TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मन्त्रमहोदधिः - प्रथमः तरङ्गः

श्रीमन्महीधर भट्ट ने स्वयं इस ग्रंथ में शान्ति , वश्य , स्तम्भन , विद्वेषण , उच्चाटण और मारण की विधि बताई है ।


प्रथमः तरङ्गः

मङ्गलाचरणम् ‍

प्रणम्य लक्ष्मीनृहरिं महागणपतिं गुरुम् ‍ ।

तन्त्राण्यनेकान्यालोक्य वक्ष्ये मन्त्रमहोदधिम् ‍ ॥१॥

प्रातरुत्थाय शिरसि ध्यात्वा गुरुपदाम्बुजम् ‍ ।

आवश्यकं विनिर्वर्त्य स्नातुं यायात् ‍ सरित्तटे ॥२॥

नौका

नत्वा लक्ष्मीपतिं देवं स्वीये मन्त्रमहोदधौ ।

नावं विरचये रम्यां तरणाय गुणैर्युताम् ‍ ॥

अरित्र

साम्बं सदाशिवं देवं तन्त्रमार्गप्रदर्शकम् ‍ । मङुलाय च लोकानां भक्तानां रक्षणाय च ॥१॥

विद्याप्रदं गणपतिं सर्वप्रत्यूहनाशकम् ‍ । भक्ताभीष्टप्रदातारं बुद्धिजाड्यापहारकम् ‍ ॥२॥

तथा श्रेयस्करी शक्तिं नत्वा मन्त्रमहोदधेः । भाषाटीकां वितनुते मालवीयः सुधाकरः ॥३॥

नारोचकीं न वा क्लिष्टां नाव्यक्तां न च विस्तृताम् ‍ । पदाक्षरानुगां स्पष्टां भावमात्रप्रबोधिनीम् ‍ ॥४॥

श्रौतेन विधिना स्नात्वा मन्त्रस्नानं समाचरेत् ‍ ।

स्मार्तसन्ध्यां मन्त्रसन्ध्यां कृत्वा देवं विचिन्तयेत् ‍ ॥३॥

द्वारपूजाक्रमः

गृहद्वारमथागत्य द्वारपूजां समाचरेत् ‍ ।

द्वारमस्त्राम्बुना प्रोक्ष्य गणेशं चोर्ध्वतो यजेत् ‍ ॥४॥

महालक्ष्मी दक्षभागे वामभागे सरस्वतीम् ‍ ।

पुनर्दक्षे यजेद् ‍ विघ्नं गङां च यमुनामपि ॥५॥

पुनर्वामे क्षेत्रपालं स्वः सिन्धुयमुने अपि ।

पुनर्दक्षे तु धातारं विधातारं तु वामतः ॥६॥

तद्वन्निधि शङ्खपद्मौ ततोऽर्च्चेद् ‌ द्वारपालकान् ‍ ।

प्राणायामविधिः

द्वारपूजां विधायेत्थं प्रविश्यार्चनमन्दिरम् ‍ ॥७॥

उपविश्यासने नत्वा गणेशगुरुदेवताः ।

प्राणानायम्य तारेण पूरकुम्भकरेचकैः ॥८॥

द्वात्रिंशता चतुःषष्टया क्रमात् ‍ षोडशसङ्खयया ।

देवार्चायोग्यताप्राप्त्यै भूतशुद्धिं समाचरेत् ‍ ॥९॥

मूलाधारस्थितां देवीं कुण्डलीं परदेवताम् ‍ ।

बिसतन्तुनिभां विद्युत्प्रभां ध्यायेत् ‍ समाहितः ॥१०॥

मुलाधारात् ‍ समुत्थाप्य संङुता हृदयाम्बुजे ।

सुषुम्नामार्गमाश्रित्यादाय जीवं हृदम्बुजात् ‍ ॥११॥

प्रदीपकलिकाकारं ब्रह्मरन्ध्रगतं स्मरेत् ‍ ।

जीवं ब्रह्मणि संयोज्य हंसमन्त्रेण साधकः ॥१२॥

पाददिब्रह्मरन्ध्रान्तं स्थितं भूतगणं स्मरेत् ‍ ।

स्ववर्णबीजाकृतिभिर्युक्तं तद्विधिरुच्यते ॥१३॥

पादादिजानुपर्यन्तं चतुष्कोणं सवज्रकम् ‍ ।

भूबीजाढ्यं स्वर्णवर्णं स्मरेदेवनिमण्डलम् ‍ ॥१४॥

जान्वाद्यानाभिचन्द्रार्द्धनिभं पद्मद्वयाङ्कितम् ‍ ।

वंबीजयुक्तं श्वेताभमम्भसो मण्डलं स्मरेत् ‍ ॥१५॥

नाभेर्हृदयपर्यन्तं त्रिकोणं स्वस्तिकान्वितम् ‍ ।

रंबीजेन युतं रक्तं स्मरेत् ‍ पावकमण्डलम् ‍ ॥१६॥

हृदो भ्रूमध्यपर्यन्तवृत्तं षड्‌बिन्दुलाञ्छितम् ‍ ।

यंबीजयुक्तं धूम्राभं नभस्वन्मण्डलं स्मरेत् ‍ ॥१७॥

आब्रह्यरन्ध्रं भ्रूमध्याद् ‍ वृत्तं स्वच्छमनोहरम् ‍ ।

हंबीजयुक्तमाकाशमण्डलं प्रविचिन्तयेत् ‍ ॥१८॥

पद्धस्तपायूस्थावाक्‌क्रमाद्धयेया धरादिगाः ।

स्वकीयविपर्ययैर्युक्ता गमनग्रहणादिभिः ॥१९॥

घ्राणं च रसना चक्षुः स्पर्शनं श्रोत्रमिन्द्रियम् ‍ ।

क्रमाद्धयेयं धरादिस्थं गन्धादिगुणसंयुतम् ‍ ॥२०॥

ब्रह्मविष्णुशिवेशानाः सदाशिवैतीरिताः ।

धरादिभूतसङेवशा ध्येयास्तत्मण्डलेषु ते ॥२१॥

निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिश्चतुर्थिका ।

शान्त्यतीतेति पञ्चैव कला ध्येया धरादिगाः ॥२२॥

समानोदानव्यानाश्चापानप्राणौ च वायवः ।

धरादिमण्डलगताः पञ्चध्येयाः क्रमादिमे ॥२३॥

एवंभूतानि सञ्चिन्त्य प्रत्येकं प्रविलापयेत् ‍ ।

भुवं जले जलं वहनौ वहिनं वायौ नभस्यमुम् ‍ ॥२४॥

विलाप्य खमहङ्कारे महत्तत्त्वेप्यहङ्‌कृतिम् ‍ ।

महान्तं प्रकृतौ मायामत्मनि प्रविलापयेत् ‍ ॥२५॥

शुद्धसच्चिन्मयो भूत्वा चिन्तयेत् ‍ पापपूरुषम् ‍ ।

दक्षकुक्षिस्थितं कृष्णमङ्‌गुष्ठपरिमाणकम् ‍ ॥२६॥

विप्रहत्याशिरो युक्तं कनकस्तेयबाहुकम् ‍ ।

मदिरापानहृदयं गुरुतल्पकटीयुतम् ‍ ॥२७॥

पापिसंयोगिपद्वन्द्वमुपपातकरोमकम् ‍ ।

खङ्‍गचर्मधरं दुष्टमधोवक्त्रं सुदुःसहम् ‍ ॥२८॥

वायुबीजं स्मरन् ‍ वायुं संपूर्यैनं विशोषयेत् ‍ ।

स्वशरीयुतं मन्त्री वहिनबीजेन निर्दहेत् ‍ ॥२९॥

कुम्भके परिजप्तेन ततः पापनरोद्धवम् ‍ ।

बहिर्भस्मसमुत्सार्य्य वायुबीजेन रेचयेत् ‍ ॥३०॥

सुधाबीजेन देहोत्थं भस्मसंप्लावयेत् ‍ सुधीः ।

भूबीजेन घनीकृत्य भस्मतत्कनकाण्डवत् ‍ ॥३१॥

विशुद्धमुकुराकारं जपन्बीजं विहायसः ।

मूर्द्धादिपादपर्यन्तान्यङानि रचयेत् ‍ सुधीः ॥३२॥

आकाशादीनि भूतानि पुनरुत्पादयेच्चितः ।

सोऽहं मन्त्रेण चात्मानमानयेद् ‍ हृदयाम्बुजे ॥३३॥

कुण्डली जीवमादाय परसंगात् ‍ सुधामयम् ‍ ।

संस्थाप्य हृदयाम्भोजे मूलाधारगतां स्मरेत् ‍ ॥३४॥

प्राणप्रतिष्ठा

भूतशुद्धिं विद्यायैवं प्राणस्थापनमाचरेत् ‍ ।

प्राणप्रतिष्ठामन्त्रस्यं मुनयोऽजेशपद्मजाः ॥३५॥

छन्दऋग्यजुषं सामप्राणशक्तिस्तु देवता ।

पाशो बीजं त्रपा शक्तिर्विनियोगोऽसुसंस्थितौ ॥३६॥

ऋषीञ्छिरसि वक्त्रे तु छन्दांसि हृदिदेवताम् ‍ ।

गुह्ये बीजं पदोः शक्तिं न्यस्य कुर्यात्षडङुकम् ‍ ॥३७॥

कवर्गनभआद्यैर्हृच्च शब्दाद्यैः शिरः स्मृतम् ‍ ।

टश्रोत्राद्यैः शिखाप्रोक्ता तवर्गाद्यस्तनुच्छदम् ‍ ॥३८॥

पवक्तव्यादिभिर्नेत्रमस्त्रं येनान्तरिन्द्रियैः ।

आत्मनेतान्मनूनङान् ‍ विन्यसेद् ‍ हृदयादिषु ॥३९॥

पञ्चमं प्रथमं पश्चाद् ‍ द्वितीयं च चतुर्थकम् ‍ ।

तृतीयमित्थं क्रमतो वर्गवर्णान् ‍ समुच्चरेत् ‍ ॥४०॥

यवर्गेऽप्येवमुच्चार्य नभः श्वेतोऽन्तिमो भृगुः ।

विमलश्चेति चोच्चार्याः क्रमाद्वर्णाः सबिन्दवः ॥४१॥

नभो वाय्वग्निवार्भूमिनभ आदय ईरिताः ।

शब्दस्पर्शो रुपरसगन्धाः शब्दादयो मताः ॥४२॥

श्रोत्रं त्वङ्‌नयनं जिहवाघ्राणं श्रोत्रादयः स्मृताः ।

वाक्पाणी पादपायू चोपस्थो वागादयः पुनः ॥४३॥

वक्तव्यादानगमविसर्गानन्दसंज्ञकाः ।

वक्तव्याद्या बुद्धिमनोहंकाराश्चित्तसंयुताः ॥४४॥

अन्तरिन्द्रिय संज्ञाः स्युरेवमुक्तं षडङुकम् ‍ ।

नाभेरारभ्य पादान्तं पाशबीजं प्रविन्यसेत् ‍ ॥४५॥

नाभ्यन्तं हृदयाच्छक्तिं हृदन्तं मस्तकाच्छृणिम् ‍ ।

त्वगसृड्‌मांसमेदोस्थिमज्जाशुक्राणि विन्यसेत् ‍ ॥४६॥

आत्मने हृदयान्तानि यादिसप्तादिकान्यपि ।

ओजः सद्यान्विताकाशपूर्वं प्राणं तु खादिकम् ‍ ॥४७॥

भृग्वादिकं न्यसेज्जीवमेतान् ‍ हृदयदेशतः ।

यकाराद्या आद्यवर्णाः सर्वेस्युश्चद्रभूषिताः ॥४८॥

ततः समस्तमूलेन मूर्ध्वाविचरणावधि ।

विधाय व्यापकन्यासं विन्यसेत् ‍ पीठदेवताः ॥४९॥

पीठदेवतान्यासः

मण्डूकश्चार्थं कालाग्नी रुद्र आधारशक्तियुक् ‍ ।

कूर्मोधरासुधासिन्धुः श्वेतद्वीपं सुराङि‌घ्रपाः ॥५०॥

मणिहर्म्यं हेमपीठं धर्मो ज्ञानं विरागता ।

ऐश्वर्यं धर्मपूर्वास्तु चत्वारस्ते नञादिकाः ॥५१॥

धर्मादयः स्मृताः पादाः पीठगात्राणि चेतरे ।

मध्येऽनन्तस्तत्त्वपद्ममानन्दमयकन्दकम् ‍ ॥५२॥

संविन्नाल ततः प्रोक्ता विकारमयकेसराः ।

प्रकृत्यात्मकपत्राणि पञ्चाशद्वर्णकर्णिका ॥५३॥

सूर्यस्येन्दोः पावकस्य मण्डलत्रितयं ततः ।

सत्त्वं रजस्तमः पश्चादात्मयुक्तोन्तरात्मना ॥५४॥

परमात्माथ ज्ञानात्मा तत्त्वे मायाकलादिके ।

विद्यातत्त्वं परं तत्वं कथिताः पीठदेवताः ॥५५॥

पूजने सर्वदेवानां पीठे ताः परिपूजयेत् ‍ ।

न्यासस्थानानि चैतासां शरीरे बहिरर्चने ॥५६॥

पूजातरङे वक्ष्यन्ते सेन्द्वाद्यर्णयुताश्च ताः ।

प्राण्शक्तेस्ततः पूज्या अष्टौ पीठस्य शक्तयः ॥५७॥

हृदयाम्भोजपत्रेषु नवमीत्वधिकर्णिकम् ‍ ।

जयाख्या विजया पश्चादजिता चाऽपराजिता ॥५८॥

नित्या विलासिनी दोग्ध्री त्वघोरा मङुलान्तिमा ।

पाशादिबीजत्रितयं प्रोच्य पीठं दिशेत्ततः ॥५९॥

एवं देहमये पीठे ध्यायेद् ‍ देवीमसुप्रदाम् ‍ ।

नवयौवनर्वाध्यां पीवरस्तनशोभिनीम् ‍ ॥६०॥

प्राणशक्तिध्यानकथनम् ‍

पाशं चापासृक्कपाले सृणीषूञ्छूलं हस्तैर्बिभ्रतीं रक्तवर्णाम् ‍ ।

रक्तोदन्वत्पोतरक्ताम्बुजस्थां देवीं ध्यायेत् ‍ प्राणशक्तिं त्रिनेत्राम् ‍ ॥६१॥

अष्टपत्रस्थषट्‌कोणे ध्यात्वैवं पूजयेत्तु तान् ‍ ।

प्राग्रक्षोन्वायुकोणेषु ब्रह्मविष्णुशिवान् ‍ यजेत् ‍ ॥६२॥

अग्निवारुणशैवेषु वाणीलक्ष्मीहिमाद्रिजाः ।

केशरेषु षडङानि पत्रेष्वष्टौ तु मातरः ॥६३॥

ब्राह्मी माहेश्वरी चापि कौमारी वैष्णवी तथा ।

वाराही च तथेन्द्राणी चामुण्डा सप्तमी मता ॥६४॥

अष्टमी तु महालक्ष्मीः प्रोक्ता विश्वस्य मातरः ।

देवतापूजने प्राची मध्ये पूजकपूज्ययोः ॥६५॥

इन्द्रादयः स्वदिक्ष्वेवं पूजनीया दिगीश्वराः ।

इन्द्रः कृशानुः कीनाशो निऋतिर्वरुणोऽनिलः ॥६६॥

सोमईशाननामाधोऽनन्त ऊर्ध्वं चतुर्मुखः ।

तत इन्द्रादिकाष्ठासु पूज्या दिक्पालहेतयः ॥६७॥

वज्रं शक्तिर्दण्डखड्‌गौ पाशोङ्‌कुशगदे अपि ।

त्रिशूलचक्रपद्मानि दशदिक्पालहेतयः ॥६८॥

एवमिष्टवा ‌ प्राणशक्तिं पञ्चावरणसंयुताम् ‍ ।

ध्यायन् ‍ हृदि करं धृत्वा त्रिर्ज्जपेत्तन्मनु सुधीः ॥६९॥

सप्तार्णमन्त्रोद्धारः

वक्ष्येऽधुना मनोस्तस्योद्धारं धातृसुखावहम् ‍ ।

पाशं मायां सृणिं प्रोच्य यादीन्सप्तेन्दुसंयुतान् ‍ ॥७०॥

तारान्वितं नभः सप्तवर्णं मन्त्रं ततोऽजपाम् ‍ ।

मम प्राणा इह प्राणा मम जीव इह स्थितः ॥७१॥

मम सर्वेन्द्रियाण्युक्त्वा मम वाङ्‌मन ईरयेत् ‍ ।

चक्षुः श्रोत्रघ्रानपदात् ‍ प्राणा इह समीर्य्य च ॥७२॥

आगत्य सुखमुच्चार्य्य चिरं तिष्ठन्तिवदं पठेत् ‍ ।

वहिनजायां च सप्तार्णमन्त्रमन्ते पुनर्वदते ‍ ॥७३॥

प्राणप्रतिष्ठामन्त्रोऽयं स्मृतः प्राणनिधापने ।

ममेत्यस्य पदस्यादौ पाशादीनि समुच्चरेत् ‍ ॥७४॥

यन्त्रेषु प्रतिमादौ वा प्राणस्थापनमाचरन् ‍ ।

मम स्थाने तस्य तस्य षष्ठयन्तामभिधां वदेत् ‍ ॥७५॥

सबिन्दवो मेरुहंसाकाशाः सर्गीभृगुः पुनः ।

मायेति ताररुद्धोऽयं मन्त्रः सप्ताक्षरो मतः ॥७६॥

एवं प्राणान् ‍ प्रतिष्ठाप्य मातृकान्यासमाचारेत् ‍ ।

अकाराद्याः क्षकारान्ता वर्णाः प्रोक्ता तु मातृका ॥७७॥

प्रजापतिर्मुनिस्तस्या गायत्रीछन्दं ईरितम् ‍ ।

सरस्वतीदेवतोक्ता विनियोगोऽखिलाप्तये ।

हलो बीजानि चोक्तानि स्वराः शक्तय ईरिताः ॥७८॥

मूर्ध्नि वक्त्रे हृदि न्यस्येदृष्यादीन् ‍ साधकोत्तमः ।

पञ्चवर्गैर्यादिभिश्च षडङानि समाचरेत् ‍ ॥७९॥

क्लीबहीनशशाङ्काढय हृस्वदीर्घान्तरस्थितैः ।

सानुस्वारैर्जातियुक्तैर्ध्यायेद् ‍ देवी हृदम्बुजे ॥८०॥

पञ्चाशदर्णैरचिताङुभागां धृतेन्दुखण्डां कुमुदावदाताम् ‍ ।

वराभये पुस्तकमक्षसूत्रं भजे गिरं संदधतीं त्रिनेत्राम् ‍ ॥८१॥

ध्यात्वैवं पूजयेत् ‍ पीठे देवताः पूर्वमीरिताः ।

पीठशक्तीस्तदुपरि सरस्वत्यानवार्च्चयेत् ‍ ॥८२॥

मेधाप्रज्ञाप्रभाविद्याश्रीधृतिस्मृतिबुद्धयः ।

विद्येश्वरीति संप्रोक्ता मातृका पीठशक्तयः ॥८३॥

वियद्‌भृगुस्थमनुयुग्विसर्गाढ्यं च मातृका ।

योगपीठायनत्यन्तो मनुरासनदेशने ॥८४॥

मूर्तिसंकल्प्य मूलेन तस्यां वाणीं प्रपूजयेत् ‍ ।

आदावङानि संपूज्य द्वितीये पूजयेत् ‍ स्वरौ ॥८५॥

द्वौ द्वौ तृतीये वर्गांश्च वर्गशत्किश्चतुर्थके ।

व्यापिनी पालिनी चापि पावनी क्लेदिनी पुनः ॥८६॥

धारिणी मालिनी पश्चाद्धंसिनी शङ्खिनी तथा ।

वर्गशक्तय इत्युक्ताह पञ्चमे त्वष्टमातरः ॥८७॥

षष्ठे शक्रादयो देवाः सप्तमे वज्रपूर्वकाः ।

इत्थं सम्पूज्य देवेशीं न्यसेद्वर्नान्निजाङुके ॥८८॥

सृष्ट्‌यादिन्यासवर्णनम् ‍

ललाटे मुखवृत्तेक्षिश्रवोनासासु गण्डयोः ।

ओष्ठयोर्दन्तपङ्‌क्त्योश्च मूर्ध्निवक्त्रे न्यसेत्स्वरान् ‍ ॥८९॥

बाहवोः सन्धिषु साग्रेषु कचवर्गौ न्यसेत् ‍ सुधीः ।

टतवर्गौ पदोस्तद्वत् ‍ पार्श्वयोः पृष्ठदेशतः ॥९०॥

नाभौ कुक्षौ पवर्गं च हृदंसं ककुदं ततः ।

न्यस्य यादिचतुर्वणाच्छादिषटक् ‍ ततो न्यसेत् ‍ ॥९१॥

हृदादिकरयोरङ्‌घ्र्योर्ज्जठरे वदने तथा ।

सृष्टिन्यासं विधायैवं स्थितिन्यासं समाचरेत् ‍ ॥९२॥

ऋषिश्छन्दश्च पूर्वोक्तो देवता विश्वपालिनी ।

उपविष्टां वल्लभाङ्के ध्यायेद् ‍ देवीमनन्यधीः ॥९३॥

मृगबालं वरं विद्यामक्षसूत्रं दधत् ‍ करैः ।

मालाविद्यालसद्धस्तां वहन् ‍ ध्येयः शिवोगिरम् ‍ ॥९४॥

एवं ध्यात्वा डकाराद्यान्वर्णानङेषु विन्यसेत् ‍ ।

गुल्फादिजानुपर्य्यन्तं स्थितिन्यसोऽयमीरितः ॥९५॥

न्यासे संहारसंज्ञे तु ऋषिश्छन्दश्च पूर्ववत् ‍ ।

संहारिणीसपत्नानां शारदा देवता स्मृता ॥९६॥

अक्षस्त्रक्टङ्कसारङविद्याहस्ताम त्रिलोचनाम् ‍ ।

चन्द्रमौलिं कुचानम्राम रक्ताब्जस्थां गिरं भजे ॥९७॥

ध्यात्वैवं विन्यसद्वर्णान् ‍ क्षाद्यानन्तान् ‍ विलोमतः ।

सृष्टिन्यासे तु सर्गान्ताः सर्वबिन्द्वन्तिकाः स्थितौः ॥९८॥

बिन्द्वन्ताः संहृतो चैषा पूर्ववच्चाङुपूजने ।

न्यस्याः सर्वत्र नत्यन्ता वर्णा वा तारसम्पुटाः ॥९९॥

सृष्टिन्यासं स्थितिन्यासं पुनः कुर्यात् ‍ प्रयत्नतः ।

अन्ये तु मातृका न्यासाः कथ्याः पूजातरङुके ॥१००॥

मन्त्रस्नानादिविधयो गद्यास्तत्रैव ते मया ।

भारतीमेवमाराध्य भजेदिष्टान् ‍ मनून् ‍ सुधीः ॥१०१॥

विष्णुः शिवो गणेशोर्को दुर्गा पञ्चैव देवताः ।

आराध्याः सिद्धिकामेन तत्तन्मन्त्रैर्यथोदितम् ‍ ॥१०२॥

आदौ देवं वशीकर्तुं पुरश्चरणमाचरेत् ‍ ।

तीर्थादौ निर्जने स्थाने भूमिग्रहणपूर्वकम् ‍ ॥१०३॥

नवधा तां धरां कृत्वा पूर्वादिषु समालिखेत् ‍ ।

कोष्ठेषु सप्तवर्गांश्च लक्षौ मध्ये तथा स्वरान् ‍ ॥१०४॥

क्षेत्रनामादिमो वर्णस्तत्र कोष्ठे भवेत्ततः ।

उपविश्य जपं कुर्य्यान्नान्यस्मिन् ‍ दुःखदे स्थले ॥१०५॥

पुरश्चरनधर्मकथनम् ‍

आमध्याहनं जपं कुर्यादुपांशुत्वथ मानसम् ‍ ।

हविष्यं निशि भुञ्जीत त्रिःस्नाय्यभ्यङुवर्जितः ॥१०६॥

व्यग्रताऽलस्यनिष्ठीवक्रोधपादप्रसारणम् ‍ ।

अन्यभाषां परेक्षां च जपकाले त्यजेत् ‍ सुधीः ॥१०७॥

स्त्रीशूद्रभाषणं निन्दां ताम्बूलं शयनं दिवा ।

प्रतिग्रहं नृत्यगीते कौटिल्यं वर्जयेत् ‍ सदा ॥१०८॥

भूशय्यां ब्रह्मचर्यं च त्रिकालं देवतार्चनम् ‍ ।

नैमित्तिकार्चनं देवस्तुति विश्वासमाश्रयेत् ‍ ॥१०९॥

प्रत्यहं प्रत्यहं तावन्नैव न्यूनाधिकं क्वचित् ‍ ।

एवं जपं समाप्यान्ते दशांशं होममाचरेत् ‍ ॥११०॥

तत्तत्कल्पोदितैर्द्रव्यैस् ‍ तद्विधानमुदीर्यते ।

प्राणायाम् ‍ षडङुं च कृत्वा मूलेन मन्त्रवित् ‍ ॥१११॥

कुण्डे वा स्थण्डिले कुर्यात्संस्काराणां चतुष्टयम् ‍ ।

मूलेनेक्षणमस्त्रेण प्रोक्षणं ताडनं कुशैः ॥११२॥

वर्म्मणा मुष्टिनासिच्य लिखेद्यन्त्रं तदन्तरे ।

वहिणकोणषडस्त्राष्टदलभूमन्दिरात्मकम् ‍ ॥११३॥

मध्ये तारपुटां मायां लिखित्वा पीठमर्चयेत् ‍ ।

मण्डूकात् ‍ परतत्वान्तं पाठशक्तीर्जयादिकाः ॥११४॥

वागीशीवागीश्वरयोर्योगपीठात्मने नमः ।

मायादिकः पीठमन्त्रस्तयोस्तेनासनं दिशेत् ‍ ॥११५॥

यजेत्तौ तारमायाभ्यां गन्धाद्यरुपचारकैः ।

लक्ष्मीनारयणौ त्वर्च्चेद् ‍ वैष्णवे होमकर्मणि ॥११६॥

सूर्यकान्तादरणितः श्रोत्रियागारतोऽपि वा ।

पात्रेण पिहिते पात्रे वहिनमानाययेत्ततः ॥११७॥

अस्त्रेणादाय तत्पात्रं वर्मणोद्धाटयेत्तु तम् ‍ ।

अस्त्रमन्त्रेण नैऋत्ये क्रव्यादाशं ततस्त्यजेत् ‍ ॥११८॥

मूलेन पुरतो धृत्वा संस्कारांश्च ततश्चरेत् ‍ ।

वीक्षणाद्यान् ‍ पुरा प्रोक्तानल्पं प्रोक्षणमाचरन् ‍ ॥११९॥

परमात्मानलेनाथ जाठरेणापि वहिनना ।

स्मरन्नैक्यं वहिनबीजाच्चैतन्यं योजयेत्ततः ॥१२०॥

तारेण चाभिमन्त्र्याग्नि सुधया धेनुमुद्रया ।

अमृतीकृत्य संरक्षेदस्त्रं मन्त्रेण मन्त्रवित् ‍ ॥१२१॥

मुद्रया त्ववगुङि‌ठन्या कवचेनावगुङ्‌ठयेत् ‍ ।

कुण्डोपरि ततो वहिनं भ्रामयेत् ‍ त्रिध्रुवं पठन् ‍ ॥१२२॥

शय्यागतामृतुस्नातां नीलेन्दीवरधारिणीम् ‍ ।

देवेन भुज्यमानां तां स्मृत्वा तद्योनि मण्डले ॥१२३॥

ईशरेतोधिया वहिनं स्थापयेदात्मसम्मुखम् ‍ ।

मूलं नवार्णं च पठञ्जानुस्पृष्टधरातलः ॥१२४॥

वहिनवार्णमन्त्रोद्धारः

रेफार्घेशेन्दुसंयुक्तं गगनं वहिनचै ततः ।

तन्यायहृदयान्तोऽयं नवार्णोग्निनिधापने ॥१२५॥

विश्राण्याचमनं देवीदेवयोर्ज्वालयेद्वसुम् ‍ ।

चतुविंशतिवर्णेन मन्त्रेण श्रपणादिभिः ॥१२६॥

वहिनचतुर्विंशत्यक्षरमन्त्रोद्धारः

चित्पिङुलहनद्वन्द्वं दहयुग्मं पचद्वयम् ‍ ।

सर्वज्ञाज्ञापय स्वाहा मन्त्रो वेदभुजाक्षरः ॥१२७॥

प्रदर्श्य ज्वालिनीं मुद्रामुत्थाय विहिताञ्जलिः ।

श्लोकरुपेण मन्त्रेण ह्युपतिष्ठेद्धुताशनम् ‍ ॥१२८॥

श्लोकमन्त्राग्निमन्त्रोद्धारः

अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ‍ ।

सुवर्नवर्णममलं समिद्धं विश्वतोमुखम् ‍ ॥१२९॥

अथाग्निमन्त्रं विन्यस्येत्तद्विधानमुदीर्यते ।

वैश्वानरान्ते जातेति वेदान्ते स्यादिहावह ॥१३०॥

लोहिताक्षपदात् ‍ सर्वकर्माण्यते तु साधय ।

वहिनीप्रियान्तो मन्त्रोऽयं षड्‌विंशत्यक्षरान्वितः ॥१३१॥

ऋषिश्छ्न्दो देवतास्य भृगुर्गायत्रपावकाः ।

रंबीजं ठद्वयं शक्तिर्हवने विनियोजनम् ‍ ॥१३२॥

लिङे पायौ मूर्ध्नि वक्त्रे नसि नेत्रे खिलाङुके ।

जिहवाबीजोद्धारः

वहनेर्जिहवाःस्वबीजाढ्या न्यसेन्ङेन्तानमोन्विताः ॥१३३॥

हिरण्या गगना रक्ता कृष्णासुप्रभयान्विता ।

बहुरुपातिक्तेति जिहवा दमुनसो मताः ॥१३४॥

दीपिकानलवायुस्थाः साद्या वर्णाविलोमतः ।

सेन्दवः सप्तजिहवानां सप्तानां बीजतां गताः ॥१३५॥

गीर्वाणपितृगन्धर्वयक्षनागपिशाचकाः ।

राक्षसाश्चेति जिहवानां देवतास्तत्स्थले न्यसेत् ‍ ॥१३६॥

न्यासेर्जने व्युत्क्रमः स्याद् ‍ बहुरुपाति रक्तयोः ।

नेत्रेतिरिक्ता न्यस्तव्या सर्वाङेबहुरुपिका ॥१३७॥

सहस्रार्चिषे हृदयं स्वस्तिपूर्णाय मस्तकम् ‍ ।

उत्तिष्ठ पुरुषायेति शिखामन्तोऽयमीरितः ॥१३८॥

धूमान्ते व्यापिने वर्म सप्तजिहवाय नेत्रकम् ‍ ।

अस्त्रं धनुर्धरायेति षडङानि समाचरेत् ‍ ॥१३९॥

मूर्ध्नि वामेंसके पार्श्वे कटौ लिङे कटौ पुनः ।

दक्षे पार्श्वेसके न्यस्येन्मूर्तीरष्टौ विभावसोः ॥१४०॥

ताराग्नये पदाद्यास्ताश्चतुर्थीनमसान्वितः ।

जातवेदाः सप्तजिहवो हव्यवाहन इत्यपि ॥१४१॥

अश्वोदरसंज्ञोन्यस्तथा वैश्वानराहवहः ।

कौमारतेजाः स्याद्विश्वमुखो देवमुखस्तथा ॥१४२॥

ततो न्यसेन्निजे देहे पीठं हाटकरेतसः ।

वहिनमण्डलपर्यन्तं मण्डूकादि यथोदितम् ‍ ॥१४३॥

पीता श्वेतारुणा कृष्णा धूम्रा तीव्रा स्फुलिङिनि ।

रुचिरा ज्वालिनी चेति कृशानोः पीठशक्तयः ॥१४४॥

बीजं वहन्यासनायेति हृदन्तः पीठमन्त्रकः ।

एवं विन्यस्य पीठान्तं पावकं चिन्तयेत्तनौ ॥१४५॥

अग्निध्यानम् ‍

त्रिनेत्रमारक्ततनुं सुशुक्ल वस्त्रं सुवर्णस्रजमग्निमीडे ।

वराभरस्वस्तिकशक्तिहस्तं पद्मस्थमाकल्पसमूहयुक्तम् ‍ ॥१४६॥

अग्न्यर्चनादिवर्णकम् ‍

एवं ध्यात्वार्चनं कुर्यान्मानसं विधिवद्वसोः ।

परिषिञ्चेत्ततस्तोयैः कुण्डं स्थण्डिलमेव वा ॥१४७॥

दर्भैः परिस्तरेदग्निं प्रागग्रैरुदगग्रकैः ।

प्रत्यग्दक्षिणसौम्यासु न्यसेत्त्रीन्परिधीन्क्रमात् ‍ ॥१४८॥

पालाशान्बिल्वजांस्तेषु ब्रह्माविष्णुशिवान्यजेत् ‍ ।

वहनौ तत्पीठमभ्यर्च्यावाहयेत्स्वहृदोऽनलम् ‍ ॥१४९॥

गन्धादिभिः समभ्यर्च्य पूजयेत् ‍ पावकं व्रती ।

षट्‌सु कोणेषु मध्ये च जिहवास्तद्‌देवता यजेत् ‍ ॥१५०॥

ईशानादिषु वायवन्तकोणेषु षट् ‌ समर्चयेत् ‍ ।

हिरण्याद्यातिरक्तान्ता मध्ये तु बहुरुपिणीम् ‍ ॥१५१॥

केसरेष्वङुपूजास्यादलेष्वष्टसु मूर्तयः ।

मातरोऽष्टौ दलान्तेषु भैरवाः स्युस्तदग्रतः ॥१५२॥

धरापुरें तु शक्राद्या वज्राद्यायुधसंयुताः ।

एवमावरणैर्युक्तं सप्तभिः पावकं यजेत् ‍ ॥१५३॥

अष्टभैरवनामकथनम् ‍

असिताङो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः ।

कपाली भीषणश्चापि संहारश्चाष्टभैरवः ॥१५४॥

वामे कुशानथास्तीर्य तत्र वस्तूनि निःक्षिपेत् ‍ ।

प्रणीताप्रोक्षणीपात्रे आज्यस्थालीं स्रुवं स्रुचम् ‍ ॥१५५॥

अधोमुखनि चैतानि होमद्रव्यं घृतं कुशान् ‍ ।

समिधः पञ्चपालाशीरन्यदप्युपयोगि यत् ‍ ॥१५६॥

कृत्वा पवित्रे मूलेन प्रोक्षेत्तानि शुभाम्भसा ।

उत्तानानि विधायाथ प्रणीतां पूरयेज्जलैः ॥१५७॥

तीर्थमन्त्रेण तीर्थानि सृण्या तत्राहवयेत् ‍ सुधीः ।

पवित्रे ह्रक्षतांस्तत्र निःक्षिप्योत्पवनं चरेत् ‍ ॥१५८॥

अथोदीच्यां निधायैताम प्रोक्षण्यां तज्जलं क्षिपेत् ‍ ।

हवनीयं द्रव्यजातमुक्षेत्तोर्यैः पवित्रगैः ॥१५९॥

मूलेन मूलगायत्र्या यद्वा हृदयमन्त्रतः ।

दक्षिणे पीठमासाद्य तत्र ब्रह्माणमाहवयेत् ‍ ॥१६०॥

अणिभाद्याः सिद्धयोष्टौ ब्रह्मणः पीठदेवताः।

ब्रह्ममन्त्रोद्धारः

तारहृत्पूर्वको ङेन्तो ब्रह्मा मन्त्रोऽस्य पूजने ॥१६१॥

स्त्रुवस्त्रुवसंस्कारः

हस्ताभ्यां स्रुक्सुवौ धृत्वा तापयेत्त्रिरधोमुखौ ।

वामहस्तेन तौ धृत्वा दर्भैर्दक्षेण मार्जयेत् ‍ ॥१६२॥

संप्रोक्ष्य प्रोक्षणीतोयैः प्रतर्प्य पूर्ववत् ‍ पुनः ।

न्यस्याग्नौ मार्जनान्दभास्तयोः शक्तित्रयं न्यसेत् ‍ ॥१६३॥

शक्तित्रयम् ‍

इच्छा ज्ञान क्रिया संज्ञा चतुर्थीनमसान्विता ।

दीर्घत्रयेन्दुयुग्व्योमपूर्वकं स्थानकत्रये ॥१६४॥

हृदास्रुचिन्यसेच्छक्तिं स्रुवे शम्भुं ततस्तु तौ ।

सूत्रत्रयेण संवेष्टय सम्पूज्य कुसुमादिभिः ॥१६५॥

कुशोपरि न्यसेद्‌दक्षे तयोः संस्कार ईरितः ।

अस्त्रोक्षितायामाज्यस्य स्थाल्यामाज्यं विनिःक्षिपेत् ‍ ॥१६६॥

वीक्षाणादिकसंस्कारसंस्कृत मूलमन्त्रतः ।

गोमुद्रयामृतीकृत्य षट् ‍ संस्कारांस्ततश्चरेत् ‍ ॥१६७॥

कुण्डोद्धृते वायुकोणे स्थितेङारे विनिःक्षिपेत् ‍ ।

हृदेति तापनं प्रोक्तं दर्भयुग्मं प्रदीपितम् ‍ ॥१६८॥

आज्ये क्षिप्त्वा हृदावहनौ पवित्रीकरणं क्षिपेत् ‍ ॥१६९॥

आज्यं नीराजयेद् ‍ दीप्तदर्भयुग्मेन वर्मणा ।

अभिद्योतनमुक्तं तद्‌दीप्तं दर्भत्रयं घृते ॥१७०॥

दर्शयेदस्त्रेणोदयोते गृहीत्वा घृतपात्रकम् ‍ ।

संयोज्याग्नौ तदङारान् ‍ सलिलं संस्पृशेत् ‍ सुधीः ॥१७१॥

अङ्‌गुष्ठानामिकाभ्यां तु दर्भावादाय निःक्षिपेत् ‍ ।

त्रिरग्निंसंमुखेत्वाज्यमस्त्रेणोत्पवनं त्विदम् ‍ ॥१७२॥

हृदात्मसम्मुखं तद्वदाज्यक्षेपस्तु संप्लवः ।

नीराजनादिसंस्कारेष्वग्नौ दर्भान् ‍ विनिःक्षिपेत् ‍ ॥१७३॥

दर्भद्वयं ग्रन्थियुतं घृतमध्ये विनिःक्षिपेत् ‍ ।

वामदक्षिणयोः पक्षौ स्मृत्वा नाडीत्रयं स्मरेत् ।

दक्षिणाद्वामतो मध्याद्धऋदादाय घृतं सुधीः ॥१७४॥

अग्नयेग्निप्रियासोमायस्वाहेत्यग्निनेत्रयोः ।

जुहुयादग्नीषोमाभ्यां स्वाहेत्याक्ष्णितृतीयके ॥१७५॥

पातयेदाहुतेः शेषमाहुतिग्रहणस्थले ।

भूयो हृदादक्षभागादादायाज्यं मुखे यजेत् ‍ ॥१७६॥

अग्नये स्विष्टकृते तन्नेत्रास्योद्धाटनं मतम् ‍ ।

नरसिंह विना विष्णुं मन्त्रनेत्रद्वयं यजेत् ‍ ॥१७७॥

नरसिंहान्य देवेषु वहनेर्नेत्रत्रयं स्मृतम् ‍ ।

महाव्याहृतिभिर्व्यस्तसमस्ताभिश्चतुष्टयम् ‍ ॥१७८॥

आहुतीनां त्रयं वहिनमन्त्रेणैव ततश्चरेत् ‍ ।

घृताहुतिभिरष्टाभिरकैकां संस्कृति चरेत् ‍ ॥१७९॥

अग्निषट्‌संस्कारकरणम् ‍

ओमस्याग्नेरंमु संस्कारं करोम्यग्निवल्लभा ।

इत्थं मनुं जपनं ‍ गर्भाधानं पुंसवन् ‍ ततः ॥१८०॥

