TransLiteral Foundation

मन्त्रमहोदधिः - अष्टमः तरङ्गः

श्रीमन्महीधर भट्ट ने स्वयं इस ग्रंथ में शान्ति , वश्य , स्तम्भन , विद्वेषण , उच्चाटण और मारण की विधि बताई है ।


अष्टमः तरङ्गः

अथ बालां प्रवक्ष्यामि मन्त्री संसेव्य यां द्रुतम् ‍ ।

बृहस्पतिः कुबेरश्च जायते विद्यया धनैः ॥१॥

बालात्रिपुरामन्त्रकथनम् ‍

दामोदरश्चन्द्रयुत आद्यं वाग्बीजमीरितम् ‍ ।

विधिर्वासवशान्तीन्दुयुक्तं कामाभिधं परम् ‍ ॥२॥

संकर्षणविसर्गाढ्योभृगुस्तार्तीयमीरितम् ‍ ।

त्रिबीजीगदिता बाला जगत्त्रितयमोहिनी ॥३॥

दक्षिणामूर्तिपंक्ती च मुनिश्छन्दः क्रमात्स्मृतम् ‍ ।

देवता त्रिपुराबाला मध्यान्ते शक्तिबीजके ॥४॥

न्यासविधिवर्णनम् ‍

नाभेरापादमाद्यं तु नाभ्यन्तं हृदयात् ‍ परम् ‍ ।

मूर्ध्निहृदन्तं तार्तीयं क्रमाद् ‍ देहे प्रविन्यसेत् ‍ ॥५॥

आद्यं वामकरे दक्षकरेऽन्यदुभयोः परम् ‍ ।

पुनर्बीजत्रयम् ‍ न्यस्येन्मूर्ध्नि गुह्ये च वक्षसि ॥६॥

नवयोन्यभिधे न्यासे नवकृत्वो मनुं न्यसेत् ‍ ।

कर्णयोश्चिबुके न्यस्येच्छंखयोर्मुखपंकजे ॥७॥

नेत्रयोर्नासिकायां च स्कन्धयोरुदरे तथा ।

न्यसेत्कूर्पायोर्नाभौ जानुनोर्लिङमस्तके ॥८॥

पादयोरपि गुह्ये च पार्श्वयोर्हृदये पुनः ।

स्तनयोः कण्ठदेशे च वामाङगादि प्रविन्यसेत् ‍ ॥९॥

वाग्भवाद्या रतिं गुह्ये प्रीतिमन्त्यादिका हृदि ।

कामबीजादिकां न्यस्येद् ‍ भ्रूमध्ये तु मनोभवा ॥१०॥

पुनर्वाङ्गत्यकामाद्यास्तिस्र एष्वेव विन्यसेत् ‍ ।
अमृतेशीं च योगेशीं विश्वयोनिं तृतीयकाम् ‍ ॥११॥

मूर्ध्नि वक्त्रे हृदि न्यस्येद् ‍ गुह्ये चरणयोरपि ।

कामेशीपञ्चबीजाद्यान्स्मरान् ‍ मनोभवादिकान् ‍ ॥१२॥

शिरः पन्मुखगुह्येषु ह्रुदये पञ्चदेवताः ।

द्राविण्याद्दाः क्रमान् ‍ न्यस्येद् ‍ बाणेशीबीजपूर्विकाः ॥१३॥

तार्तीयवाग्मध्यगेन कामेन स्यात् ‍ षडङ्गकम् ‍ ।

षड्‌दीर्घस्वरयुक्तेन ततो देवीं विचिन्तयेत् ‍ ॥१४॥

ध्यानकथनम् ‍

रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् ‍ ।

विद्याक्षमालाभयदानहस्तां ध्यायमि बालामरुणाम्बुजस्थाम् ‍ ॥१५॥

लक्षत्रयं जपेन्मन्त्रं दशांशं किंशुकोद्‌भवैः ।

पुष्पैर्हयारिजैर्वापि जुहुयान्मधुरान्वितः ॥१६॥

पूजायन्त्रवर्णनम् ‍

नवयोन्यात्मंक यन्त्रं बहिरष्टदलावृतम् ‍ ।

भूगृहेण पुनर्वीत पूजनाय लिखेत् ‍ सुधीः ॥१७॥

मध्ययोनौ तु तार्तीयमष्टयोनिषु मन्मथम् ‍ ।

केसरेषु स्वरान्न्यस्येद्वर्गानष्टौ दलेष्वपि ॥१८॥

दलाग्रेषु त्रिशूलानि पद्मं मातृकायावृतम् ‍ ।

एवं विलिखिते यन्त्रे पीठशक्तिः प्रपूजयेत् ‍ ॥१९॥

इच्छाज्ञानक्रिया चैव कामिनी कामदायिनी ।

रतीरतिप्रियानन्दामनोन्मन्यपि चान्तिमा ॥२०॥

पीठशक्तिरिमा इष्ट्‍वा पीठं तं मनुना दिशेत् ‍ ।

पीठमन्त्रकथनम् ‍

व्योमपूर्वं तु तार्तीयं सदाशिवमहापदम् ‍ ॥२१॥

प्रेतपद्मासनं ङ्गेत नमोन्तः पीठमन्त्रकः ।

षोडशार्णस्ततो मूर्त्तौं क्लृप्तायां मूलमन्त्रतः ॥२२॥

आवाहय पूजयेद् ‍ देवीमुपचारैः पृथग्विधैः ।

देवीमिष्टवा ‍ मध्ययोनौ त्रिकोणे रतिपूर्विकाः ॥२३॥

वामकोणे रतिं दक्षे प्रीतिमग्रे मनोभवाम् ‍ ।


अङ्गपूजाकथनम् ‍

योन्यन्तर्वहिनकोणादावङ्गानि परिपूजयेत् ‍ ॥२४॥

मध्ययोनेर्बहिः पूर्वा दिक्षु चाग्रे स्मरानपि ।

बाणदेवीस्तद्वदेवं शक्तिरष्टसु योनिषु ॥२५॥

सुभगाख्या भगापश्चात् ‍ तृतीयाभगसर्पिणी ।

भगमाली तथानङ्गानङ्गाद्याकुसुमापरा ॥२६॥

अनङ्गमेखलानङ्गमदनेत्यष्टशक्तयः ।

पद्मकेसरगाब्राह्मीमुखाः पत्रेषु भैरवाः ॥२७॥

दीर्घाद्यामातरः पूज्या ह्रस्वाद्याश्चाष्टभैरवाः ।

दलाग्रेष्वष्टपीठानि कामरुपाख्यमादिमम् ‍ ॥२८॥

मलयं कोल्लगिर्य्याख्यं चौहाराख्यं कुलान्तकम् ‍ ।

जालन्धरं तथोड्यानं कोढ्ढपीठमथाष्टमम् ‍ ॥२९॥

भूगृहे दशदिक्ष्वर्चेद्धेतुकं त्रिपुरान्तकम् ‍ ।

वेतालमग्निजिहवं च कालान्तककपालिनौ ॥३०॥

एकपादं भीमरुपं मलयं हाटकेश्वरम् ‍ ।

शक्राद्यानायुधैः सार्द्धं स्वस्वदिक्षु समर्चयेत् ‍ ॥३१॥

तद्‌बहिर्दिक्षु बटुकं योगिनीक्षेत्रपालकम् ‍ ।

गणेशं विदिशास्वर्चेद् ‍ वसून् ‍ सूर्याञ्छिवांस्ततः ॥३२॥

भूतांश्चेत्थं भजेद् ‍ बालानीशः स्याद् ‍ धनविद्ययोः ।

फलानुसारेण प्रयोगकल्पना

रक्ताम्भोजैर्हुतेनार्यो वश्याः स्युः सर्षपैर्नृपाः ॥३३॥

नन्द्यावर्तराजवृक्षैः कुन्दैः पाटलचम्पकैः ।

पुष्पैर्बिल्वफलैर्वापि होमाल्लक्ष्मीः स्थिरा भवेत् ‍ ॥३४॥

अपमृत्युं जयेन्मन्त्री गुडूच्यादुग्धयुक्तया ।

पयोक्तदूर्वाहोमात्तु नीरोगायुः समश्नुते ॥३५॥

ज्ञानं कवित्वं लभते चन्द्रागुरुपुरैर्हुतैः ।

द्विजेन्द्रा वश्यतां यान्ति कुसुमैरपराजितैः ॥३६॥

कल्हारैः क्षत्रियाः कर्णिकारजैः क्षितिपाङ्गनाः ।

कोरण्टकुसुमैर्वेश्याः पादजाः पाटलैर्हुतैः ॥३७॥

पालाशपुष्पैर्वाक्सिद्धिरन्नाप्तिर्भक्तहोमतः ।

सारघक्षीरदध्यक्ताल्लाँजान् ‍ हुत्वा रुजो जयेत् ‍ ॥३८॥

वश्यकरतिलककथनम् ‍

रक्तचन्दनकर्पूरकर्चूरागुरुरोचनाः ।
चन्दनं केसरं मांसी क्रमाद् ‍ भागैर्नियोजयेत् ‍ ॥३९॥

भूमिचन्द्रैकनन्दाब्धिदिक्सप्तनिगमोन्मितः ।

श्मशाने कृष्णभूतस्य निशि नीहारपाथसा ॥४०॥

कुमार्या पेषयेत्तानि मन्त्रेणाप्यभिमन्त्रयेत् ‍ ।

विदध्यात्तिलकं तेन दर्शनाद् ‍ वशयेज्जनान् ‍ ॥४१॥

गजसिंहादिभूतानि राक्षसाञ्छाकिनीरपि ।

प्रयोगेष्वेषु कथ्यन्ते क्रमाद् ‍ ध्यानानि सिद्धये ॥४२॥

फलान्तरानुरोधाद्धयानभेदेन वर्णनम् ‍

मातुलिङ्गपयोजन्महस्तां कनकसन्निभाम् ‍ ।

पद्मासनगतां बालां लक्ष्मीप्राप्तौ विचिन्तयेत् ‍ ॥४३॥

वरपीयूषकलशपुस्तकाभीतिधारिणीम् ‍ ।

सुधां स्त्रवन्तीं ज्ञानाप्तौ ब्रह्मरन्ध्रे विचिन्तयेत् ‍ ॥४४॥

शुक्लाम्बरां शशांकाभा रोगनाशे स्मरेच्छिवाम् ‍ ।

अकारादिक्षकारान्तवर्णावयवरुपिणीम् ‍ ॥४५॥

सृणिपाशधरां देवीं रत्नालङ्कारभूषिताम् ‍ ।

प्रसन्नामरुणां ध्यायेद् ‍ वशीकरणसिद्धये ॥४६॥

अथ प्रत्येकमन्त्रस्य जपध्यानविधिं ब्रुवे ।

शापोद्धारप्रकारं च बीजानां दीपिनीरपि ॥४७॥

वाग्‌बीजध्यानम् ‍

विद्याक्षमालासुकपालमुद्रा राजत्करां कुन्दसमानकन्तिम् ‍ ।

मुक्ताफलालङ्ग्‍कृतिशोभोताङ्गी बालां स्मरेद् ‍ वाड्‌मयसिद्धिहेतोः ॥४८॥

ध्यात्वैवं वाग्भवं लक्षत्रयं शुक्लाम्बरावृतः ।

शुक्लचन्दनालिप्ताङ्गो मौक्तिकाभरणान्वितः ॥४९॥

जपित्वा तद्‌दशांशेन पालाशकुसुमैर्नवैः ।

जुहुयान्मधुराक्तैर्यः स कविर्युवतिप्रियः ॥५०॥

भजेत् ‍ कल्पवृक्षाय उद्‌दीप्तरत्नासने सन्निषण्णां मदाधूर्णिताक्षीम् ‍ ।

करैर्बीजपूरं कपालेषु चापं सपाशांकुशां दधानाम् ‍ ॥५१॥

ध्यात्वा देवीं जपेल्लक्षत्रयं यो मध्यबीजकम् ‍ ।
रक्तवस्त्रावृतो रक्तभूषणो रक्तलेपनः ॥५२॥

दशांशं मालतीपुष्पैश्चन्द्रचन्दनलोलितैः ।

जुहुयात्तस्य वश्याः स्युस्त्रिलोकीजनताः क्षणात् ‍ ॥५३॥

तृतीयबीजध्यानम् ‍

व्याखयनमुद्रामृतकुम्भविद्या मक्षस्रजं सन्दधतीं कराग्रैः

चिद्‌रुपिणीं शारदचन्द्रकान्तिं बालां स्मरेन् ‍ मौक्तिकभूषिङ्गीम् ‍ ॥५४॥

ध्यात्वैवं चरमं बीजं जपेल्लक्षत्रयं सुधीः ।

सितवस्त्रानुलेपाढ्‌यमात्मानां देवताम स्मरेत् ‍ ॥५५॥

मालतीकुसुर्मर्हुत्वा चन्दनाक्तैर्दशांशतः ।

लक्ष्मीं विद्यासुकीर्तीनामाधारो जायतेऽचिरात् ‍ ॥५६॥

देव्या शप्ता कीलिता च विद्येयं तन्न सिद्धिदा ।

शापोद्धारमथोत्कीलं विद्याय जपमाचरेत् ‍ ॥५७॥

योजयेदादिबीजेन वराहभृगुपावकान् ‍ ।

मध्यमादौ नभोहंसौ मध्यमा तेन पावकम् ‍ ॥५८॥

आदावन्ते च तार्तीये क्रमात् ‍ खं धूमकेतनम् ‍ ।

एवं जप्ता शतं विद्या शापहीना फलप्रदा ॥५९॥

यद्वाद्ये चरमे बीजे नैव रेफं नियोजयेत् ‍ ।

शापोद्धारप्रकारोऽन्यो यद्‌वायं कीर्तितो बुधैः ॥६०॥

आद्यमाद्यं च तार्तीयं कामः कामोऽथ वाग्भवम् ‍ ।
अन्त्यमन्त्यमन्ङ्गं च नवार्णः कीर्तितो मनुः ॥६१॥

जप्तोऽयं शतधा शापं बालाया विनिवर्तयेत् ‍ ।

चेतन्याह्रादिनीमन्त्रौ जप्तौ निष्कीलताकरौ ॥६२॥

त्रिस्वराश्चेतनीमन्त्रोधरः शान्तिरनुग्रहः ।

तारादिहृदयान्तः स्यात् ‍ काम आहलादिनी मनुः ॥६३॥

तथा त्रयाणां बीजानां दीपनैर्मनुभिस्त्रिभिः ।

सुदीप्तानि विधायादौ जपेत्तानीष्टसिद्धये ॥६४॥

वदयुग्मं सदीर्घाम्बुस्मृति बालावनन्तगौ ।

सत्यः सनेत्रो नस्ताट्टग्वाङ्‌‍नवार्णाद्यदीपिनी ॥६५॥

क्लिन्ने क्लेदिनि बैकुण्ठो दीर्घं खं सद्यगोन्तिमः ।

निद्रासचन्द्रकुर्वताशिवार्णामध्यदीपिनी ॥६६॥

तारो मोक्षं च कुर्वन्तापञ्चार्णान्त्यस्य दीपिनी ।

दीपिनीमन्तराबालाराधितापि न सिध्यति ॥६७॥

इदं रहस्यं नाख्येयं कृतघ्ने कितवे शठे ।

परीक्षिताय दातव्यमन्यथा दातृदोषदम् ‍ ॥६८॥

वागन्त्यकामान् ‍ प्रजपेदरीणां क्षोभेहेतवे ।

कामवागन्त्यबीजानि त्रैलोक्यस्य वशीकृतौ ॥६९॥

कामान्त्यवाणीबीजानि मुक्तये नियतो जपेत् ‍ ।

पूजाविधौ तु बालायास्त्रिविधानर्चयेद् ‍ गुरुन् ‍ ॥७०॥

सप्तदिव्यौघगुरुवर्णनम् ‍

दिव्यौघश्चेति सिद्धौघो मानवौघ इति त्रिधा ।

परप्रकाशः परमेशानः परशिववस्तथा ॥७१॥

कामेश्वरस्ततो मोक्षः षष्ठः कामोमृतोन्तिमः ।

एते सप्तैव दिव्यौघा आनन्दपदपश्चिमाः ॥७२॥

पञ्चसिद्धौघगुरुवर्णनम् ‍

ईशानाख्यस्तत्पुरुषो घोराख्यो वामदेवकः ।

सद्योजात् ‍ इमे पञ्चसिद्धौघाख्याः स्मृता बुधैः ॥७३॥

मानवौघः प्रविज्ञेयः स्वगुरोः सम्र्प्रदायतः ।

त्रैपुराख्ययन्त्रकथनम् ‍

नवयोन्यात्मके यन्त्रे विलिखेन्मध्ययोनितः ॥७४॥

प्रादक्षिण्येन बीजानि त्रिवारं साधकोत्तमः ।

त्रींस्त्रींन् ‍ वर्णास्तु गायत्र्या अष्टपत्रेषु संलिखेत् ‍ ॥७५॥

बहिर्मातृकया वेष्टय तद्‌बहिर्भूपुरद्वयम् ‍ ।
कामबीजलसत्कोणं व्यतिभिन्नं परस्परम् ‍ ॥७६॥

यन्त्रं त्रैपुरमाख्यातं जप्तं सम्पातसाधितम् ‍ ।
बाहुना विधृतं दद्याद्धनं कीर्तिः सुखं सुतान् ‍ ॥७७॥

बालत्रिपुरागायत्रीमन्त्रोद्धारः

कामान्ते त्रिपुरा देवि विद्महेकाविषम्भगि ।

बकः खड्‌गीशमारुढः सनेत्रोऽन्गिश्च धीमहि ॥७८॥

तन्नः क्लिन्ने प्रचोदान्ते यादन्ता कीर्तिता बुधैः ।

गायत्री त्रैपुरी सर्वसिद्धिदा सुरसेविता ॥७९॥

तन्त्रान्तरगुप्तानां चतुर्दशबालाभेदानां चतुर्दशमन्त्रकथनम् ‍

अथ वक्ष्यामि बालाया भेदानागमगोपितान् ‍ ।

मायाकामोम्बरारुढं तार्तीयं त्र्यक्षरो मनुः ॥८०॥

अनुलोमप्रतिलोभ्यां बालामन्त्रः षडक्षरः ।

बालश्रीकामहृल्लेखा सम्पुटोऽयं नवाक्षरः ॥८१॥

बालान्ते बालत्रिपुरे स्वाहान्तो दशवर्णवान् ‍ ।

वाक्कामो व्योमभृग्बिन्दुयुङ्ग्‌मनुर्दीर्घभूधरः ॥८२॥

पिनाकी त्रिपुरे सिद्धि देहि हृन्मनुवर्णवान् ‍ ।

मायालक्ष्मीर्मनोजन्मा त्रिपुरान्ते तु भारती ॥८३॥

कवित्वं देहि ठद्वन्द्वं षोडशार्णो मनुः स्मृतः ।

कमलापार्वतीकामस्त्रिपुरान्ते च मालती ॥८४॥

मह्यं सुखं ततो देहि स्वाहा सप्तदशाक्षरः ।

भृगुर्ब्रह्याक्रियावहिनयुक्ता शान्तिरस रात्रिया ॥८५॥

दहनान्त्यमहाकालभुजङ्गपुरुषोत्तमाः ।

मन्वर्घीशेन्दुसंयुक्ता द्वितीयं बीजमीरितम् ‍ ॥८६॥

वाग्बीजं त्रिपुरे सर्वं वाञ्छितं देहि हृत्ततः ।

वहिनप्रिया सप्तदशवर्णोऽयं कीर्तितो मनुः ॥८७॥

हृल्लेखात्रितयं प्रौढत्रिपुरेनन्तारोग्यमै ।

श्वर्यं देहि प्रियावहनेर्मनुरष्टादक्षाक्षरः ॥८८॥

मायारमामन्मथान्ते त्रिपुरामदने पदम् ‍ ।

सर्वं शुभं साधयाग्नेः प्रियान्तोऽष्टादशाक्षरः ॥८९॥

हृल्लेखाकमलानङ्गो बालान्ते त्रिपुरेपदम् ‍ ।
मदायत्तां ततो विद्यां कुरु हृद्‌वहिनवल्लभा ॥९०॥

मन्त्रो विंशतिवर्णोऽयं मायापद्मामनोभवः ।

परापरेन्ते त्रिपुरे सर्वमीप्सितमुच्यताम् ‍ ॥९१॥

साशयानकान्तायमन्यो विंशतिवर्णकः ।

कामद्वन्द्वं रमायुग्मं मायायुक्त्रिपुरापदम् ‍ ॥९२॥

ललितेन्ते मदीप्सीति तामन्ते योषितं पदम् ‍ ।
देहि वाञ्छितमित्युक्त्त्वा कुरु ज्वलनकामिनी ॥९३॥

अष्टविंशतिवर्णोऽयं मनुरिष्टप्रियाप्रदः ।

कामपद्माद्रिपुत्रीणां प्रत्येकं त्रितयं वदेत् ‍ ॥९४॥

त्रिपुरान्ते सुन्दरीति सर्वं जग दिनद्वयम् ‍ ।

वशं कुरु द्वयं मह्यं बलं देह्यनलाङ्गना ॥९५॥

सर्वाभीष्टप्रदो मन्त्र उक्तो बाणगुणाक्षरः ।

चतुर्दशानामेतेषां मनूनामृषिरीरितः ॥९६॥

तेषां मन्त्रानामृष्यादिकथनम् ‍

दक्षिणामूर्तिसंज्ञस्तु च्छन्दो गायत्रमुच्यते ।

त्रिपुरादेवता बाला षडङुं मातृकासमम् ‍ ॥९७॥

ध्यानवर्णनम् ‍

पाशांकुशौ पुस्तकमक्षसूत्रं करैर्दधाना सकलामरार्च्या ।

रक्ता त्रिनेत्रा शशिशेखरे यं ध्येयाखिलद्धयैं त्रिपुरात्र बाला ॥९८॥

जपेल्लक्षं दशांशेन होमः पुष्पैर्हयारिजैः ।

पूजापूर्वोदिते पीठेङ्गे रस्याद्यैश्च सायकैः ॥९९॥

मातृभिर्दिगधीशास्त्रैः प्रयोगाः पूर्ववन्मताः ।

लघुश्यामामथो वक्ष्ये स्मरनादिष्टदायिनीम् ‍ ॥१००॥

लघुश्यामामन्त्रकथनम् ‍

वाग्बीजं हृदयं कर्ण एकनेत्रः सनेत्रकः ।

वृषो मुकुन्दमारुढो कूर्मो दीर्घन्दुसंयुतः ॥१०१॥

नन्दीदीर्घोलिमाङ्गिसर्वान्ते स्याद्वशङ्करिं ।

वैश्वानरप्रियान्तोऽयं मन्त्रो विंशतिवर्णवान् ‍ ॥१०२॥

मदनोऽस्य मुनिः प्रोक्तो गायत्रीनिचृदादिका ।

छन्दो देवीलघुश्यामा बीजं वाग्वहिनवल्लभा ॥१०३॥

शक्तिरुक्ताखिलाऽभीष्टसाधने विनियोजनम् ‍ ।


न्यासकथनम् ‍

वाक्पूर्विकां रतिं मूर्ध्नि प्रीतिं मायादिकां हृदि ॥१०४॥

पादयोर्विन्यसेन्मन्त्री कामपूर्वो मनोभवाम् ‍ ।

इच्छाशक्तिं ज्ञानशक्तिं क्रियाशक्तिं क्रमान्न्यसेत् ‍ ॥१०५॥

वाङ्‌मायाकामबीजाद्यां मुखे कण्ठे शिवे तथा ।

बानेशीबीजानि

द्रावणं शोषणं बाणं तापनं मोहनाभिधम् ‍ ॥१०६॥

उन्मादनं क्रमात् ‍ पञ्चाबाणेशीबीजपूर्वकान् ‍ ।

कास्यहृद्‌गुह्यपादेषु न्यस्य कुर्यात् ‍ षडङुकम् ‍ ॥१०७॥

रामाग्निगुणरामाङुनेत्रवर्णैर्मनूत्थितैः

अष्टमातृकान्यासः

ङ्गेनमोन्ताः कन्यकान्ता ब्राह्मयाद्या अष्टमातरः ॥१०८॥

दीर्घस्वराद्यदीर्घक्षाद्यष्टकाद्याविलोमतः ।

विन्यस्य मूर्ध्नि वामांसे वामपार्श्वेषु नाभितः ॥१०९॥

दक्षपार्श्वे दक्षिणांसे ककुद्धृदययोरपि ।

तारवागादिका अष्टौ सिद्धयः कन्यकान्तिमाः ॥११०॥

चतुर्थी नमसायुक्ता न्यस्याः कालिकाचिल्लिषु ।

कण्ठे च हृदये नाभावाधारे लिङ्गमूर्द्धानि ॥१११॥

अणिमा महिमा चापि लघिमा गारिमेशिता ।

वशिता चाथ प्राकाम्यं प्राप्तिरित्यष्ट सिद्धयः ॥११२॥

अष्टाप्सरसां नामानि न्यासश्च

कामाद्याः कन्यकाः प्रीता अष्टावप्सरसो न्यसेत् ‍ ।

के भाले नेत्रयोर्वक्त्रे कर्णयोः काकुदेऽपि च ॥११३॥

उर्वशी मेनका रम्भा घृताची पुञ्चकस्थला ।

सुकेशी मञ्जुघोषा च महारङुवतीरिताः ॥११४॥

यक्षादिकन्यान्यासकथनम् ‍

यक्षगन्धर्वसिद्धानां कन्यका नरनागयोः ।

विद्याधरः किंपुरुषः पिशाचानामपीहताः ॥११५॥

अंसयोर्हृदये न्यस्येत् ‍ स्तनजोर्जठरे क्रमात् ‍ ।

गुह्येऽप्याधारदेशे च नमोन्ता मदनादिकाः ॥११६॥

ताराद्यान्नमसायुक्तान् ‍ मूलवर्णान्सबिन्दुकान् ‍ ।

न्यसेत् ‍ सन्धिषु साग्रेषु करयोः पादयोरपि ॥११७॥

न्यासानेवंविधान् ‍ कृत्वा मातङीमासने स्मरेत् ‍ ।

सुरार्णवान्तरीपस्थरत्नमन्दिरमध्यगे ॥११८॥

मातङीध्यानकथनम् ‍

माणिक्याभरणान्वितां स्मितमुखीं नीलोत्पलाभाम्बरां रम्यालक्तकलिप्तपादकमलां नेत्रत्रयोल्लासिनीम् ‍ ।

वीणावादनतत्परं सुरनतां कीरच्छदश्यामलां मातङ्गी शशिशेखरामनुभजेत्ताम्बूलपूर्णाननाम् ‍ ॥११९॥

प्रयोगकथनम् ‍

लक्षं जपेन्मधूकोत्थैर्जुहुयदयुतं शुभैः ।

मातङ्गीप्रोदिते पीठे लघुश्यामां प्रपूजयेत् ‍ ॥१२०॥

त्रिकोणपञ्चकोणाऽष्टदलषोडशपत्रके ।

वेदद्वाधरगेहावृत्ते यन्त्रे विधानतः ॥१२१॥

देव्या अग्रे पार्श्वयोश्च त्रिस्रोर्चेद्रतिपूर्विकाः ।

इच्छाज्ञानक्रियाशक्तीः कोणेष्वग्रादिषु त्रिषु ॥१२२॥

बाणान्पञ्चसु कोणेषु केसरेष्वङ्गदेवताः ।

ब्राह्ययाद्या अष्टपत्रेषु पत्राग्रेष्वणिमादिकाः ॥१२३॥

यजेत् ‍ षोडशपत्रेषूर्वश्याद्याः कन्यका अपि ।

प्रयोगान्न्यासवत्कुर्याद् ‍ रत्यादीनां प्रपूजने ॥१२४॥

भूगृहस्य चतुर्दिक्षु योगिनीः परिपूजयेत् ‍ ।

चतुःषष्टियोगिनीकथनम् ‍

गजानना सिंहमुखी गृधास्या काकतुण्डिका ॥१२५॥

उष्ट्रग्रीवा ह्यग्रीवा वाराही शरभानना ।

उलूकिका शिवारावा मयूरी विकटानना ॥१२६॥

अष्टवक्त्रा कोटराक्षी कुब्जा विकटलोचना ।

समर्चयेदि‌दशि प्राच्यामेताः षोडशयोगिनीः ॥१२७॥

शुष्कोदरी ललज्जिहवाक्ष्वंदंष्ट्रा वानरानना ।

ऋक्षाक्षी केकराक्षी च बृहत्तुण्डा सुराप्रिया ॥१२८॥

कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका ।

पाशहस्ता दण्डहस्ता प्रचण्डेत्यपि षोडश ॥१२९॥

पूज्या कीनाशदिग्भागे प्रतीच्या चण्डविक्रमा ।

शिशुघ्नी पापहन्त्री च काली रुधिरपायिनी ॥१३०॥

वसाधया गर्भभक्षा शवहस्तान्त्रमालिनी ।

स्थूलकेशी बृहत्कुक्षिः सर्पास्या प्रेतवाहना ॥१३१॥

दन्तशूककरा क्रौञ्ची मृगशीर्षेति षोडश ।

सम्पूज्या उत्तरस्यां तु षोडशैव वृषानना ॥१३२॥

व्यातास्या धूमनिःश्वासा व्योमैकचरणोर्ध्वदृक् ‍ ।

तापनी शोषनी दृष्टिः कोटरी स्थूलनासिका ॥१३३॥

विद्युत्प्रभा बलाकास्या मार्जारी कटपूतना ।

अट्टाट्टहासा कामाक्षेत्यर्चनीया अभीष्टदाः ॥१३४॥

नश्यन्ति भूतशाकिन्य आसां नाम श्रुतेरपि ।

भूमन्दिरस्य कोणेषु वहन्यादिषु यजेत्क्रमात् ‍ ॥१३५॥

स्वस्वमन्त्रेण बटुकं गणेशं क्षेत्रपालकम् ‍ ।

दुर्गां तद्‌बहिरिन्द्रादीन् ‍ वज्रादीनपि पूजयेत् ‍ ॥१३६॥

भूगृहस्य चतुर्दिक्षु चतुर्वाद्यानि पूजयेत् ‍ ।
तत्तत्संज्ञ च विततं घनं च सुषिराभिधम् ‍ ॥१३७॥

द्वादशावरणैरेवं लघुश्यामां यजेत्तु यः ।

सर्वासां सम्पदां पात्रमचिराज्जायते स ना ॥१३८॥

लघुश्यामायाः द्वादशावरणपूजागायत्रीकथनं च

वाणीशुक्रप्रिया ङ्गेता विद्महे मीनकेतनः ।

कामेश्वरीं धीमहीति तन्नः श्यामाप्रचोदयात् ‍ ॥१३९॥

एषोदिता तु मातङ्गीगायत्री सर्वसिद्धिदा ।

अनया यागवस्तूनि प्रोक्षेतस्यास्समर्चने ॥१४०॥

मातङ्गीमन्त्रसप्रोक्ताः प्रयोगाः तत्र कीर्तिताः ।

राजानो राजपुत्राश्च सुदृशो मदमन्थराः ॥१४१॥

दासामनोवचःकायैर्भवन्त्यस्या उपासितुः ।

शाकिनीप्रेतभूताश्च धर्षितुं तं न शक्नुयुः ॥१४२॥

भूरिणा किमिहोक्तेन देवीयमखिलेष्टदा ।

यन्मनुस्मरणादेव नरो देवोपमो भवेत् ‍ ॥१४३॥

देव्याउपासकैः पुम्भिः स्त्रियो निन्द्या च जातुचित् ‍ ।

देवीवन्माननीयास्ता मनोऽभीष्टमभीप्सुभिः ॥१४४॥

इति श्रीमन्महीधरविरचिते मन्त्रमहोदधौ बालालघुश्यामानिरुपणमष्टमस्तरङ्गः ॥८॥

इति श्रीमन्महीधरविरचितायां मन्त्रमहोदधिव्याख्यायां नौकायां बालालघुश्यामानिरुपणमष्टमस्तरङ्गः ॥८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-28T10:56:23.7670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

negative grid current

  • ऋण जाल धारा 
RANDOM WORD

Did you know?

तेल आणि तूप दिवा एकत्र का लावूं नये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.