TransLiteral Foundation

रसहृदयतंत्र - अध्याय १८

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


अध्याय १८
अनया खलु सारणया क्रामणेन च विशति योजितो विधिवत् ।
असति वेधविधौ न रसः स्वगुणान्प्रकाशयति ॥१॥
(हेमकृष्टि) रसदरदताप्यगन्धकमनःशिलाराजवर्त्तकं विमलं ।
पुटमृतशुल्बं तारे निर्व्यूढं हेमकृष्टिरियं ॥२॥
(शतांशविधि वेध (१)) अष्टानवतिर्भागास्तारस्त्वेकोऽपि कनकभागः स्यात् ।
सूतस्यैको भागः शतांशविधिरेष विख्यातः ॥३॥
(शतांशविधि (२)) एकोनपञ्चाशद्भागास्तारस्येह तथैव शुल्वस्य ।
कनकस्यैको भागो वेधश्चैकेन सूतस्य ॥४॥
एवं सहस्रवेधी नियुज्यते कोटिवेधी च ।
जारणबीजवशेन तु सूतस्य बलाबलं ज्ञात्वा ॥५॥
(कुन्तवेध) दत्त्वादौ प्रतिवापं लाक्षामत्स्यादिपित्तभावनया ।
तारे वा शुल्बे वा तारारिष्टे तथा कृष्टौ ॥६॥
तदनु क्रामणमृदिते तत्कल्केनापि पिण्डितरसेन ।
अतिविद्रुते च तस्मिन्वेधोऽसौ कुन्तवेधेन ॥७॥
(क्रामण (?)) तत्तैलार्द्रपटेन स्थगयेत्पललेन भस्मना वापि ।
विधिवद्वेध्यं द्रव्यं रसराजक्रामणार्थं हि ॥८॥
इति सारितस्य कथितं रसस्य वेधादि क्रामणं कर्म ।
(लेपवेध ।पत्त्ररञ्जन) पादादिजीर्णबीजो युज्यते पत्रलेपेन ॥९॥
(पत्त्ररञ्जन (२) दुर्छ्लेप) अम्लाद्युद्वर्तिततारारिष्टादिपत्रं अतिशुद्धं ।
आलिप्य रसेन ततः क्रामणलिप्ते पुटेषु विश्रान्तं ॥१०॥
(वर्णपुट) अर्धेन मिश्रयित्वा हेम्ना ज्येष्ठेन तद्दलं पुटितं ।
क्षितिखगपटुरक्तमृदा वर्णपुटोऽयं ततो देयः ॥११॥
भूपतिवर्तकचूर्णं शिरीषपुष्परसभावितं बहुशः ।
सद्यः करोति रक्तं सितकनकं अशीतिभागेन ॥१२॥
(वेधः:) रसदरदविमलताप्यं पटुशिलामाक्षीकनृपाश्चैव ।
प्रवालकंकुष्ठटङ्कणगैरिकप्रतिवापितं सितं कनकं ॥१३॥
तापीभवनृपावर्तबीजपूररसार्दितं ।
करोति पुटपाकेन हेम सिन्दूरसन्निभं ॥१४॥
वङ्गाभ्रं सितमाक्षीकं शैलं वा वाहयेत्सिते ।
तत्तारं च दशांशेन तारोत्कर्षं करोति हि ॥१५॥
नागः करोति मृदुतां निर्व्यूढस्तां च रक्ततां च रविः
शुल्बहतं रसगन्धाहतखगपीतं दशांशेन ।
विध्यति कनकं कुरुते तन्निर्व्यूढं मर्दितं सुदृढं ॥१९॥
तां पीततां च तीक्ष्णं काचस्तत्कालिकविनाशं च ॥१६॥
कनकारुणसममाक्षिककरञ्जतैलाप्लुतो ध्मातः ।
पाते पाते दश दश विन्दति यावद्धि कोटिमपि ॥१७॥
स चायमतिविलीनः कंगुणीतैलसेचितो बहुशः ।
माक्षीकरविनिवापं विध्यति कनकं शतांशेन ॥१८॥
शुल्बहतं रसगन्धाहतखगपीतं दशांशेन ।
विध्यति कनकं कुरुते तन्निर्व्यूढं मर्दितं सुदृढं ॥१९॥
(वेध) रसकसमं सुध्मातं कनकं भुक्त्वा ततोऽर्कचन्द्रलेपेन ।
माक्षिकसत्त्वं हेम्ना करोति जीर्णो रसः शतांशेन ॥२०॥
अष्टगुणं मृतशुल्बं कलधौतेन मूकमूषया लिप्तं ।
तत्षोडशांशजीर्णं विध्यति तारं शतार्धेन ॥२१॥
आवृत्य कनककरिणौ शिलया प्रतिवापितौ ततो भुक्त्वा ।
दोलायन्त्रे गन्धकजीर्णस्तारे दशांशवेधी स्यात् ॥२२॥
रिपुनिहतलोहषट्कं जीर्णो धान्यस्थितश्चतुर्मासं ।
सहितः पुरसुराभ्यां विध्यति घोषं शतांशेन ॥२३॥
वक्ष्ये सम्प्रति सम्यग्यद्बीजं समरसे जीर्णं ।
पिष्टिस्तम्भादिविधिं प्रकाश्यमानं बुधाः शृणुत ॥२४॥
राजावर्तकविमलपीताभ्रगन्धताप्यरसकैश्च ।
कांक्षीकासीसशिलादरदैश्च समन्वितं नागं ॥२५॥
अहिमाररसैः पुटितं मारय नागं निरुत्थकं यावत् ।
तदनु च तस्य हि मध्ये शुल्बं गन्धं च लवणकंकुष्ठं ॥२६॥
तत्सर्वं शतवारान्भावय पक्वार्कपत्रसलिलैश्च ।
घोषाकृष्टे शुल्बे चूर्णं निर्वाहयेच्छतशः ॥२७॥
शुल्बेन तेन हि समं रसकपीताभ्रसत्वविमलं च ।
गैरिकमाक्षिकसत्त्वं टङ्कणनागं च तीक्ष्णयुतं ॥२८॥
एतैर्द्वन्द्वं कृत्वा माक्षिकवापेन रञ्जयेच्छुल्वं ।
वारांश्च विंशतिरपि गलितं सेचयेत्तदनु ॥२९॥
निर्गुण्डीकाकमाचीकन्यारसमेलनं कृत्वा ।
वारान्सप्त च विधिना तदपि च निर्वापयेद्धेम्नि ॥३०॥
यावच्चतुर्विंशतिगुणं बीजवरं रञ्जयेत्तच्च ।
पक्वं माक्षिकमेव हि तेन च विधिना तदपि चतुर्विंशतिगुणं ॥३१॥
तद्बीजं लघुमात्रं रसराजे संस्कृते पूर्वं ।
मूषायां खलु दत्त्वा दशगुणं च गन्धकं दाह्यं ॥३२॥
अथवा वालुकयन्त्रे सुदृढे चतुर्दशांगुलमूषायां ।
मध्ये सूतं मुक्त्वा लघुतरपुटयोगतः पिहिता ॥३३॥
तेन समं बीजवरे पिष्टिः पादांशतः कार्या ।
अंगुलिनवपरिमाणे मूषामध्ये च पिष्टिकां दत्त्वा ॥३४॥
निर्गुण्डीकाकमाचीगोजिह्वादुग्धिकारक्ता ।
गृहकन्यामधुसैन्धवपिण्डैरपि समन्ततश्छाद्या ॥३५॥
तावत्कार्यः पुटयोगो यावद्दृढतां समायाति ।
षड्गुणगन्धकतालककांक्षीकासीसलवणक्षारं ॥३६॥
ताप्यं तत्सर्वसमं देयं बाह्ये तदौषधिपिण्डं ।
षड्गुणषड्गुणसहितं पिष्टीं यन्त्रेऽथ कच्छपे दत्त्वा ॥३७॥
स्वेद्यं पुटयोगेन तु त्रिदिनं घटिकात्रयं यावत् ।
उद्धृत्य ततो यत्नात्पिष्ट्वा सुचूर्णितां कृत्वा ॥३८॥
समबीजेन तु सार्यो नागं त्रिगुणं ततः समुत्तार्य ।
प्रतिसारणा च कार्या जारितसूतेन बीजयुक्तेन ॥३९॥
अनुसारणा च पश्चात्त्रिगुणं बीजं भवेद्यत्र ।
प्रागुक्तं तस्योपरि मृतनागं शतगुणं वाह्यं ।
तेन च घोषाकृष्टे शुल्बे वेधोऽथ सप्तशतैः ॥४०॥
(क्षेपवेध) क्रामणं एतत्प्रागपि माक्षिकदरदगन्धकशिलाभिः ।
राजावर्तकविमलप्रवालकङ्कुष्ठतुत्थविषैः ॥४१॥
कान्तगैरिकटंकणभूमिलतारुधिरशक्रगोपरसैः ।
महिषीणां कर्णमलैर्मृतलोहं वायसस्य विष्ठा च ॥४२॥
पारावतस्य विष्ठा स्त्रीपयः सर्वं एकतः कृत्वा ।
क्रामणकल्कं चैतच्छतवारान्रक्तपीतगणैः ॥४३॥
भाव्यं कंगुणितैले क्रौञ्चीपित्तभावनाः सप्त ।
कल्केनानेन पचेत्सारितपिष्टिं च हण्डिकायां हि ॥४४॥
यावद्रक्ता भवति हि गच्छति नागं समुत्तार्य ।
तावत्क्षेपं च क्षिपेत्सर्वस्मिन्सारणादौ च ॥४५॥
एवं हि कोटिवेधी रसराजः क्रामितो भूत्वा ।
पुंस्त्वादेरुच्छ्रायप्रदो भूत्वा भोगान्दत्ते ॥४६॥
अभ्रकमाक्षिककनकं नागयुतं मिलितं विधिना ।
सूते पिष्टिः कार्या दिव्यौषधियोगतः पुटिता ॥४७॥
षड्गुणगन्धकदाहः शिलया नागं समुत्तार्य ।
तारे हेमाकृष्टिर्मिलिता स्यात्षोडशांशेन ॥४८॥
माक्षिकनिहतं शुल्बं शिलया निहतं च नागतुल्यांशं ।
पुटितं जम्बीररसैः सैन्धवसहितं पचेत्स्थाल्यां ॥४९॥
तच्चूर्णं घृतमधुकटङ्कणसहितं च गुप्तमूषायां ।
तारे त्रिगुणं व्यूढं हेमाकृष्टिर्भवेद्दिव्या ॥५०॥
शुल्बं बलिना निहतं तीक्ष्णं दरदेन निहतसमभागं ।
एकीकृत्वा पुटयेत्पचेन्मातारसेनैव ॥५१॥
तारे व्यूढं त्रिगुणं मार्जाराक्षनिभं भवेत्तच्च ।
लिप्तं रसेन पुटितं हेमार्धेन मात्रया तुल्यं ॥५२॥
लिप्तं तदनु पुटितं नागं हि रसेन पादयुक्तेन ।
खर्परकस्थं कृत्वा कार्यं विधिना दृढं ताप्यं ॥५३॥
निर्गुण्डीरसभावितपुटितं शिलया वर्तितं श्लक्ष्णं ।
तावन्मृदितपुटितं निरुत्थभावं व्रजेद्यावत् ॥५४॥
तारे तन्निर्व्यूढं यावत्पीतं भवेद्रुचिरं ।
हेमसमेन च मिलितं मात्रातुल्यं भवेत्कनकं ॥५५॥
(स्वर्णमाक्षिक ) ताप्यं चांगुलिसंज्ञं चूर्णं कृत्वा तदन्तरे दत्त्वा ।
शुल्बस्य गुप्तमूषा कार्या पुटिताप्यथ च ध्माता ॥५६॥
हेम्ना मिलितं विधिना मात्रातुल्यं भवत्येव ।
पादादिजीर्णसूते लिह्यात्पत्राणि हेमकृष्टीनां ॥५७॥
क्रामणयोगेन ततो विलिप्य विधिना निधाय तुल्याधः ।
पश्चाद्धेम्ना सहितं ध्मातं मूषोदरे समावर्त्य ॥५८॥
यन्त्रं हण्ड्यां पक्वं पञ्चमृदावाप्य पुटपक्वं ।
वक्ष्यामि चालेपविधिं क्रमति च सूतो यथा हि पत्रेषु ।
रञ्जति येन विधिना समासतः सूतराजस्तु ॥५९॥
कृत्वालक्तकवस्त्रं लिप्तमनुस्नेहमुपरि चूर्णेन ।
अवचूर्णितं तु कृत्वा गन्धकशिलया विधानेन ॥६०॥
तदुपरि शृतं च दत्त्वा गन्धकशिलाचूर्णं च सूतवरे ।
पश्चाद्वर्तिः कार्या पात्रे धृत्वायसे च समे ॥६१॥
दीपं प्रतिबोध्य ततस्तैलं दत्त्वा ततः स्तोकं ।
पाकं यामस्यार्धं स्वाङ्गे शीतं ततः कार्यं ॥६२॥
गृह्णीयादथ सूतकृष्टीं लिप्ता ततस्तेन ।
क्रामणयोगैर्लिप्त्वा पुटिता सा हेम्नि निर्ध्माता ॥६३॥
अथवा दरदशिलालैर्गन्धकमाक्षीकपक्वमृतनागैः ।
कंकुष्ठप्रवालसहितैः पिष्टैश्च कङ्गुणीतैले ॥६४॥
मध्ये सूतो युक्तो मृदितः खल्वे तथायसे विधिना ।
संस्वेद्य वंशनलिकां दोलायन्त्रेण स्वेदितं त्रिदिनं ॥६५॥
एतैर्लिप्त्वा कृष्णैः पत्रं पूर्वोक्तविधानेन ।
नागं दत्त्वा प्रकटं स्तोकं स्तोकं क्रमेणैव ॥६६॥
भवति हि कनकं दिव्यमक्षीणं देवयोग्यं च ।
एवं जारितसूते सकलाः खलु हण्डिकाः सर्वाः ॥६७॥
निर्बीजं समजीर्णे पादैकेनैव षोडशांशेन ।
अर्धेन पादयोगं पादेनैकेन तुल्यकनकं च ॥६८॥
(ताराकृष्टि) ताराकृष्टिं वक्ष्ये मृतवङ्गं तालकेन तुल्यांशं ।
लम्बितमथ निर्ध्मातं ताम्रं तारछविं वहति ॥६९॥
पश्चान्नागं देयं प्रकाशमूषासु निर्मलं यावत् ।
तावद्ध्मातं विधिना सुनिर्मलं निस्तरङ्गं तु ॥७०॥
तालशिलासर्जिकाभिः सैन्धवलवणेन नयनहितसहितैः ।
एकैकं सहितं वा वेधं दत्त्वा पुनः शुल्बे ॥७१॥
छगणं माहिषतक्रं स्नुहीक्षीरेण सर्पिषा क्रमशः ।
सगुडदुग्धमधुविमिश्रैः क्रमशो वेधे निषेकश्च ॥७२॥
काञ्ची ब्राह्मी कुटिलं तालकं समभागयोजितं ध्मातं ।
शुल्बं विद्धमनेन तु ताराकृष्टिर्भवेद्दिव्या ॥७३॥
एवं ताराकृष्टिर्लिप्त्वा विद्धा रसेन सारितेन ।
तारं करोति विमलं लेपं वा पादजीर्णादि ॥७४॥
इति मिश्रीकृतविद्धं क्रमितं त्वथ मातृकातुल्यं ।
तारदलं भवति छेदनताडननिकषैश्च निर्दोषं ॥७५॥
एवं वेधविधानं शास्त्रविधिज्ञेन कर्मकुशलेन ।
ज्ञात्वा गुरूपदेशं कर्तव्यं कर्मनिपुणेन ॥७६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:08.8500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

fluorescein isothiocyanate

  • फ्लुओरेसिन आयसोथायोसायनेट 
RANDOM WORD

Did you know?

How do I become a moderator on QnA?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site