सीमन्तोन्नयनं जातकर्म कृत्वा ततश्चरेत् ‍ ।

वहनौ पञ्चसमिद्धोमान्नालापनयनं वसोः ॥१८१॥

कुर्याद् ‍ देवाभिधानेन पूर्वन्नामशुष्मणः ।

नामानन्तरमेतस्य पितरौ स्वेर्पयेद्धृदि ॥१८२॥

अन्नप्राशं तथा चौलेपनयौ दारयोजनम् ‍ ।

संस्काराः स्युर्विवाहान्तामृत्युन्ता क्रूरकर्मणि ॥१८३॥

एकैकामाहुतिं कुर्याद् ‍ वहनेर्जिहवाङमूर्तिभिः ।

इन्द्रादिभिश्च वज्राद्यैर्द्विठान्तैर्जुहुयात्ततः ॥१८४॥

स्रुवेणाज्यं चतुर्वारं निधाय स्रुचितां सुधीः ।

अपिधाय स्रुवणैतौ गृहणीयात् ‍ करयुग्मतः ॥१८५॥

तिष्ठन्मूलं तयोर्नाभौ कृत्वाग्रे कुसुमं क्षिपेत् ‍ ।

वामस्तनान्तं तन्मूलं कृत्वाग्निमनुना सुधीः ॥१८६॥

जुहुयाद्वौषडन्तेन संपत्त्यर्थतन्द्रितः ।

महागणेशमन्त्रेण व्यस्तेन दशधा ततः ॥१८७॥

जुहुयाच्च समस्तेन चतुर्वारं घृताहुतीः ।

पूर्वपूर्वयुतं बीजषट्‌कं बाणाश्च सायकाः ॥१८८॥

मुनयो मार्गणाश्चेति विभागस्तन्मनोः स्मृतः ।

तारो लक्ष्मीर्गिरिसुता कामो भूर्गणनायकः ॥१८९॥

चतुर्थ्यन्तो गणपतिर्वरान्ते वरदेति च ।

सर्वान्ते जनमित्युक्त्वा मे वशान्ते तु मानय ॥१९०॥

स्वाहान्तो वसुयुग्मार्णो महागणपतेर्मनुः ।

एवं कृत्वाग्निसंस्कारं पीठं देवस्य पूजयेत् ‍ ॥१९१॥

तत्रेष्टदेवमावाह्य मुद्रा आवाहनादिकाः ।

प्रदर्श्य वहिनरुपस्य देवस्य वदने पुनः ॥१९२॥

मूलेन जुहुयात् ‍ पञ्चनेत्रसंख्या घृताहुतीः ।

वक्त्रैकीकरणं त्वग्निर्देवयोस्तेन जायते ॥१९३॥

नाडीसन्धानसिद्धयर्थ वहिनदेवतयोस्ततः ।

जुहुयान्मूलमन्त्रेण रुद्रसंख्या घृताहुतीः ॥१९४॥

इष्टदेवस्यावृतीनामेकैकामाहुतिं चरेत् ‍ ।

ततस्तु मूलमन्त्रेण दशधा जुहुयाद् ‍ घृतम् ‍ ॥१९५॥

ततः कल्पोक्तद्रव्येण दशांशं जुहुयाज्जपात् ‍ ।

होमं समाप्य कुर्वीत पूर्णाहुतिमनन्यधीः ॥१९६॥

होमावशिष्टेनाज्येन पूरयित्वा स्रुचं सुधीः ।

पुष्पं फलं निधायाग्रे स्रुवेणाच्छाद्य तां पुनः ॥१९७॥

उत्थितौ वौषडन्तेन मूलेन जुहुयाद् ‍ वसौ ।

तद्‌द्रव्येणावृतीनां च जुहुयादाहुतिं पृथक् ‍ ॥१९८॥

देवं विसृज्य स्वहृदि वहनेर्जिहवाङुमूर्तिभिः ।

जुहुयाद् ‍ व्याहृतीर्हुत्वा प्रोक्षेत्तं प्रोक्षणीजलैः ॥१९९॥

सम्र्पार्थ्यानेन मनुना नत्वा तं विसृजेद्धृदि ।

भो भो वहने महाशक्ते सर्वकर्मप्रसाधक ॥२००॥

कर्मान्तरेऽपि सम्प्राप्ते सान्निध्यं कुरु सादरम् ‍ ।

पवित्रप्रतिपत्तिः

वहनौ पवित्रे निःक्षिप्य प्रणीताम्बु भुवि क्षिपेत् ‍ ॥२०१॥

विधिं विसृज्य सकुशान् ‍ परिधीन्विन्यसेद्वसौ ।

एवं होमं समाप्याथ तर्पयेद् ‍ देवताम जले ॥२०२॥

तर्पणादिकथनम् ‍

आवाह्य तद्‌दशांशेन तर्पनादभिषेचनम् ‍ ।

तर्पयामि नमश्चेति द्वितीयान्तेष्टपूर्वकम् ‍ ॥२०३॥

मूलान्ते तु पदं देयं सिञ्चामीत्यभिषेचने ।

ततो ननाविधैस्तर्पयेद् ‍ द्विजसत्तमान् ‍ ॥२०४॥

इष्टरुपान्समाराध्य तेभ्यो दद्याच्च दक्षिणाम् ‍ ।

न्यूनं सम्पूर्णतामेति ब्राह्मणाराधनान्नृणाम् ‍ ॥२०५॥

देवताश्च प्रसीदन्ति सम्पद्यन्ते मनोरथाः ॥२०६॥

॥ इति श्रीममहीधरविरचिते मन्त्रमहोदधौ भूतशुद्ध्यादिकथनं नाम प्रथमस्तरङ्गः ॥१॥

॥ इति श्रीमन्महीधरविरचितायां मन्त्रमहोदधेः व्याख्यायां नौकायां भूतशुद्धयादिकथनं नाम प्रथमस्तरङ्गः ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-10T10:57:06.8730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Andersen's disease

  • ँडरसन विकार 
RANDOM WORD

Did you know?

जर सर्व प्राण्य़ांचा आत्मा एकच असेल तर प्राणी पक्ष्यांची भुते होतात काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.