TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसहृदयतंत्र - अध्याय १९

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


अध्याय १९
इति रसराजस्य विधौ वेधविधानं प्रसंगतः प्रोक्तं ।
अधुना प्रोक्तानपि वक्ष्यामि रसायने योगान् ॥१॥
(क्षेत्रीकरण (शरीरशोधन)) आदौ प्रातः प्रातः सैन्धवयुक्तं घृतं पिबेत्त्रिदिनं ।
तदनु क्वाथं त्रिदिनं युञ्जीयात्केतकीतनुजं ॥२॥
विधिना स्वेद्यो देहः कर्तव्यो वार्तिकेन्द्रेण ।
क्वथितं कटुरोहिण्याः संशोधनं अनुप्रयुञ्जीत ॥३॥
तदनु च शुद्धादूर्ध्वं श्लेष्मान्ते रेचिते सकलं ।
यावकपथ्यं त्रिदिनं घृतसहितं तत्प्रयुञ्जीत ॥४॥
पुनरपि च पानयोगं वक्ष्यामि च सकलभुवनहितकृतये ।
पीत्वा प्रथमे यामे चोष्णोदकसममिदं चूर्णं ॥५॥
पथ्यासैन्धवधात्रीमरिचवचागुडविडङ्गरजनीनां ।
शुण्ठीपिप्पल्योरपि चूर्णं त्रिदिनं प्रयुञ्जीत ॥६॥
अमुना शुद्धशरीरः परिहतसंसर्गदोषबली ।
पीत्वा पयसा सहितं यावकममुना भवेच्छुद्धः ॥७॥
अकृतक्षेत्रीकरणे रसायनं यो नरः प्रयुञ्जीत ।
तस्य क्रामति न रसः स रसः सर्वाङ्गदोषकृद्भवति ॥८॥
इति शुद्धो जातबलः शाल्योदनयावकाख्यमुद्गरसः ।
क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं विधिवत् ॥९॥
सुरतरुतैलघृतमधुधात्रीरसपयांसि निर्मथ्य ।
पीत्वा विशुद्धकोष्ठो भवति पुमानन्तरितशुद्धः ॥१०॥
मासेन कान्तिमेधे द्वाभ्यां प्रशमयति दोषनिकरं च ।
मासत्रितयेन पुनः स्वादमरवपुर्महातेजाः ॥११॥
सुरदारुतैलमाज्यं त्रिफलारससंयुतं च समभागं ।
पीतं तत्सप्ताहान्नयनविकारं शमं नयति ॥१२॥
सुरतरुतैलं सघृतं पीत्वा शाल्योदनं च सक्षीरं ।
जीर्णाहारे भुक्त्वा हरति हि सकुष्ठान्पीनसादींश्च ॥१३॥
घृतसहितः पित्तकृतान्तैलयुक्तो वातसंभवान्रोगान् ।
गुडसहितो मधुना वा कफजान्हन्त्यमरदारुरसः ॥१४॥
वर्जितकांजिकशाकं पयसा शाल्योदनं च युञ्जीत ।
द्विचतुःषट्पलमानं मात्राधममध्यमज्येष्ठाः ॥१५॥
तदनु पातनशुद्धं सूतकं आरोटं अश्नीयात् ।
स्वेदनमूर्च्छोत्थापनपातनरोधाश्च नियमश्च ॥१६॥
अभ्रकसहितः पात्यो विधिना यावत्स्थिरो भवति ।
अथवा माक्षिकसहितः पात्यः सूतो विधानेन ॥१७॥
इत्यारोटः सूतः क्षेत्रीकरणे नियुज्यते प्रथमं ।
अथवा भस्म च कृत्वा बद्धो वा कल्कयोगेन ॥१८॥
माक्षिकशिलाजतुलोहचूर्णपथ्याक्षविडङ्गघृतमधुभिः ।
संयुक्तं रसमादौ क्षेत्रीकरणाय युञ्जीत ॥१९॥
इति कल्कीकृतसूतं घनकान्तमधुघृतादिसंयुक्तं ।
भुक्त्वामरतां गच्छेत्क्षेत्रीकरणं प्रधानमिदं ॥२०॥
अथ कृष्णं वा पीतं वा संयोज्यं घनं शिखिप्रभं बहुशः ।
सुरभीक्षीरनिषिक्तं गतगिरिदोषं रसायने योज्यं ॥२१॥
निश्चन्द्रिकमपि शुद्धं विडंगत्रिफलाज्यमधुसमायुक्तं ।
प्रतिदिवसं पलमेकं भुक्त्वा क्षीराशनो विधिना ॥२२॥
त्रिकटुकविडङ्गत्रिफलामाक्षिकशिलाजतुयुतं व्योम ।
क्षीरौदनं अश्नीयाज्जीवति जन्तुः शतं वर्षं ॥२३॥
इत्येवमादयोऽन्ये काञ्जिकयुक्ताश्च कीर्तिता बहुशः ।
पत्राभ्रकप्रयोगा वर्ज्या निर्युक्तिकास्ते हि ॥२४॥
ये पत्राभ्रकयोगा रसायनार्थं कीर्तिता विधिना ।
अज्ञातद्रव्यगुणैस्तैरुपदिष्टो जरामृत्युः ॥२५॥
अप्राप्तलोकभावं घनोऽस्य जठराग्निमुपशमं नयति ।
अग्निं विनापि नश्यति परिभूतो विविधरोगगणैः ॥२६॥
अभ्रस्य रसायनिनां भक्ष्यमिह कीर्तितं परं सत्वं ।
त्रिविधं गगनमभक्ष्यं काचः किट्टं च पत्त्ररजः ॥२७॥
आदौ घनलोहरजस्त्रिफलारसभावनैश्च निर्घृष्टं ।
कुर्वीताञ्जनसदृशं स्थगितवस्त्रेण सूर्यकरैः ॥२८॥
इत्थं श्लक्ष्णं कृत्वा विविधकान्तलोहचूर्णसमं ।
लोहघनं च तदेवं भृङ्गेण च साधयेद्बहुशः ॥२९॥
त्रिफलाघृतमधुमिश्रितं अमृतं इदं मासस्थितं धान्ये ।
शस्त्रकटोरिकसम्पुटमध्यगतं पूजितं मन्त्रैः ॥३०॥
मासेन तु तदुद्धृत्य ज्ञात्वा बलं तत्प्रयुञ्जीत ।
कान्तं विनाथ गगनं गगनं विना तथा च कान्तं ॥३१॥
स्थौल्यं पटलं काचं तिमिरार्बुदकर्णनादशूलानि ।
हन्त्यर्शांसि भगन्दरमेहप्लीहादि पालित्यं ॥३२॥
एतत्कुर्वन्मतिमान्गोरसमस्तुप्रधानं अश्नीयात् ।
जाङ्गलमुद्गाज्यपयः शाल्योदनं ब्रह्मचर्येण ॥३३॥
घनसत्वपादजीर्णः कान्तजीर्णो यत्तीक्ष्णसमजीर्णः ।
क्षेत्रीकरणः परमः प्रयुज्यतेऽपि पुनरारोटः ॥३४॥
घनसत्वकान्तसूतं मृतहेम शतावरीरसोपेतं ।
घृतमधुलीढं वर्षान्निहन्ति मृत्युं जरां चैव ॥३५॥
एषामेकं योगं क्षेत्रीकरणार्थमादितः कृत्वा ।
संवत्सरमयनं वा निःश्रेयससिद्धये योज्यं ॥३६॥
अभ्रकसस्यकमाक्षिकरसकदरदविमलवज्रगिरिजतुभिः ।
वैक्रान्तकान्ततीक्ष्णैर्हाटकतारारताम्रैश्च ॥३७॥
संयुक्तैर्व्यस्तैर्वा द्वित्रिचतुर्भिर्यथालाभं ।
जीर्णहतो रसेन्द्रो रसायने शस्यते सद्भिः ॥३८॥
विषनागवङ्गबद्धो भुक्तो हि रसः करोति कुष्ठादीन् ।
उपरसबद्धे तु रसे स्फुटन्ति भुक्ते तथाङ्गानि ॥३९॥
घनसत्त्वकान्तकाञ्चीभास्करतीक्ष्णैश्च चीर्णजीर्णस्य ।
सूतस्य गुञ्जामात्रा माषकमेकं परा मात्रा ॥४०॥
शतवेधिनो द्विगुञ्जा तथा सहस्रैकवेधिनो गुञ्जा ।
अर्धा च लक्षवेधिनः सिद्धार्थः कोटिवेधिनः सूतात् ॥४१॥
हेमनियोजितसूतं कान्तमणिं विविधगुटिकाश्च ।
जपहोमदेवतार्चननिरतः पुमानिति धारयेत् ॥४२॥
शालेस्तु पिष्टकोद्भवभोजनं आज्यं च मुद्गमांसरसैः ।
यवगोधूमान्नानि च गोक्षीरं मस्तु च विशेषात् ॥४३॥
पाने जलमक्षारं मधुराणि यानि कानि शस्तानि ।
पेयं चातुर्जातकर्पूरामोदमुदितमुखं ॥४४॥
मद्यारनालपानं तैलं दधि वा रसे नेष्टं ।
कटुतैलेनाभ्यङ्गं वपुषि न कुर्याद्रसायने मतिमान् ॥४५॥
दग्धं अपक्वं अमधुरं उष्णं क्षीरं न नष्टमांसं तु ।
पर्युषितं फलमूलं भक्ष्यं नैवात्र निर्दिष्टं ॥४६॥
अथ लङ्घनं न कार्यं यामाधो भोजनं नैव ।
इत्यपनीय निषिद्धं रसराजे धीमता कार्यं ॥४७॥
वर्जितचिन्ताकोपः कुर्याच्च सुखाम्बुना स्नानं ।
नोच्चाटयेद्ग्रहज्वरराक्षसभूतानि मातृदेवींश्च ॥४८॥
परमे ब्रह्मणि लीनः प्रशान्तचित्तः समत्वमापन्नः ।
आश्वासयन्त्रिवर्गं विजित्य रसानन्दपरितृप्तः ॥४९॥
यस्त्यक्त्वा शास्त्रविधिं प्रवर्तते स्वेच्छया रसे मूढः ।
तस्य विरुद्धाचारादजीर्णमुत्पद्यते नितरां ॥५०॥
सम्भवतीहाजीर्णे निद्रालस्यं ज्वरस्तमो दाहः ।
नाभितलशूलमल्पं जडतारुचिरङ्गभङ्गश्च ॥५१॥
ज्ञात्वेत्येवं अजीर्णं अस्य प्रच्छादनाय योगोऽयं ।
कार्यो दिवसत्रितयं संत्यज्य रसायनं सुधिया ॥५२॥
कर्कोटीमूलरसं कषायं अथ सिन्धुना पिबेत्त्रिदिनं ।
सौवर्चलसहितं वा गोजलसहितं रसाजीर्णे ॥५३॥
पिष्ट्वाथ मातुलुङ्गीं पिबति रसं शुण्ठिसैन्धवं प्रातः ।
क्वथितं गोसलिलेन तु रक्षति सम्यक्रसाजीर्णं ॥५४॥
कथमपि यच्चाज्ञानात्नागादिकलङ्कितो रसो भुक्तः ।
तन्नोदनाय च पिबेत्गोजलकटुकारवल्लिशिफाः ॥५५॥
शरपुंखासुरदालीपटोलबिम्बीश्च काकमाची च ।
एकतमा चेदुदिता शृतामजीर्णे हि सेवेत ॥५६॥
अत्यम्ललवणकटुकै रससंस्रावो जरो भवति ।
अतिमधुरैश्च विनश्यति जठरवह्निः सततभुक्तैश्च ॥५७॥
यः पुनरेवं सततं करोति मूढः समाहारं ।
तस्य विनश्यत्यग्निर्न खलु क्रामति रसो भवेद्व्याधिः ॥५८॥
यस्तु महाग्निसहत्वाद्रसाच्छतसहस्रलक्षवेधीशः ।
अनया क्रियया सिध्यति स यत्नाद्रसक्रियायोगात् ॥५९॥
शतसहस्रलक्षवेधी कोटिरथार्बुदनिर्बुदं वापि ।
पिष्टं भुञ्जीत रसं बलिसहितं सिद्धिदो भवति ॥६०॥
क्रामति ततो हि सूतो जनयति पुत्रांश्च देवगर्भाभान् ।
स्त्रीषु च निश्चलकामो भवति वलीपलितनिर्मुक्तः ॥६१॥
बुद्धिर्बलं प्रभावः सह चायुषा वर्धते रसायनिनः ।
प्राप्तस्य दिव्यबुद्धिं दिव्याश्च गुणाः प्रवर्धन्ते ॥६२॥
एवं रससंसिद्धो दुःखजरामरणवर्जितो गुणवान् ।
खेगमनेन च नित्यं संचरते सकलभुवनेषु ॥६३॥
दाता भुवनत्रितये स्रष्टा सोऽपीह पद्मयोनिरिव ।
भर्ता विष्णुरिव स्यात्संहर्ता रुद्रवद्भवति ॥६४॥
(अमरसुन्दरीगुटिका) कान्ताभ्रसत्त्वहेमतारं चार्कः समांशतः संख्या ।
बद्धं सूतसमांशं ध्मातं गोलं कृतं खोटं ॥६५॥
बाह्ये रसेन लिप्तं वदनगतं शस्त्रवारकं रोगान् ।
हन्ति हि शरीरसंस्थान्नाम्नामरसुन्दरी गुटिका ॥६६॥
(मृतसंजीवनीगुटिका) यः पूर्वोक्तः सूतो लक्षादूर्ध्वं च वेधते लोहान् ।
बद्धे सारणयोगैर्मुखास्थे च जारयेद्रत्नं ॥६७॥
युक्तः समांशनागैः सुरलोहायस्कान्तताप्यसत्त्वैश्च ।
अभ्रकसत्त्वसमेता गुटिका मृतसंजीवनी नाम ॥६८॥
हेमयुता गुलुच्छके मुकुटे वा कण्ठसूत्रकर्णे वा ।
मृत्युभयशोकरोगविषशस्त्रजरासततदुःखसङ्घातं ॥६९॥
यस्याङ्गे निहितेयं गुटिका मृतसंजीवनी नाम ।
सोऽसुरयक्षकिन्नरपूज्यतमः सिद्धयोगीन्द्रैः ॥७०॥
प्रक्षाल्य तोयमध्ये गुटिका घटिकाद्वयं ततः क्षिप्त्वा ।
तच्चेयं वदनगता मृतकस्योत्थापनं कुरुते ॥७१॥
तोयं तदेव पिबति स्वस्थं पथ्यान्वितस्ततः पुरुषः ।
लभते दिव्यं स वपुर्मृत्युजरावर्जितः सुदृढं ॥७२॥
(वज्रिणीगुटिका) कान्तघनसत्त्वकमलं हेम च तारं यथा कृतद्वन्द्वं ।
समजीर्णं बीजवरं वज्रयुतं वज्रिणी गुटिका ॥७३॥
एषा मुखकुहरगता कुरुते नवनागतुल्यबलं ।
तद्वपुरपि दुर्भेद्यं मृत्युजरारोगनिर्मुक्तं ॥७४॥
(खेचरीगुटिका) धूमावलोकितरसे पञ्चमहारत्नजारिते सारिते ।
बीजेन गगनसत्त्वे माक्षिककान्तप्रयुक्तेन ॥७५॥
खेचरसंज्ञा गुटिका पतति मुखे क्षिप्तमात्रेण ।
देवासुरसिद्धगणैः पूज्यतमो भवति चेन्द्राद्यैः ॥७६॥
रसवादोऽनन्तगुणो द्रवगोलककल्कभेदेन ।
कलितः प्रधानसिद्धैर्यैर्दृष्टस्ते जयन्ति नराः ॥७७॥
शीतांशुवंशसम्भवहैहयकुलजन्मजनितगुणमहिमा ।
स जयति श्रीमदनश्च किरातनाथो रसाचार्यः ॥७८॥
यस्य स्वयमवतीर्णा रसविद्या सकलमङ्गलाधारा ।
परमश्रेयसहेतुः श्रेयः परमेष्ठिनः पूर्वं ॥७९॥
तस्मात्किरातनृपतेर्बहुमानं अवाप्य रसकर्मनिरतः ।
रसहृदयाख्यं तन्त्रं विरचितवान्भिक्षुगोविन्दः ॥८०॥     

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:09.1070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Osler-Rendu-Weber disease

  • ऑसलर रेंडु वेबर विकार 
RANDOM WORD

Did you know?

कोणतीही ही पूजा करण्याआधी संकल्प कां करावा?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site