रसहृदयतंत्र - अध्याय १२

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


अथ द्वन्द्वमेलनमभिधास्यते ।
यावन्नाङ्गाङ्गतया न मिलन्ति लोहानि सर्वसत्त्वेषु ।
तावत्सर्वाङ्गं न च चरति रसो द्वन्द्वयोगेन ॥१॥
माक्षीकरसकसस्यकदरदान्यतमेन वापितं लोहं ।
संत्यजति निबिडभावं सत्वे संमिलति सुध्मातं ॥२॥
गुडपुरटङ्कणलाक्षासर्जरसैर्धातकीसमायुक्तैः ।
स्त्रीस्तन्येन तु पिष्टैः रसायने द्वंद्वितं योज्यं ॥३॥
ऊर्णाटङ्कणगिरिजतुकर्णाक्षिमलेन्द्रगोपकर्कटकैः ।
नारीपयसा पिष्टैः सर्वे द्वन्द्वेषु हि मिलन्ति ॥४॥
रसवैक्रान्तकमेवं मिलति द्वन्द्वान्वितं समं हेम्ना ।
निर्व्यूढं तत्सत्वं तेन रसो बन्धमुपयाति ॥५॥
(द्वन्द्वमेलापक) शस्तं सर्वद्वन्द्वे गिरिजतुलेलीतकेन्द्रगोपाद्यैः ।
महिषीकर्णमलाद्यैः स्याद्बीजं टङ्कणालविषैः ॥६॥
(द्वन्द्वमेलापक) मधुसहितैरप्येतैस्ताराभ्रं मिलति ताप्यकनकं च ।
एरण्डतैलटङ्कणकंकुष्ठशिलेन्द्रगोपैस्तु ॥७॥
सूतेन शुद्धकनकं निष्पिष्य समाभ्रयोजितं कृत्वा ।
पादेन तु पूर्वोक्तद्वन्द्वान्यतमकं कल्प्यं ॥८॥
रसोपरसस्य हेम्नो द्विगुणं शुद्धमाक्षिकं दत्त्वा ।
स्वरसेन काकमाच्या रम्भाकन्देन मृद्नीयात् ॥९॥
 रविशशितीक्ष्णैरेवं मिलन्ति गगनादिसत्वानि ॥१०॥
सङ्करबीजानामपि विधानमित्यादि गगनसत्वयोगेन ।
माक्षीकयोगादन्यं योज्यमवश्यं तु सर्वत्र ॥११॥
कान्तमुखं सर्वेषां सत्त्वानां मेलकं प्रथमं ।
पूर्वोक्तकल्कसहितं माक्षीकमृतनागतालशिलं ॥१२॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP