नील.अवलीयः कलाय.पुष्पको महा.नीलो जम्ब्व्.आभो जीमूत.प्रभो नन्दकः स्रवन्.मध्यः ॥

११.३२
शुद्ध.स्फटिको मूलाट.वर्णः शीत.वृष्टिः सूर्य.कान्तश् च । इति मणयः ॥

११.३३
षड्.अश्रश् चतुर्.अश्रो वृत्तो वा तीव्र.रागः संस्थानवान् अछः स्निग्धो गुरुर् अर्चिष्मान् अन्तर्.गत.प्रभः प्रभा.अनुलेपी च_इति मणि.गुणाः ॥

११.३४
मन्द.राग.प्रभः स-शर्करः पुष्पच्.छिद्रः खण्डो दुर्विद्धो लेख.आकीर्ण इति दोषाः ॥

११.३५
विमलकः सस्यको_अञ्जन.मूलकः पित्तकः सुलभको लोहित.अक्षो मृग.अश्मको ज्योती.रसको मालेयको_अहिच्.छत्रकः कूर्पः प्रतिकूर्पः सुगन्धि.कूर्पः क्षीरवकः श्शुक्ति.चूर्णकः शिला.प्रवालकः पुलकः शुक्ल.पुलक इत्य् अन्तर.जातयः ॥

११.३६
शेषाः काच.मणयः ॥

११.३७
सभा.राष्ट्रकं तज्जमा.राष्ट्रकं कास्तीर.राष्ट्रकं श्री.कटनकं मणिमन्तकम् इन्द्र.वानकं च वज्रम् ॥

११.३८
खनिः स्रोतः प्रकीर्णकं च योनयः ॥

११.३९
मार्जार.अक्षकं शिरीष.पुष्पकं गो.मूत्रकं गो.मेदकं शुद्ध.स्फटिकं मूलाटी.वर्णं मणि.वर्णानाम् अन्यतम.वर्णम् इति वज्र.वर्णाः ॥

११.४०
स्थूलं गुरु प्रहार.सहं समकोटिकं भाजन.लेखि तर्कु.भ्रामि भ्राजिष्णु च प्रशस्तम् ॥

११.४१
नष्ट.कोणं निराश्रि पार्श्व.अपवृत्तं च_अप्रशस्तम् ॥

११.४२
प्रवालकम् आल.कन्दकं वैवर्णिकं च, रक्तं पद्म.रागं च करट.गर्भिणिका.वर्जम् इति ॥

११.४३
चन्दनं सातनं रक्तं भूमि.गन्धि ॥

११.४४
गो.शीर्षकं काल.ताम्रं मत्स्य.गन्धि ॥

११.४५
हरि.चन्दनं शुक.पत्त्र.वर्णम् आम्र.गन्धि, तार्णसं च ॥

११.४६
ग्रामेरुकं रक्तं रक्त.कालं वा बस्त.मूत्र.गन्धि ॥

११.४७
दैवसभेयं रक्तं पद्म.गन्धि, जापकं च ॥

११.४८
जोङ्गकं रक्तं रक्त.कालं वा स्निग्धम्, तौरूपं च ॥

११.४९
मालेयकं पाण्डु.रक्तम् ॥

११.५०
कुचन्दनं रूक्षम् अगुरु.कालं रक्तं रक्त.कालं वा ॥

११.५१
काल.पर्वतकं रक्त.कालम् अनवद्य.वर्णं वा ॥

११.५२
कोश.अगार.पर्वतकं कालं काल.चित्रं वा ॥

११.५३
शीत.उदकीयं पद्म.आभं काल.स्निग्धं वा ॥

११.५४
नाग.पर्वतकं रूक्षं शैवल.वर्णं वा ॥

११.५५
शाकलं कपिलम् । इति ॥

११.५६
लघु स्निग्धम् अश्यानं सर्पिः.स्नेह.लेपि गन्ध.सुखं त्वग्.अनुसार्य् अनुल्बणम् अविराग्य् उष्ण.सहं दाह.ग्राहि सुख.स्पर्शनम् इति चन्दन.गुणाः ॥

११.५७
अगुरु जोङ्गकं कालं काल.चित्रं मण्डल.चित्रं वा ॥

११.५८
श्यामं दोङ्गकम् ॥

११.५९
पार.समुद्रकं चित्र.रूपम् उशीर.गन्धि नव.मालिका.गन्धि वा । इति ॥

११.६०
गुरु स्निग्धं पेशल.गन्धि निर्हार्य् अग्नि.सहम् असम्प्लुत.धूमं विमर्द.सहम् इत्य् अगुरु.गुणाः ॥

११.६१
तैल.पर्णिकम् अशोक.ग्रामिकं मांस.वर्णं पद्म.गन्धि ॥

११.६२
जोङ्गकं रक्त.पीतकम् उत्पल.गन्धि गो.मूत्र.गन्धि वा ॥

११.६३
ग्रामेरुकं स्निग्धं गो.मूत्र.गन्धि ॥

११.६४
सौवर्ण.कुड्यकं रक्त.पीतं मातुलुङ्ग.गन्धि ॥

११.६५
पूर्णक.द्वीपकं पद्म.गन्धि नव.नीत.गन्धि वा ॥

११.६६
भद्र.श्रियं पारलौहित्यकं जाती.वर्णम् ॥

११.६७
आन्तरवत्यम् उशीर.वर्णम् ॥

११.६८
उभयं कुष्ठ.गन्धि च । इति ॥

११.६९
कालेयकः स्वर्ण.भूमिजः स्निग्ध.पीतकः ॥

११.७०
औत्तर.पर्वतको रक्त.पीतकः ॥ इति साराः ।

११.७१
पिण्ड.क्वाथ.धूम.सहम् अविरागि योग.अनुविधायि च ॥

११.७२
चन्दन.अगुरुवच् च तेषां गुणाः ॥

११.७३
कान्तनावकं प्रैयकं च_उत्तर.पर्वतकं चर्म ॥

११.७४
कान्तनावकं मयूर.ग्रीव.आभम् ॥

११.७५
प्रैयकं नील.पीत.श्वेत.लेखा.बिन्दु.चित्रम् ॥

११.७६
तद्.उभयम् अष्ट.अङ्गुल.आयामम् ॥

११.७७
बिसी महा.बिसी च द्वादश.ग्रामीये ॥

११.७८
अव्यक्त.रूपा दुहिलितिका चित्रा वा बिसी ॥

११.७९
परुषा श्वेत.प्राया महाबिसी ॥

११.८०
द्वादश.अङ्गुल.आयामम् उभयम् ॥

११.८१
श्यामिका कालिका कदली चन्द्र.उत्तरा शाकुला च_आरोहजाः ॥

११.८२
कपिला बिन्दु.चित्रा वा श्यामिका ॥

११.८३
कालिका कपिला कपोत.वर्णा वा ॥

११.८४
तद् उभयम् अष्ट.अङ्गुल.आयामम् ॥

११.८५
परुषा कदली हस्त.आयता ॥

११.८६
सा_एव चन्द्र.चित्रा चन्द्र.उत्तरा ॥

११.८७
कदली.त्रि.भागा शाकुला कोठ.मण्डल.चित्रा कृत.कर्णिका_अजिन.चित्रा वा । इति ॥

११.८८
सामूरं चीनसी सामूली च बाह्लवेयाः ॥

११.८९
षट्.त्रिंशद्.अङ्गुलम् अञ्जन.वर्णं सामूरम् ॥

११.९०
चीनसी रक्त.काली पाण्डु.काली वा ॥

११.९१
सामूली गो.धूम.वर्णा । इति ॥

११.९२
सांतिना नल.तूला वृत्त.पृच्छा चौद्राः ॥

११.९३
सातिना कृष्णा ॥

११.९४
नल.तूला नल.तूल.वर्णा ॥

११.९५
कपिला वृत्त.पुच्छा च ॥ इति चर्म.जातयः ।

११.९६
चर्मणां मृदु स्निग्धं बहुल.रोम च श्रेष्ठम् ॥

११.९७
शुद्धं शुद्ध.रक्तं पक्ष.रक्तं च_आविकम्, खचितं वान.चित्रं खण्ड.संघात्यं तन्तु.विच्छिन्नं च ॥

११.९८
कम्बलः कौचपकः कुलमितिका सौमितिका तुरग.आस्तरणं वर्णकं तलिच्छकं वार.वाणः परिस्तोमः समन्त.भद्रकं च_आविकम् ॥

११.९९
पिच्छिलम् आर्द्रम् इव च सूक्ष्मं मृदु च श्रेष्ठम् ॥

११.१००
अष्ट.प्रोति.संघात्या कृष्णा भिङ्गिसी वर्ष.वारणम् अपसारक इति नैपालकम् ॥

११.१०१
सम्पुटिका चतुर्.अश्रिका लम्बरा कटवानकं प्रावरकः सत्तलिका_इति मृग.रोम ॥

११.१०२
वाङ्गकं श्वेतं स्निग्धं दुकूलम् ॥

११.१०३
पौण्ड्रकं श्यामं मणि.स्निग्धम् ॥

११.१०४
सौवर्ण.कुड्यकं सूर्य.वर्णं मणि.स्निग्ध.उदक.वानं चतुर्.अश्र.वानं व्यामिश्र.वानं च ॥

११.१०५
एतेषाम् एक.अंशुकम् अध्यर्ध.द्वि.त्रि.चतुर्.अंशुकम् इति ॥

११.१०६
तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातम् ॥

११.१०७
मागधिका पौण्ड्रिका सौवर्ण.कुड्यका च पत्त्र.ऊर्णा ॥

११.१०८
नाग.वृक्षो लिकुचो बकुलो वटश् च योनयः ॥

११.१०९
पीतिका नाग.वृक्षिका ॥

११.११०
गो.धूम.वर्णा लैकुची ॥

११.१११
श्वेता बाकुली ॥

११.११२
शेषा नव.नीत.वर्णा ॥

११.११३
तासां सौवर्ण.कुड्यका श्रेष्ठा ॥

११.११४
तया कौशेयं चीन.पट्टाश् च चीन.भूमिजा व्याख्याताः ॥

११.११५
माधुरम् आपरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठम् । इति ॥

११.११६
अतः परेषां रत्नानां प्रमाणं मूल्य.लक्षणम् ।

११.११७
जातिं रूपं च जानीयान् निधानं नव.कर्म च ॥

११.११८
पुराण.प्रतिसंस्कारं कर्म गुह्यम् उपस्करान् ।

११.११९
देश.काल.परीभोगं हिंस्राणां च प्रतिक्रियाम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP