रसहृदयतंत्र - अध्याय ९

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


इति रक्तोऽपि रसेन्द्रो बीजेन विना न कर्मकृद्भवति ।
द्विविधं तत्पीतसितं नियुज्यते सिद्धमेवैतत् ॥१॥
तस्य विशुद्धिर्बहुधा गगनरसोपरसलोहचूर्णैश्च ।
द्विविधं बीजं तैरपि नाशुद्धैः शुध्यते वै तत् ॥२॥
यः पुनरेतैः कुरुते कर्माशुद्धैर्भवेद्रसस्तस्य ।
अव्यापकः पतंगी न रसे रसायने योग्यः ॥३॥
(महारस) वैक्रान्तकान्तसस्यकमाक्षिकविमलाद्रिदरदरसकाश्च ।
अष्टौ रसास्तथैषां सत्त्वानि रसायनानि स्युः ॥४॥
(सारलोह) उपरससंज्ञकमिदं स्यात्शिखिशशिनौ सारलोहाख्यौ ॥५॥
(पूतिलोह) ताम्रारतीक्ष्णकान्ताभ्रसत्त्वलोहानि वङ्गनागौ च ।
कथितास्तु पूतिसंज्ञास्तेषां संशोधनं कार्यं ॥६॥
(त्रिक्षार) षट्लवणान्येतानि तु स्वर्जीटङ्कणयवक्षाराः ॥७॥
(उपरसः: शोधन, सत्त्वपातन) सूर्यावर्तः कदली वन्ध्या कोशातकी च सुरदाली ।
शिग्रुश्च वज्रकन्दो नीरकणा काकमाची च ॥८॥
आसामेकरसेन तु लवणक्षाराम्लभाविता बहुशः ।
शुध्यन्ति रसोपरसा ध्माताः सत्त्वानि मुञ्चन्ति ॥९॥
(कान्त (चुम्बक):: शोधन) तद्द्रुतमात्रं शुध्यति कान्तं शशरक्तभावनया ॥१०॥
(सस्यकः: शोधन) सस्यकमपि रक्तगणैः सुभावितं स्नेहरागसंसिक्तं ।
शुध्यति वारैः सप्तभिरतः परं युज्यते कार्ये ॥११॥
(विमल, रसक, दरद, माक्षिकः: शोधन)
क्षारैः स्नेहैरादौ पश्चादम्लेन भावितं विमलं ।
शुध्यति तथा च रसकं दरदं माक्षिकमप्येवं ॥१२॥
तनुरपि पत्रं लिप्तं लवणक्षाराम्लरविस्नुहिक्षीरैः ।
ध्मातं निर्गुण्डीरससंसिक्तं बहुशो भवेद्धि रक्तं च ॥१३॥
शुध्यति नागो वंगो घोषो रविणा च वारमपि मुनिभिः ।
निर्गुण्डीरससेकैस्तन्मूलरजः प्रवापैश्च ॥१४॥
रक्तगणगलितपशुजलभावितपुटितं हि रज्यते तीक्ष्णं ।
शुध्यति कदलीशिखिरसभावितपुटितं त्रिभिर्वारैः ॥१५॥
सर्वं शुध्यति लोहो रज्यति सुरगोपसन्निभो वापात् ।
माक्षिकदरदेन भृशं शुल्वं वा गन्धकेन मृतं ॥१६॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP