रसहृदयतंत्र - अध्याय १

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


जयति स दैन्यगदाकुलं अखिलं इदं पश्यतो जगद्यस्य ।
हृदयस्थैव गलित्वा जाता रसरूपिणी करुणा ॥१॥
पीताम्बरोऽथ बलिजिन्नागक्षयबहलरागगरुडचरः ।
जयति स हरिरिव हरजो विदलितभवदैन्यदुःखभरः ॥२॥
मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति ।
अमरीकरोति सुमृतः कोऽन्यः करुणाकरः सूतात् ॥३॥
सुरगुरुगोद्विजहिंसापापकलापोद्भवं किलासाध्यं ।
तदपि च शमयति यस्मात्कोऽन्यस्तस्मात्पवित्रतरः ॥४॥
तस्य स्वयं हि स्फुरति प्रादुर्भावः स शांकरः कोऽपि ।
कथमन्यथा हि शमयति विलसन्मात्राच्च पापरुजं ॥५॥
रसबन्धश्च स धन्यः प्रारम्भे यस्य सततमिव करुणा ।
सिद्धे रसे करिष्ये महीमहं निर्जरामरणं ॥६॥
ये चात्यक्तशरीरा हरगौरीसृष्टिजां तनुं प्राप्ताः ।
वन्द्यास्ते रससिद्धा मन्त्रगणाः किंकरा येषां ॥७॥
सुकृतफलं तावदिदं सुकुले यज्जन्म धीश्च तत्रापि ।
सापि च सकलमहीतलतुलनफला भूतलं च सुविधेयं ॥८॥
भूतलविधेयतायाः फलमर्थास्ते च विविधभोगफलाः ।
भोगाः सन्ति शरीरे तदनित्यमहो वृथा सकलं ॥९॥
इति धनशरीरभोगान्मत्वानित्यान्सदैव यतनीयं ।
मुक्तौ सा च ज्ञानात्तच्चाभ्यासात्स च स्थिरे देहे ॥१०॥
तत्स्थैर्यं न समर्थं रसायनं किमपि मूललोहादि ।
स्वयमस्थिरस्वभावं दाह्यं क्लेद्यं च शोष्यं च ॥११॥
काष्ठौषध्यो नागे नागं वङ्गे वङ्गमपि लीयते शुल्वे ।
शुल्वं तारे तारं कनके कनकं च लीयते सूते ॥१२॥
परमात्मनीव नियतं लयो यत्र सर्वसत्त्वानां ।
एकोऽसौ रसराजः शरीरमजरामरं कुरुते ॥१३॥
अमृतत्वं हि भजन्ते हरमूर्तौ योगिनो यथा लीनाः ।
तद्वत्कवलितगगने रसराजे हेमलोहाद्याः ॥१४॥
स्थिरदेहोऽभ्यासवशात्प्राप्य ज्ञानं गुणाष्टकोपेतं ।
प्राप्नोति ब्रह्मपदं न पुनर्भवावासदुःखेन ॥१५॥
एकांशेन जगन्ति च विष्टभ्यावस्थितं परं ज्योतिः ।
पादैस्त्रिभिस्तदमृतं सुलभं न विरक्तिमात्रेण ॥१६॥
न हि देहेन कथंचिद्व्याधिजरामरणदुःखविधुरेण ।
क्षणभङ्गुरेण सूक्ष्मं तद्ब्रह्मोपासितुं शक्यं ॥१७॥
नामापि योगसिद्धेः को गृह्णीयाद्विना शरीरेण ।
यद्योगगम्यममलं मनसोऽपि न गोचरं तत्त्वं ॥१८॥
यज्ञाद्दानात्तपसो वेदाध्ययनाद्दमात्सदाचारात् ।
अत्यन्तं श्रेयः किल योगवशादात्मसंवित्तिः ॥१९॥
गलितानल्पविकल्पसर्वार्थविवर्जितश्चिदानन्दः ।
स्फुरितोऽप्यस्फुरिततनोः करोति किं जन्तुवर्गस्य ॥२०॥
भ्रूयुगमध्यगतं यच्छिखिविद्युन्निर्मलं जगद्भासि ।
केषांचित्पुण्यकृतां उन्मीलति चिन्मयं ज्योतिः ॥२१॥
१.२२ परमानन्दैकमयं परमं ज्योतिःस्वभावमविकल्पं ।
विगलितसर्वक्लेशं ज्ञेयं शान्तं स्वयंसंवेद्यं ॥२२॥
तस्मिन्नाधाय मनः स्फुरदखिलं जगत्पश्यन् ।
उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नोति ॥२३॥
अस्तं हि यान्ति विषयाः प्राणान्तःकरणसंयोगात् ।
स्फुरणं नेन्द्रियतमसां नातः स्फुरतश्च दुःखसुखे ॥२४॥
रागद्वेषविमुक्ताः सत्याचारा नरा मृषारहिताः ।
सर्वत्र निर्विशेषा भवन्ति चिद्ब्रह्मसंस्पर्शात् ॥२५॥
तिष्ठन्त्यणिमादियुता विलसद्देहा मुदा सदानन्दाः ।
ये ब्रह्मभावममृतं सम्प्राप्ताश्चैव कृतकृत्याः ॥२६॥
आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणां ।
श्रेयः परं किमन्यत्शरीरमजरामरं विहायैकं ॥२७॥
प्रमाणतोऽपि प्रत्यक्षाद्यो न जानाति सूतकं ।
अदृष्टविग्रहं देवं कथं ज्ञास्यति चिन्मयं ॥२८॥
यज्जरया जर्जरितं कासश्वासादिदुःखवशमाप्तं ।
योग्यं तन्न समाधौ प्रतिहतबुद्धीन्द्रियप्रसरं ॥२९॥
बालः षोडशवर्षो विषयरसास्वादलम्पटः परतः ।
जातविवेको वृद्धो मर्त्यः कथमाप्नुयान्मुक्तिं ॥३०॥
अस्मिन्नेव शरीरे येषां परमात्मनो न संवेदः ।
देहत्यागादूर्ध्वं तेषां तद्ब्रह्म दूरतरं ॥३१॥
ब्रह्मादयो यजन्ते यस्मिन्दिव्यां तनुं समाश्रित्य ।
जीवन्मुक्ताश्चान्ये कल्पान्तस्थायिनो मुनयः ॥३२॥
तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमं ।
दिव्या तनुर्विधेया हरगौरीसृष्टिसंयोगात् ॥३३॥
तस्यापि साधनविधौ सुधिया प्रतिकर्मनिर्मलाः प्रथमं ।
अष्टादशसंस्कारा विज्ञातव्याः प्रयत्नेन ॥३४॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP