TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसहृदयतंत्र - अध्याय १६

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


अध्याय १६
इति रक्तोऽपि रसेन्द्रो जारितबीजोऽपि सारणारहितः ।
व्यापी न भवति देहे लोहेष्वप्यथवापि हि षण्ढतां याति ॥१॥
(सारणातैल) मण्डूकमत्स्यकच्छपमेषजलौकाहिसूकरादीनां ।
संयोज्यैकस्य वसां ततः पचेत्सारणातैलं ॥२॥
ज्योतिष्मतीविभीतककरञ्जकटुतुम्बीतैलमेकस्मात् ।
द्विगुणितरक्तकषायं क्षीरेण चतुर्गुणेन पचेत् ॥३॥
(रक्तवर्ग) दाडिमपलाशबन्धुककुसुमरजनीभिररुणसहिताभिश्च ।
मञ्जिष्ठालाक्षारसचन्दनसहितोऽपि रक्तवर्गोऽयं ॥४॥
विद्रुमभूनागमलं विण्मक्षिकाध्वाङ्क्षशलभानां च ।
कर्णमलं महिषीणां क्रमेण कल्कं कलांशेन ॥५॥
(सारण) पटगालितं गृहीत्वा सूतं सम्पूर्णदीर्घमूषायां ।
तदनु खलु तप्ततैले प्रद्राव्य समं क्षिपेद्बीजं ॥६॥
मूषावक्त्रं स्थगयेल्लताद्वयप्रोतविततनद्धेन ।
तैलार्द्रपटेन ततो बीजं प्रक्षिप्य समकालं ॥७॥
पिशितानुगुणं बीजैः सारणविधिना नियोजितः सूतः ।
अक्षीयमाणो मिलति च बीजैर्बद्धो भवत्येव ॥८॥
(प्रतिसारण) तद्वद्गभीरमूषे सारणतैलार्द्रमेव रसराजं ।
सूताद्द्विगुणं कनकं दत्त्वा प्रतिसारयेत्तदनु ॥९॥
(अनुसारण) बीजेन त्रिगुणेन तु सूतकमनुसारयेत्प्रकाशस्थं ।
ईषन्नागं देयं त्रिविधायां सारणायां तु ॥१०॥
(सारणायन्त्र) कृत्वा मूषां दीर्घां बन्धितत्रिभागप्रणालिकां तां च ।
तस्याग्रे प्रकटमूषा सच्छिद्रा सुदृढमृत्तिकालिप्ता ॥११॥
तस्मिन्प्रक्षिप्य रसं सारणतैलान्वितं तप्ते ।
प्रद्राव्य तुल्यकनकं क्षिप्तेऽस्मिन्मिलति रसराजः ॥१२॥
(सारणायन्त्र) कृत्वा नलिकां दीर्घां षडंगुलां धूर्तकुसुमसंकाशां ।
मूषाप्यधो विलग्ना कर्तव्या वै मृदा लेप्या ॥१३॥
अपरा सूक्ष्मा नलिका कार्या सप्तांगुला सुदृढा ।
मध्ये प्रविशति च यथा तद्वत्कार्या च दृढमुखा ॥१४॥
तस्मिन्सूतः क्षिप्तः सारणतैलान्वितो मदनरुद्धमुखः ।
तदनु बृहत्तमया हेम प्रद्राव्य हेमकोष्ठिकया ॥१५॥
तस्मिन्मध्ये क्षिप्त्वा नलिकाग्रमधोमुखीं कुर्यात् ।
अन्तरूर्ध्वं भाराक्रान्तां सरति रसो नात्र संदेहः ॥१६॥
(सारणायन्त्र) कृत्वाष्टांगुलमूषां धूर्तकुसुमोपमां दृढां श्लक्ष्णां ।
अपरा मध्यगतापि च सच्छिद्रा च सप्तांगुला कार्या ॥१७॥
निरुद्धतां च कृत्वा सूतं प्रक्षिप्य तैलसंयुक्तं ।
निर्धूमं कर्षाग्नौ स्थाप्य मूषां सुसंधितां कृत्वा ॥१८॥
(सारणायन्त्र) वितस्तिमात्रनलिकापि कार्या सुदृढे तदग्रतो मूषे ।
उत्तानैका कार्या निश्छिद्रा छिद्रमुद्रिता च तनौ ॥१९॥
दत्त्वा सूतं पूर्वं सारणतैलान्वितं निधाप्य भुवि ।
उत्तानायां मूषायां तस्यां बीजं समावृत्य ॥२०॥
स्वच्छं ज्ञात्वा च ततस्तद्बीजं छिद्रसंस्थितं कुर्यात् ।
बीजं सूतस्योपरि निपतति बध्नात्यसंदेहं ॥२१॥
(सारणा) सा च प्रकाशमूषा न्युब्जा कार्यार्धाङ्गुलसंनिविष्टा ।
नलिका कार्या विधिना ऊर्ध्वे सूतस्त्वधो बीजं ॥२२॥
मूषां निरुध्य विधिना ध्माता कोष्ठे द्रुतं बीजं ।
ज्ञात्वा परिवर्त्य ततो निबध्नाति सूतराजं च ॥२३॥
(सारणाः: ) अथवा डमरुकयन्त्रे सारणविधिना नियोजितः सूतः ।
सरति रसेन्द्रो विधिना ज्ञात्वा तत्कर्मकौशल्यं ॥२४॥
(जारणा ) वेध पोतेन्च्य्) तत्सारितं रसेन्द्रं ग्रासविधानेन जारयेत्तदनु ।
पुनरपि सारितसूतो विध्यति कोट्यंशतः शुल्बं ॥२५॥
(सारणाः: ) क्रामणवसादियोगाद्विधिना सूतः सरत्येव ।
चपलत्वातिलघुत्वाद्बीजं यतोऽथ विप्लुषः कार्यः ॥२६॥
(सारण, क्रामणः: सरति सुखेन च सूतो दहति मुखं नैव हस्तपादादि ।
क्रमति रसः फणियोगान्माक्षिकयुतहेमगैरिकया ॥२७॥
(द्रुति, सारणा) माक्षीकसत्त्वयोगात्फणियोगान्नागवद्द्रवति शीघ्रं ।
द्रवति च कनके सूतः संसार्यते विधिना ॥२८॥
(मेर्चुर्यः:) तस्माद्द्रव्यविधायी सूतो बीजेन सारितो लघुना ।
समसारितः सुबद्धो मूषायां स्यात्समावर्तः ॥२९॥
((प्रति, अनु)सारणा) सारितवर्तितसूतः समानबीजेन मिलति यः सार्यः ।
द्विगुणेन प्रतिसार्यः स चानुसार्यश्च त्रिगुणेन ॥३०॥
(सारण ) शतवेधी सार्यः प्रतिसारितः स्यात्सहस्रवेधी च ।
अनुसारितोऽयुतेन च विधिनापि बलाबलं ज्ञात्वा ॥३१॥
अनुसारितेन तु समः स्वच्छः सूतः सारितस्तदनु ।
स भवति लक्षवेधी प्रतिसारितः प्रयुतवेधी च ॥३२॥
कोटिं विध्यति सूतोऽप्यनुसारितः सरति बीजेन ।
प्रतिसारितोऽनुसारितो दशकोटिं विध्यते सूतः ॥३३॥
प्रतिसारितस्तथाब्जं त्वनुसारितः खर्ववेधी च ।
एवं सारणयोगात्कुरुते वेधं यथेप्सितं विधिना ॥३४॥
अनुसारितेन सारितो विध्यति शुल्बं निखर्वसंख्याकं ।
प्रतिसारितस्तु विध्यति पद्मं स्वनुसारितः शङ्खं ॥३५॥
विध्येद्द्विगुणं द्रव्यं नागं दत्त्वानुवाहयेच्छनकैः ।
तावद्यावत्कनकं दिव्यं प्रोन्मीलयेत्सकलं ॥३६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:08.3130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पावमान्य

  • n. एक वैदिक मंत्रसंघ [ऐ.आ.२.२.२] आश्वलायन लोगों के तर्पण में, इनका उल्लेख है । 
RANDOM WORD

Did you know?

श्रावण महिन्यांत महादेवाच्या पिंडीवर दुधाचा अभिषेक कां करावा? त्याचे पुण्य काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.