रसहृदयतंत्र - अध्याय १३

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


माक्षीककान्ततीक्ष्णं तीक्ष्णं माक्षीकं अभ्रकं बीजं ।
माक्षीककान्तशुल्बं तीक्ष्णाभ्रकं महाबीजं ॥१॥
माक्षीककान्तशुल्बं शुल्बाभ्रकमाक्षिकं चापि ।
कान्ताभ्रकमाक्षीकं ताप्यकशुल्बाभ्रकं महाबीजं ॥२॥
माक्षीकतीक्ष्णशुल्बं तीक्ष्णशुल्बाभ्रकं महाबीजं ।
माक्षीककान्तकनकं कनकारुणमाक्षिकं महाबीजं ॥३॥
माक्षीकतीक्ष्णतारं तारारुणमाक्षिकं चैवं ।
कान्तं तु शुल्बताप्यं शुल्बाभ्रताप्यकांचनं चापि ॥४॥
कान्तेन्दुसस्यताप्यं कान्ताभ्रकतीक्ष्णमाक्षिकं चैव ।
हेमाभ्रशुल्बताप्यं हेमाभ्रकशुल्बमाक्षिकं वापि ॥५॥
कान्ताभ्रशुल्बताप्यं सङ्करबीजं चतुःषष्टिः ॥६॥
सर्वेषां बीजानामादौ कृत्वा यथोक्तसंयोगं ।
शतवाप्यं यद्वह्नौ द्रावितं हि बीजं विशुद्धमिदं ॥७॥
न पतति यदि घनसत्वं गर्भे नो वा द्रवन्ति बीजानि ।
न च बाह्यद्रुतियोगस्तत्कथमिह बध्यते सूतः ॥८॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP