TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसहृदयतंत्र - अध्याय ५

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


अध्याय ५
यदि घनसत्वं गर्भे न पतति नो वा द्रवन्ति बीजानि ।
न च बाह्यद्रुतियोगस्तत्कथमिह बध्यते सूतः ॥१॥
गर्भद्रुत्या रहितो ग्रासश्चीर्णोऽपि नैकतां याति ।
एकीभावेन विना न जीर्यते तेन सा कार्या ॥२॥
बीजानां संस्कारः कर्तव्यः कोऽपि तादृशः प्रथमं ।
येन द्रवन्ति गर्भे रसराजस्याम्लवर्गेण ॥३॥
(गर्भद्रुतियोग्यबीज (१)) सममाक्षिककृतवापं सममाक्षिकसत्वसंयुतं हेम ।
गर्भे द्रवति च जरति च जरितं बध्नाति नान्यथा सूतं ॥४॥
(तारारिष्ट) माक्षिकसत्वं हेम्ना पादादिकजारितं द्रुतं सूते ।
तारारिष्टं कुरुते वरकनकं पत्त्रलेपेन ॥५॥
(गर्भद्रुतिः:) समरसतां यदि यातो वस्त्राद्गलितोऽधिकश्च तुलनायां ।
ग्रासो द्रुतः स गर्भे द्रुत्वासौ जीर्यते क्षिप्रं ॥६॥
न बिडैर्नापि क्षारैर्न स्नेहैर्द्रवति हेमं तारं वा ।
माक्षिकसत्वेन विना त्रिदिनं निहितेन रक्तेन ॥७॥
(चारण, गर्भद्रुति) लवणं देवीस्वरसप्लुतं अहिपत्रं विचूर्णितं शिलया ।
एतत्पुटनत्रितयात्सुमृतं संस्थापयेदयःपात्रे ॥८॥
विहितार्धांगुलनिम्ना स्फुटविकटकटोरिका मुखाधारा ।
तस्योपर्यादेया कटोरिका चाङ्गुलोत्सेधा ॥९॥
विहितच्छिद्रत्रितया शस्ता चतुरंगुलोर्ध्वछिद्रेषु ।
लोहशलाका योज्यास्तत्रापि च हेमपत्राणि ॥१०॥
संस्थाप्य विधूप्यन्ते यन्त्राधस्तात्प्रदीपयेदग्निं ।
धूमोपलेपमात्राद्भवन्ति कृष्णानि हेमपत्राणि ॥११॥
तान्यग्नितापितानि च पश्चाद्यन्त्रे मृतानि धूमेन ।
पाचितहेमविधानाच्चरति रसेन्द्रो द्रवति गर्भे च ॥१२॥
(गर्भद्रुति) तेनैव तारपत्रं विधिना संस्वेद्य यन्त्रयोगेन ।
जायेत कृष्णवर्णं तत्तारं द्रवति गर्भे च ॥१३॥
(गर्भद्रुति ) अथवा बलिना वङ्गं नागाभिधानेन यन्त्रयोगेन ।
हेमाह्वं तारं वा द्रवति च गर्भे न सन्देहः ॥१४॥
(रसकः: गर्भद्रुति ) रसकं बलिना युक्तं पूर्वोक्तविधानयोगेन ।
पक्वं चूर्णं यावद्भवति भृशं द्रवति गर्भे च ॥१५॥
(गर्भद्रुति) व्यूढोऽथ गन्धकाश्मा शतगुणसंख्यं तथोत्तमे हेम्नि ।
सूते च भवति पिष्टिर्द्रवति हि गर्भे न विस्मयः कार्यः ॥१६॥
(गोल्दः: बीज फ़ोर्गर्भद्रुति) अथवा शतनिर्व्यूढं रसकवरं शुद्धहेम्नि वरबीजं ।
बीजं जरति रसेन्द्रे द्रवति च गर्भे न सन्देहः ॥१७॥
(बीज ) अथवा तालकसत्वं शिलया वा तच्च हेम्नि निर्व्यूढं ।
शतगुणमथ मूषायां जरति रसेन्द्रो द्रवति गर्भे च ॥१८॥
 रसदरदाभ्रकताप्यविमलामृतशुल्बलोहपर्पटिका ।
स्नुह्यर्कदुग्धपिष्टं कंकुष्ठशिलायुतं नागं ॥१९॥
अभ्रकतालकशङ्खरससहितं तत्पुनः पुनः पुटितं ।
चिञ्चाक्षारविमिश्रं वङ्गं निर्जीवतां याति ॥२०॥
विधिनानेन च पुटितं म्रियते नागं निरुत्थतां च गतं ।
वङ्गं च सर्वकर्मसु नियुज्यते तदपि गतजीवं ॥२१॥
(बीज ) मृतनागं मृतवङ्गं मृतवरशुल्वं मृतं तथा तीक्ष्णं ।
एकैकं हेमवरे शतनिर्व्यूढं द्रवति गर्भे च ॥२२॥
(महाबीज) समगर्भे द्रुतिकरणं हेम्नो वक्ष्याम्यहं परं योगं ।
भ्रामकसस्यकचूर्णं शतनिर्व्यूढं महाबीजं ॥२३॥
(गर्भद्रुति) अथवा गन्धकधूमं तालकधूमं शिलाह्वरसकस्य ।
दत्त्वाधोमुखमूषां दीर्घतमां खर्परस्यार्धे ॥२४॥
ऊर्ध्वं लग्ना पिष्टी सुदृढा च यथा तथा च कर्तव्या ।
दत्त्वा खर्परपृष्ठे दैत्येन्द्रं दाहयेत्तदनु ॥२५॥
स्तोकं स्तोकं दत्त्वा कर्षाग्नौ ध्मापयेन्मृदा लिप्तां ।
गर्भे द्रवति हि बीजं म्रियते तथाधिके दाहे ॥२६॥
(विडः: ) गन्धकतालकशैलाः सौवीरकरसकगैरिकं दरदं ।
क्षाराम्ललवणानि विडो माक्षिकवैक्रान्तविमलसमभागैः ॥२७॥
(विडः: ) कृत्वा सुवर्णपिष्टीं मृदितां च सुवेष्टितामनेनैव ।
त्रिपुटैस्तप्ते खल्वे मृदिता गर्भे तथा द्रवति ॥२८॥
(विडः: ) रक्ते शतनिर्व्यूढं नेत्रहितं भस्म वैक्रान्तकं चाथ ।
विमलं शतनिर्व्यूढं ग्रसति समं द्रवति गर्भे च ॥२९॥
(विडः: ) ये केचिद्विडयोगाः क्षाराम्ललवणानि दीप्तवर्गाश्च ।
सर्वे शतनिर्व्यूढा गर्भद्रुतिकारकाः कथिताः ॥३०॥
(निर्वाहण ) ग्रास, देरस्सिमिलिएर्त्wइर्द्) शतनिर्व्यूढे च समं पादोनं पञ्चसप्ततिव्यूढे ।
पञ्चाशति तदर्धं पादः स्यात्पञ्चविंशतिके ॥३१॥
अष्टांशं तु तदर्धे षोडशांशं तदर्धनिर्व्यूढे ।
तस्यार्धे द्वात्रिंशच्चतुःषष्ट्यंशं तदर्धनिर्व्यूढे ॥३२॥
(गर्भद्रुति) इति गदितां गर्भद्रुतिमभिषवयोगेन चाम्लवर्गेण ।
स्वेदनविधिना ज्ञात्वा मृदितां तप्ते तु खल्वतले ॥३३॥
ज्ञात्वा बीजबलाबलमर्दनयोगं कृतं च रसराजे ।
स्वेदविधानं च पुटं यन्त्रं वा विहितरसकर्म ॥३४॥
सूतवरं लक्षयते बीजं नोपेक्षतां यथा याति ।
तद्वत्कार्यं विधिना सुकर्म गुरुपादनिर्दिष्टं ॥३५॥
(बाह्यद्रुति) बाह्यद्रुतिरति विमला स्फुरति हि केषांचिदेव सिद्धानां ।
तेभ्यः सम्यक्ज्ञात्वा कलनाः कार्यास्तथा द्रुतयः ॥३६॥
वरनागं रसराजं बीजवरं सारितं तथा त्रितयं ।
गन्धकशिलालसहितं निर्नागं दीपवर्तितो भवति ॥३७॥
बद्ध्वा सुदृढे वस्त्रे पोटलिकायां शिखीकृतो दीपः ।
तैले मग्नं कृत्वा निर्नागं जायते क्षिप्रं ॥३८॥
कृत्वात्र दीर्घमूषां सुदृढां ध्मातं तु भस्मगर्तायां ।
क्षिप्त्वा शिलालचूर्णं पश्चात्सूतं ततः शिलाचूर्णं ॥३९॥
संस्थाप्य भस्मनातो ध्मातं स्यात्स्वांगशीतलं यावत् ।
