TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मन्त्रमहोदधिः - चतुर्थः तरङ्गः

इस ग्रंथमें जितने भी देवताओंके मंत्रप्रयोग बतलाये गए हैं , उन्हें सिद्ध करनेसे उत्तम ज्ञान की प्राप्ति होती है।


चतुर्थः तरङ्गः

तारामन्त्रः

कीर्त्यन्ते सिद्दिदातारस्ताराया मनवोऽधुना ।

गुरुपदेशाज्ज्ञातैर्यैः कृतार्थाः स्युर्नरा भुवि ॥१॥

आप्यायिनी सरात्रीशा वियदग्नीन्दुशान्तियुक् ‍ ।

हरिः पावकगोविन्दचन्द्रमोभिरलंकृतः ॥२॥

खमर्घीशशशांकाढ्यमस्त्रं पञ्चाक्षरो मनुः ।

तारायाः मन्त्रान्तरम् ‍

आदिबीजजवियुक्तैषा प्रोदितैकजटादिमैः ॥३॥

आद्यन्तबीजरहिता प्रोक्ता नीलसरस्वती ।

तारा सर्वा मनोरस्य मुनिरक्षोभ्यसंज्ञकः ॥४॥

छन्दस्तु बृहती तारा देवता परिकीर्तिता ।

द्वितीयतुर्ये क्रमतो बीजं शक्तिश्च सिद्धिदे ॥५॥

यद्वा क्रोधो बीजमुक्तमस्त्रं शक्तिरुदाहृता ।

षड्‌दीर्घग्युद्वितीयेन षडङुविधिरीरितः ॥६॥

षडङुन्यासः

षोढान्यासं ततः कुर्याद्देवताभावसिद्धये ।

देयं भक्ताय शिष्याय न देयं तु दुरात्मने ॥७॥

( १ ) रुद्रन्यासः

श्रीकण्ठादीन्न्यसेद्रुद्रान् ‍ मातृकावर्णपूर्वकान् ‍ ।

मातृकोक्तस्थले माया तृतीयक्रोधपूर्वकान् ‍ ॥८॥

चतुर्थींनमसायुक्तान् ‍ प्रथमो न्यास ईरितः ।

शवपीठसमासीनां नीलकान्तिं त्रिलोचनाम् ‍ ॥९॥

अर्द्धेन्दुशेखरां नानाभूषणढ्यां स्मरन्न्यसेत् ‍ ।

( २ ) ग्रहन्यासः

द्वितीयन्तु ग्रहन्यासं कुर्यात्ताम समनुस्मरन् ‍ ॥१०॥

रुद्रन्यास की विधि - रुद्रन्यासं में देवी का ध्यान इस प्रकार है -

नीलवर्णा त्रिनयनां शवासनसमायुताम् ‍ ।
बिभ्रतीं विविधां भूषामर्धेन्दुशेखरां वराम् ‍ ॥

त्रिबीजस्वरपूर्वं तु रक्तं सूर्यं हृदि न्यसेत् ‍ ।

तथा यवर्गपूर्वं तु सोमं शुक्लं भ्रुवोर्द्वयोः ॥११॥

कवर्गपूर्वं रक्ताभं मङुलं लोचनत्रये ।

चवर्गाढ्यं बुधं श्यामं न्यसेद्वक्षःस्थले बुधः ॥१२॥

टवर्गाढ्यं पीतवर्णं कण्ठकूपे बृहस्पतिम् ‍ ।

तवर्गाढ्यं श्वेतवर्णं घण्टिकायां तु भार्गवम् ‍ ॥१३॥

नीलवर्णं पवर्गाढयं नाभिदेशे शनैश्चरम् ‍ ।

शवर्गाढ्यं धूम्रवर्णं ध्यात्वा राहुं मुखे न्यसेत् ‍ ॥१४॥

लक्षाढयं धूम्रवर्णाभं केतुं नाभौ पुनर्न्यसेत् ‍ ।

त्रिबीजपूर्वकश्चैवं ग्रहन्यासः समीरितः ॥१५॥

( ३ ) दिक्पालन्यासः

तृतीयं लोकपालानां न्यासं कुर्यात् ‍ प्रयत्नतः ।

मायादिबीजत्रितपूर्वकं सर्वसिद्धये ॥१६॥

स्वमस्तके ललाटादौ दशदिक्ष्वध ऊर्ध्वतः ।

हृस्वदीर्घकादिकाष्टवर्गपूर्वान्दिशाधिपान् ‍ ॥१७॥

शिवशक्त्याभिधन्यासं चतुर्थं तु समाचरेत् ‍ ।

त्रीबीजपूर्वकान्न्यसेत् ‍ षट्‌शिवाञ्छक्तिसंयुतान् ‍ ॥१८॥

आधारदिषु चक्रेषु चक्रस्थाक्षरपूर्वकान् ‍ ।

ब्रह्माणं डाकिनीयुक्तं वादिसान्तार्णभूषितम् ‍ ॥१९॥

मूलाधारे प्रविन्यस्येच्चतुर्दलसमन्विते ।

श्रीविष्णुं राकिनीयुक्तवादिलान्तार्णपूर्वकम् ‍ ॥२०॥

स्वाधिष्ठानाभिधे चक्रे लिङुस्थे षड्‌दले न्यसेत् ‍ ।

रुद्रं तु लाकिनीयुक्तं डादिफान्तार्णपूर्वकम् ‍ ॥२१॥

चक्रे दशदले न्यस्तेन्नाभिस्थे मणिपूरके ।

ईश्वरं कादिठान्तार्णपूर्वकं काकिनीयुतम् ‍ ॥२२॥

विन्यसेद् ‍ द्वादशदले हृदयस्थे त्वनाहते ।

सदाशिवं शाकिनीं च षोडशस्वरपूर्वकम् ‍ ॥२३॥

कण्ठस्थे षोडशदले विशुद्धाख्ये प्रविन्यसेत् ‍ ।
आज्ञाचक्रे परशिवहाकिनीसंयुतं जपेत् ‍ ॥२४॥

लक्षार्णपूर्वं भ्रूमध्ये संस्थितेति मनोहरे ।

तारादिपञ्चमं न्यासं कुर्यात्सर्वेष्टसिद्धये ॥२५॥

अष्टौ वर्गान्स्वरद्वन्द्व -पूर्वकान् ‍ बीजसंयुतान् ‍ ।

पूर्वं प्रयोज्य ताराद्यान्न्यस्तव्या अष्टमूर्तयः ॥२६॥

तारा उग्रा महोग्रापि वज्रा काली सरस्वती ।

कामेश्वरी च चामुण्डा इत्यष्टौ तारिकाः स्मृताः ॥२७॥

ब्रह्मरन्ध्रे ललाटे च भूमध्ये कण्ठदेशतः ।

हृदि नाभौ लिगमूले मूलाधारे क्रमान्न्यसेत् ‍ ॥२८॥

षष्ठंन्यास ततः कुर्यात्पीठाख्यं सर्वसिद्धिदम् ‍ ।

आधारे कामरुपाख्यं हृस्वबीजार्नपूर्वकम् ‍ ॥२९॥

हृदि जालन्धरं पीठं दीर्घपूर्वं प्रविन्यसेत् ‍ ।

ललाटे पूर्णगिर्याख्यं कवर्गाढ्यं न्यसेत्सुधीः ॥३०॥

उड्डियानं चवर्गाद्यं केशसन्धौ प्रविन्यसेत् ‍ ।

भ्रुवोर्वाराणसीपीठं टवर्गाद्यं समाहितः ॥३१॥

तवर्गपूर्विकां न्यस्येदवन्तीं नयनद्वये ।

पवर्गपूर्वकं मायापुरीपीठं मुखे न्यसेत् ‍ ॥३२॥

कण्ठे तु मथुरापीठं यवर्गाद्यं प्रविन्यसेत् ‍ ।

अयोध्यापीठकं नाभौ शवर्गादिमुत्तमम् ‍ ॥३३॥

कट्योः काञ्चीपुरीपीठं दशमं तु प्रविन्यसेत् ‍ ।

षोढान्यासास्तु तारायाः प्रोक्तास्ते इष्टदायकाः ॥३४॥

श्रीमतीं हृद्येकजटां तारिणीं शिरसि न्यसेत् ‍ ।

वज्रोदकां शिखायां तु उग्रताराम तु वर्मणि ॥३५॥

महापरिसरे नेत्रे पिङोग्रैकजटेऽस्त्रके ।

षड्‌दीर्घ्रयुक्तमायाद्या एतान्यस्याः षड्ङ्‍के ॥३६॥

अंगुष्ठादिष्वंगुलीषु पूर्वं विन्यस्य यत्नतः ।

तर्जनीमध्यमाभ्यां तु कृत्वा तालत्रयं ततः ॥३७॥

छोटिकामुद्रया कुर्याद्दिग्बन्धं देवताम स्मरन् ‍ ।

विद्यया तारपुट्या व्यापकं सप्तधा चरेत् ‍ ।

उग्रां तारां ततो ध्यायेत्सद्योवाक्सिद्धिदायिनीम् ‍ ॥३८॥

ताराध्यानम् ‍

विश्वव्यापकवारिमध्यविलसच्छ्‌वेताम्बुजन्मस्थितां

कर्त्रींखड्‌गकपालनीलनलिनै राजत्कराम नीलभाम् ‍ ।
काञ्चीकुण्डल - हार - कंकणलसत् ‍ केयूरमञ्चीरता -

माप्तैर्नागवरैर्विभूषिततनूमारक्तनेत्रत्रयाम् ‍ ॥३९॥

पिङोग्रैकजटां लसत्सुरसनां दंष्ट्राकरालाननां

चर्मद्वीपिवरं कटौ विदधतीं श्वेतास्थिपट्टालिकाम् ‍ ।
अक्षोभ्येण विराजमानशिरसं स्मेराननाम्भोरुहां

ताराम शावहृदासनां दृढकुचामम्बां त्रिलोक्याः स्मरेत् ‍ ॥४०॥

एवं ध्यायन्नदन्भक्ष्यमनेकं दधिमध्वपि ।

मधुमांसं च ताम्बूलं जपेल्लक्षचतुष्टयम् ‍ ॥४१॥

दशांशं जुहुयाद् ‍ रक्तपद्‍मैः क्षीराज्यलोलितैः ।

स्थापयित्वा महाशङ्‌खं जपस्थाने जपं चरेत् ‍ ॥४२॥

नारीं पश्यन्स्पृशन्गच्छन् ‍ महानिशिबलिं ददेत् ‍ ।

न कार्यः सुभ्रुवां द्वेषो यत्नात्ताः पूजयेत् ‍ सदा ॥४३॥

जपे न कालनियमो च स्थितौ सर्वदा जपेत् ‍ ।

श्माशाने शून्यसदने देवागारेथ निर्जने ॥४४॥

पर्वते वनमध्ये वा शवमारुह्य मन्त्रवित् ‍ ।

समरे शत्रुनिहतं यद्वा षाण्मासिकं शिशुम् ‍ ॥४५॥

विद्यां संसाधयेच्छीघ्रं साधितैवं प्रसिध्यति ।

मेधाप्रज्ञाप्रभाविद्याधीर्घृतिस्मृतिबुद्धयः ॥४६॥

विद्येश्वरीति सम्प्रोक्ताः पीठस्य नवशक्तयः ।

तारापीठमन्त्रः

भृगुमन्विन्दुसंयुक्तमेघ्वर्त्मसरस्वती ॥४७॥

योगपीठात्मने हार्दं पीठस्य मनुरीरितः ॥४८॥

दत्त्वानेनासनं मूर्तिं मूलमन्त्रेण कल्पयेत् ‍ ।

पूजयेद्विधिवद्देवीं तद्विधानमथोच्यते ॥४९॥

नित्यबलिदानमन्त्रः

तारो माया भगं ब्रह्माजटेसूर्यः सदीर्घखम् ‍ ।

यक्षाधिपतये तन्द्रीमोपनीतं बलिं ततः ॥५०॥

गृहणयुग्मं शिवा स्वाहा बलिमन्त्रोऽयमीरितः ।

दद्यान्नित्य बलिं तेन मध्यरात्रे चतुष्पथे ॥५१॥

जलदानादिकं मन्त्रैर्विदध्याद्दशभिस्ततः ।

जलग्रहणादिमन्त्रोद्धारः

ध्रुवो वज्रोदके वर्मफट्‌सप्तार्णैर्जलग्रहः ॥५२॥

ताराद्यावहिनजायान्ता मायांघ्रिक्षालने स्मृता ।

तारो माया भृगुः कर्णीविशुद्धधर्मवर्णतः ॥५३॥

सर्वपापानिशाभ्याशे श्वेतो नेत्रयुतञ्जलम् ‍ ।

कल्पानपनयस्वाहा षड्‌विंशत्यक्षरो मनुः ॥५४॥

अनेनाचमन्म कुर्याद् ‍ ध्रुवो मणिधरीति च ।

वज्रिण्यक्षियुतो मृत्युः खरिनेत्रयुता रतिः ॥५५॥

सर्वान्ते वबकः सेन्दुः करिण्यन्ते शिरोर्घिखम् ‍ ।

अस्त्रवहिनप्रियामन्त्रस्त्रयोविंशति वर्णवान् ‍ ॥५६॥

शिखाबन्धं प्रकुर्वीत मन्त्रेणानेन मन्त्रवित् ‍ ।

भूमिशोधनविघ्ननिवारणमन्त्रकथनम् ‍

प्रणवो रक्षयुगलं दीर्घवर्मास्त्रठद्वयम् ‍ ॥५७॥

नववर्णेन मन्त्रेण कुर्याद्‌भूमिविशोधनम् ‍ ।

तारान्ते सर्वविघ्नानुत्सारयेतिपदं ततः ॥५८॥

हुंफट‌स्वाहा गुणेन्द्वर्णो मनुर्विघ्ननिवारणे ।

अनेन विघ्नानुत्सार्य भूतशुद्धिमथाचरेत् ‍ ॥५६॥

भूतशुद्धिमन्त्रकथनम् ‍

मायाबीजं जपापुष्पानिभं नाभौ विचिन्तयेत् ‍ ।
तदुत्थेनाग्निना देहं दहेत्सार्द्धं स्वपाप्मना ॥६०॥

ताराबीजं सुवर्णाभं चिन्तयेद्धृदि मन्त्रवित् ‍ ।

पवनेन तदुत्थेन पापभस्म क्षिपेद् ‍ भुवि ॥६१॥

तुरीयं चन्द्रकुन्दाभं बीजं ध्यात्वा ललाटतः ।

तदुत्थसुधया देहं रचयेद्देवतानिभम् ‍ ॥६२॥

अनयाभूतशुद्धया तु देवीसादृश्यमाप्नुयात् ‍ ।

भूमिनिमन्त्रणमन्त्रः

तारः पवित्रवज्रेति भूमेर्घीशेन्दुयुग्वित् ‍ ।६३॥

वहिनप्रियामनुः प्रोक्ता रुद्रार्णो भूमिमन्त्रणे ।

मण्डलमन्त्रः

तारोऽनन्तो भृगुः कर्णी पद्‌मनाभयुतो बली ॥६४॥

खे वज्ररेखे क्रोधाख्यं बीजं पावकवल्लभा ।

द्वादशार्णेन मन्त्रेण रचयेन्मन्डलं शुभम् ‍ ॥६५॥

पुष्पशोधनमन्त्रः

तारो यथागतानिद्रासदृक्षेकभृगुर्विषम् ‍ ।

सदीर्घस्मृतिरौ साक्षौ महाकालो भगान्वितः ॥६६॥

क्रोधोस्त्रं मनुवर्णोऽयं मनुः पुष्पादिशोधने ।

चित्तशोधनमन्त्रः

तारः पाशपरास्वाहा पञ्चार्णश्चित्तशोधने ॥६७॥

मनवो दश संप्रोक्ता अर्घ्यस्थापनमुच्यते ।

अर्घ्यस्थापनम् ‍

सेन्दुभ्यां मांसतोयाभ्यां भुवं संमृज्यं भूगृहम् ‍ ॥६८॥

वृत्तं त्रिकोणसंयुक्तं कुर्यान्मण्डलमन्त्रतः ।

यजेत्तत्राधारशक्तिं कच्छपं नागनायकम् ‍ ॥६९॥

आधारं स्थापयेत्तत्र ताराद्यस्त्राङुमायया ।

वहिणमण्डलमभ्यर्च्य महाशङ्‌खं निधापयेत् ‍ ॥७०॥

मन्त्रचतुष्टयेन महाशंखपूजा

वामकर्णेन्दुयुक्तेन फडन्तेन विहायसा ।

प्रक्षालितं भृगुर्दण्डित्रिमूर्तीन्दुयुतं पठन् ‍ ॥७१॥

ततोऽर्चयेन्महाशङ्‌खं जपन्मन्त्रचतुष्टयम् ‍ ।

मन्त्रचतुष्टकथनम् ‍

दीर्घतयान्विता माया कालीसृष्टिः सदीर्घपः ॥७२॥

प्रतिष्ठां संयुतं मांसं पवनो हृदयं ततः ।

एकादशार्णः प्रथमो महाशङ्‌खार्चने मनुः ॥७३॥

हंसो हरिभुजङेशयुतो दीर्घत्रयेन्दुयुक् ‍ ।
तारिण्यन्ते कपालायनमोऽन्तो द्वादशाक्षरः ॥७४॥

खं दीर्घत्रयबिन्द्वाढ्यं मेषोवामदृगन्वितः ।

लोकपालाय हृदय्म तृतीयोऽयं शिवाक्षरः ॥७५॥

माया स्त्रीबीजमघ्नीन्दुयुतं खं स्वर्गखादिमः ।

पालाय सर्वाधाराय सर्वः सर्वोद्धवस्तथा ।७६॥

सर्वशुद्धिमयश्चेति ङेन्ताः सर्वासुरान्ततः ।

रुधिरोरुरतिदीर्घावायुः शुभ्रानिलः सुरा ॥७७॥

भाजनाय भगीसत्यो वीकपालायहृन्मनुः ।

तुर्यो रसेषु वर्णोऽयं महाशङ्‌खप्रपूजने ॥७८॥

तत्रार्कमण्डलं चेष्ट‌वा सलिलं मूलमन्त्रतः ।

प्रपूरयेत्सुधाबुद्धया गन्धपुष्पाक्षतान् ‍ क्षिपेत् ‍ ॥७९॥

चन्द्रमण्डलपूजा

मुद्राम त्रिखण्डां संदर्श्य पूजयेच्चन्द्रमण्डलम् ‍ ।

एकादशार्णमन्त्रोद्धारः

वाक्शक्तिपद्‌मागगनं रेफानुग्रहबिन्दुयुक् ‍ ॥८०॥

मूलमन्त्रो वियद्धंसंमनुसर्गसमन्वितम् ‍ ।
वराहो दीपिकेन्द्वाढ्यो मनुरेकादक्षाक्षरः ॥८१॥

अष्टकृत्वोऽमुनामन्त्री मन्त्रयेत् ‍ प्रयतो जलम् ‍ ।

मायया मदिरां क्षिप्त्वा शंखं योनिं च दर्शयेत् ‍ ॥८२॥

तत्र वृत्ताष्टषट्‌कोणं ध्यात्वा देवीं विचिन्तयेत् ‍ ।
पूर्वोक्ता पूजयित्वैनां मूलेनाथ प्रतर्पयेत् ‍ ॥८३॥

तर्जनी मध्यमानामाकनिष्ठाभिर्महेश्वरी ।

साङ्‌गुष्ठाभिश्चतुर्वारं महाशङ्‌खिस्थिते जले ॥८४॥

तर्पणमन्त्रः

खं रेफमनुबिन्द्वाढ्यं भृगुमन्विन्दुयुक् ‍ तथा ।

ध्रुवाद्येन नमोऽन्तेन तर्प्यादानन्दभैरवम् ‍ ॥८५॥

ततस्तेनार्घ्यतोयेन प्रोक्षेत्पूजनसाधनम् ‍ ।

योनिमुद्रां प्रदर्श्याथ प्रणमेद्धवतारिणीम् ‍ ॥८६॥

विधानमध्ये सम्र्पोक्तं सर्वसिद्धिप्रदायकम् ‍ ।

पूर्वोक्ते पूजयेत्पीठे पद‍मे षट्‌कोणकर्णिके ॥८७॥

धरागृहावृते रम्ये देवीं रम्योपचारकैः ।

महीगृहचतुर्दिक्षु गणेशादीन्प्रपूजयेत् ‍ ॥८८॥

पीठे शक्तिपूजायां गणेशध्यानादिकथनम् ‍

पाशंकुशौ कपालं च त्रिशूल्म दधतं करैः ।

अलङ्कारचयोपेतं गणेश प्राक्ससमर्चयेत् ‍ ॥८९॥

कपालशूले हस्ताभ्यां दधत्म सर्पभूषणम् ‍ ।

श्वयूथवेष्टितं रम्य्म बटुकं दक्षिणेर्चयेत् ‍ ॥९०॥

असिशूलकपालानि डमरुं दधत्म करैः ।

कृष्णं दिगम्बरं क्रूरं क्षेत्रपं पश्चिमे यजेत् ‍ ॥९१॥

कपालं डमरुं पाशं लिङुं सम्बिभ्रतीम करैः ।

अन्त्राकल्पा रक्तवस्त्रा योगिनीरुत्तरे यजेत् ‍ ॥९२॥

अक्षोभ्यं प्रयजन्मूर्ध्नि देव्यामन्त्रऋषिं शुभम् ‍ ।
अक्षोभ्यवज्रपुष्पं च प्रतीच्छानवल्लभा ॥९३॥

अक्षोभ्यपूजने मन्त्रः षटकोणेषु षड्डकम् ‍ ।

वैरोचनं चामिताभं पद्‌मनाभाभिध्म तथा ॥९४॥

शड्‌खं पाण्डुरसंज्ञ च दिग्दलेषु प्रपूजयेत् ‍ ।

लामकां मामकां चैवपाण्डुरां तारकां तथा ॥९५॥

विदिग्गताब्जपत्रेषु पूजयेदिष्टसिद्धये ।

सबिन्दुनामाद्यर्णाद्याः सम्बुध्यन्तास्तथाभिधाः ॥९६॥

वज्रपुष्पं प्रतीच्छाग्निप्रियान्ताह प्रणवादिकाः ।

वैरोचनादिपूजायां मनवः परिकीर्तिताः ॥९७॥

भूगृहस्य चतुर्द्वाषु पद्‌मान्तकयमान्तकौ ।

विघ्नन्तकाभिधं पश्चान्नारान्तकमथो यजेत् ‍ ॥९८॥

शुक्रादींश्चापि वज्रादीन् ‍ पूजयेत्तदनन्तरम् ‍ ।

एवं सम्पूजयेद्देवीं पाण्डित्यं धनमद्‌भुतम् ‍ ॥९९॥

पुत्रान् ‍ पौत्रान् ‍ सुखं कीर्तिं लभते जनवश्यताम् ‍ ।

नित्यपूजान्ते बलिदानं द्विपञ्चाशदर्नमन्त्रः

तारो माया श्रीमदेकजटे नीलसरस्वति ॥१००॥

महोग्रतारे देबालः सनेत्रो गदियुग्मकम् ‍ ।
सर्वभूतपिशाचकूर्मो दीर्घोग्निर्मेरुसान् ‍ ग्रसः ॥१०१॥

ग्रभृगुर्मसजाड्यं च च्छेदयद्वितयं रमा ।

मायास्त्राग्निप्रियान्तोऽयं द्विपञ्चाशल्लिपिर्मनुः ॥१०२॥

अनेन नित्यपूजान्तेऽज्वहं देव्यै बलिं हरेत् ‍ ।

एवं सिद्धे मनौ मन्त्री प्रयोगान्विदधीत् ‍ च ॥१०३॥

जातमात्रस्य बालस्य दिवसत्रितयादधः ।

जिहवायां विलिखेन्मन्त्रं मध्वाज्याभ्यां शलाकया ॥१०४॥

सुवर्णकृतया यद्वा मन्त्री धवलदूर्वया ।

गतेऽष्टमेऽब्दे बालोऽसौ जायते कविराट् ‍ ध्रुवम् ‍ ॥१०५॥

तथापरैरजेयोऽपि भूपसंघैर्धनार्चितः ।

तस्य मन्त्रस्य प्रयोगान्तरम् ‍

उपरागे तदानीय तरद्दारुसरो जले ॥१०६॥

निर्माय कीलकं तेन तैलमध्वमृतैर्लिखेत् ‍ ।

सरोजिनीदले मन्त्रं वेष्टयेन्मातृकाक्षरैः ॥१०७॥

निखाय तद्दलं कुण्डे चतुरस्त्रे समेखले ।

संस्थाप्य पावकं तत्र जुहुयान्मनुनाऽमुना ॥१०८॥

सहस्त्रं रक्तपद‌मानां धेनुदुग्धजलाप्लुतम् ‍ ।

होमान्ते विधिधैरन्नैः पलैरपि बलिं हरेत् ‍ ॥१०९॥

बलिमन्त्रेण विधिवेद् ‍ बलिमन्त्रः प्रकाश्यते ।

बलिदानेऽन्यः षोडशार्णमन्त्रः

तार पद्‌मेयुगं तन्द्रीवियद्दीर्घं च लोहितः ॥११०॥

अत्रिर्विषभगारुढो वदेत्पद्‍मावतीपदम् ‍ ।
झिण्टीशाढ्योऽनिलः स्वाहा षोडशार्णों बलेर्मनुः ॥१११॥

अस्य मन्त्रस्य प्रयोगान्तराणि

ततो निशीथेऽपि बलिं पूरोक्तमनुना हरेत् ‍ ।

एवं कृते पण्डितानामजेयः कविराड् ‌ भवेत् ‍ ॥११२॥

निवासो भारती लक्ष्म्योर्जनतारञ्जनक्षमः ।

शताभिजप्तां यो मन्त्री रोचनामलिके धरेत् ‍ ।

श्मशानाङारमाहृत्य शर्वर्यां कुजवासरे ॥११४॥

कृष्णम्बरेण स्मवेष्टय निबद्धं रक्ततन्तुभिः ।

शताभिजप्तमूलेन निःक्षिपेद्वैरिवेशमनिः ॥११५॥

उच्चाटयति सप्ताहात् ‍ सकुटुम्बान्विरोधिनः ।

क्षाराढ्यनिशया मन्त्रं लिखित्वा पौरुषेऽस्थिनि ॥११६॥

रविवारे निशीथिन्यां सहस्त्रभिमम्न्त्रयेत् ‍ ।

तत्क्षिप्तं शत्रुसदने मण्डलाद्‌भ्रंशकं भवेत् ‍ ॥११७॥

क्षेत्रे क्षिप्तं सस्यहान्यैजवहृत्तुरगालये ।

यन्तकथनं तत्फलानि च

षट्‌कोणमध्ये प्रविलिख्य मूलंसाध्यान्वितं केसरगस्वराढ्यम् ‍ ।

काद्यष्टवर्गान्वितपत्रमब्जंलिखेद् ‍ बहिर्भूमिपुरेणवीतम् ‍ ॥११८॥

यन्त्रमेतल्लिखेद् ‍ भुर्जै रसेन जतुजन्मना ।

पीताम्बरेण सम्वेष्टय बघ्नीयात्पीतसूत्रतः ॥११९॥

शिशूनां कण्ठतो बद्धं रक्षकं भूतभीतितः ।

वामबाही तु नारीणाम पुत्रदं सुभगत्वकृत् ‍ ॥१२०॥

दक्षबाहौ नृणां बद्धं रक्षकं निर्धनानां धनप्रदम् ‍ ।

ज्ञानदं ज्ञानमिच्छूनां राज्ञां तु विजयप्रदम् ‍ ।१२१॥

एतद्यन्त्रं पुरा धृत्वा गौतमाद्या महर्षयः ।

लेभिरे मोक्षसंसिद्धि साम्राज्यं भूमिनायकाह ॥१२२॥

किम्भूरिणा नृणामेद्वाञ्छितां यच्छति श्रियम् ‍ ।

कवित्व राजमाण्म च कीर्तिमायुररोगताम् ‍ ॥१२३॥

नैव तारा समा काचिद्देवता सर्वसिद्धिदा ।

कलौ युगे ततो गोप्या वाञ्छितां सिद्धिमीप्सुना ॥१२४॥

॥ इति श्रीमन्महीधरविरचिते मन्त्रमहोदधौ तारामन्त्रकथनं नाम चतुर्थस्तर ङ्गः ॥४॥

इति श्रीमन्महीधरविरचितायां मन्त्रमहोदधिव्याख्यायां नौकायां तारामन्त्रकथनं नाम चतुर्थस्त र ङ्गः ॥४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-11T04:46:38.5170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

contiguous vertical levels

  • निकटवर्ती उदग्र पातळ्या, निकटवर्ती क्षितिजलंब पातळ्या 
RANDOM WORD

Did you know?

relatives kiva veh itar lokanchya divsache bhojan ghyave ka ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site