आकृष्य तत्र सूतं ज्ञात्वा नागं सुभक्षितं सकलं ॥४०॥
ज्ञात्वा नागं त्रुटितं पुनरपि दद्याद्यथा भवेत्त्रिगुणं ।
पश्चाच्छुद्धं कृत्वा बीजवरं योजयेत्तदनु ॥४१॥
अथवा तारं वङ्गं सूतं संसार्य वङ्गपरिहीनं ।
तालकयोगेन तथा निर्वङ्गं यन्त्रयोगेन ॥४२॥
अथवा वस्त्रनिबद्धं गिरिजतुसहितं सुवेष्टितं माषैः ।
पक्वं तैले वटकं निर्वङ्गं जायते नूनं ॥४३॥
पिष्टीस्तम्भं कृत्वा बीजवरेणैव सारितं तदनु ।
अथवा बद्धरसेन तु सहितं बीजं सुरञ्जितं कृत्वा ॥४४॥
गन्धकनिहितं सूतं निहितानिहितं च शृङ्खलायां तत् ।
योजितनिर्व्यूढरसे गर्भद्रुतिकारकं नूनं ॥४५॥
सूतकभस्मवरेण तु बीजं कृत्वा रसेन्द्रके गर्भे ।
मृदिता पिष्टी विधिना ह्यभिषवयोगाद्द्रवति गर्भे च ॥४६॥
पत्राभ्रकं च सत्वं कांक्षी वा कान्तमाक्षिकं पुटितं ।
निर्गुण्डी गृहकन्या चाङ्गेरी पलाशशाकैश्च ॥४७॥
तावत्पुटितं कृत्वा यावत्सिन्दूरसप्रभं भवति ।
तत्पादशेषलवणं हण्डिकपाकेन पाचितं सुदृढं ॥४८॥
एकैकं शतव्यूढं बीजवरं जारयेद्रसेन्द्रस्य ।
गर्भे द्रवति च क्षिप्रं ह्यभिषवयोगेन मृदितमङ्गुल्या ॥४९॥
आवृत्तेऽप्यावर्त्यं हेमवरे क्षेप्यमुज्ज्वले नागं ।
त्रिगुणशिलाप्रतिवापं ह्यहिबीजं तत्समुद्दिष्टं ॥५०॥
वङ्गं तु तेन विधिना हेमवरे क्षेप्य तालवापेन ।
तारे वा निर्व्यूढं बीजवरं त्रुटितसंयोगात् ॥५१॥
(रसाङ्कुश) यो निःसृतो भुजङ्गाद्रसकेशरीवज्रपञ्जरः स पुनः ।
फणिहेमगुणात्कुटिलो रसाङ्कुशो नाम विख्यातः ॥५२॥
एवं पक्वं विधिना बीजवरं सूतराट्तथाम्लेन ।
कर्तव्यः संस्वेद्यो यावत्पिष्टी भवेच्छ्लक्ष्णा ॥५३॥
तैलेन तेन विधिना स्विन्ना पिष्टी भवेदखिलं ।
अथवा श्लक्ष्णं शिलया निघृष्टबीजं भवेत्पिण्डी ॥५४॥
पाको वटकविधिना कर्तव्यस्तैलयोगेन ।
क्रामणपिण्डे क्षिप्त्वा माषैश्च स्यात्सुदृढपिण्डत्वं ॥५५॥
मृद्वग्निना सुपक्वं दग्धं यावन्न भवेत्पिण्डं ।
आकृष्य चाथ सूतं पिण्डे शेषं तथा पुनः पाच्यं ॥५६॥
अथवाप्यौषधपिण्डे दोलातप्ते खर्परे विधिना ।
पुनरपि पिण्डे क्षेप्यं गर्भे यावद्द्रुतिर्भवति ॥५७॥
एवं द्रुतं हि गर्भे बीजवरं जरति रसराजे ।
गर्भद्रुत्या रहितं बिडयोगैर्जरति गर्भे च ॥५८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:05.7300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पराजय

  • m  Defeat or overthrow. 
  • ना. अपजय , अपयश , पराभव , पाडाव , मोडा , हार . 
RANDOM WORD

Did you know?

How do I become a moderator on QnA?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.