TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मन्त्रमहोदधिः - दशमः तरङ्गः

श्रीमन्महीधर भट्ट ने स्वयं इस ग्रंथ में शान्ति , वश्य , स्तम्भन , विद्वेषण , उच्चाटण और मारण की विधि बताई है ।


दशमः तरङ्गः

अथ प्रवक्ष्ये शत्रूणां स्तम्भिनी बगलामुखी ।

बगलामुखीमन्त्रः

प्रणवो गगनं पृथ्वीशान्तिबिन्दुयुतं बग ॥१॥

लामुखाक्षो गदीसर्वं दुष्टानां वाहलीन्दुयुक् ‍ ।

मुखंपदं स्तम्भयान्ते जिहवाम कीलय वर्णकाः ॥२॥

बुद्धिं विनाशायान्ते तु बीजं तारोऽग्निसुन्दरी ।

षट् ‌ त्रिंशदक्षरो मन्त्रो नारदो मुनिरस्य तु ॥३॥

छन्दोऽपिबृहती ज्ञेयं देवताबगलामुखी ।

नेत्राक्षसायकनवपञ्चकाष्ठाभिरङ्गकम् ‍ ॥४॥

ध्यानजपदिविधानम् ‍

सौवर्णासनसंस्थिता त्रिनयनां पीतांशुकोल्लासिनीं

हेमाभाङरुचिं शशाङ्कमुकुटां सच्चम्पकस्रग्युताम् ‍ ।
हस्तैर्मुद्‌गरपाश वज्ररसनाः सम्बिभ्रतीं भूषणै

र्व्याप्ताङ्गी बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत् ‍ ॥५॥

एवं ध्यात्वा जपेल्लक्षमयुतं चम्पकोद्‍भवैः ॥६॥

चन्दनागुरुचन्द्राद्यैः पूजार्थं यन्त्रमालिखेत् ‍ ।
त्रिकोणषड्‍दलाष्टास्रषोडशारधरापुरम् ‍ ॥७॥

मध्ये सम्पूजयेद् ‍ देवीं कोणे सत्त्वादिकान्गुणान् ‍ ।

षट्‌कोणेषु षड्ङ्गानि मातृर्भैरवसंयुता ॥८॥

सम्पूज्याऽष्टदले पद‍मे षोडशारे यजोदिमाः ।

अष्टषोडशपीठदेवताकथनम् ‍

मङ्गलास्तम्भिनी चैव जृम्भिणीमोहिनी तथा ॥९॥

वश्याचलाबलाका च भूधराकल्मषाभिधा ।

धात्री च कलनाकलकर्षिनीभ्रामिकाऽपि च ॥१०॥

मन्द्‌गमना च भोगस्था भाविका षोडशी स्मृता ।

भूगृहस्य चतुर्दिक्षु पूर्वादिषु यजेत् ‍ क्रमात् ‍ ॥११॥

गणेशं बटुकं चापि योगिनीं क्षेत्रपालकम् ‍ ।

इन्द्रादींश्च ततो बाह्ये निजायुधसमान्वितान् ‍ ॥१२॥

इत्थं सिद्धमनुर्मन्त्री स्तम्भयेद् ‍ देवतादिकान् ‍ ।

पीतवस्त्रस्तदासीनः पीतमाल्यानुलेपनः ॥१३॥

पीतपुष्पैर्यजेद् ‍ देवीं हरिद्रोत्थस्रजा जपन् ‍ ।
पीतां ध्यायन् ‍ भगवतीं प्रयोगेष्वयुतं जपेत् ‍ ॥१४॥

अस्य मन्त्रस्य नानाविधानेन नानासिद्धयः

त्रिमध्वक्ततिलैर्होमो नृणां वश्यकरो मतः ।

मधुरत्रितयाक्तैः स्यादाकर्षो लवर्णैर्धुवम् ‍ ॥१५॥

तैलाभ्यक्तैर्निम्बपत्रैर्होमो विद्वेषकारकः ।

ताललोणहरिद्राभिर्द्विषा संस्तम्भनं भवेत् ‍ ॥१६॥

अङ्गारधूमं राजीश्च माहिषं गुग्गुलुं निशि ।

शमशानापावके हुत्वा नाशयेदचिरादरीन् ‍ ॥१७॥

गुरुतो गृध्रकाकानां कटुतैलं बिभीतकम् ‍ ।
गृहधूमं चितावहनौ हुत्वा प्रोच्चाटयेद् ‍ रिपून ॥१८॥

दूर्वागुडूचीलाजान् ‍ यो मधुरत्रितयान्वितान् ‍ ।

जुहोति सोखिलान् ‍ रोगाञ्छमयेद् ‍ दर्शनादपि ॥१९॥

पर्वताग्रे महारण्ये नदीसङे शिवालये ।

ब्रह्मचर्यव्रतो लक्षं जपेदखिलासिद्धये ॥२०॥

एकवर्णगवीदुग्ध शर्करामधुसंयुतम् ‍ ।

त्रिशतं मन्त्रितं पीतं हन्याद्विषपराभवम् ‍ ॥२१॥

श्वेतापालाशकाष्ठेन रचिते रम्यपादुके ।

अलक्तरञ्जिते लक्षं मन्त्रयेन्मनुनाऽमुना ॥२२॥

तदारुढः पुमान् ‍ गच्छेत् ‍ क्षणेन शतयोजनम ‍ ।

पारदं पुमान् ‍ गच्छेत् ‍ क्षणेन शतयोजनम् ‍ ।

पारदं च शिलां तालपिष्टं मधुसमन्वितम् ‍ ॥२३॥

मनुनां मन्त्रयेल्लक्षं लिपेत्तेनाखिलान् ‍ तनुम् ‍ ।

अदृश्यः स्यान्नृणामेष आश्चर्यं दृश्यतामिदम् ‍ ॥२४॥

यन्त्रादिसाधनप्रकारः

षट्‌कोणे विलिखेद् ‍ बीजं साध्यनामान्वितं मनोः ।

हरितालनिशाचूर्णैरुन्मत्तरससंयुतैः ॥२५॥

शेषाक्षरैः समावीतं धरागेहविराजितम् ‍ ।
तद्यन्त्रं स्थापितप्राणं पीतसूत्रेण वेष्टयेत् ‍ ॥२६॥

भ्राम्यत् ‍ कुलालचक्रस्थां गृहीत्वा मृत्तिकां तया ।

रचयेद् ‍ वृषभं रम्यं यन्त्रं तन्मध्यतः क्षिपेत् ‍ ॥२७॥

हरितालेन संलिप्य वृषं प्रत्यहमर्चयेत् ‍ ।
स्तम्भयेद्विद्विषां वाचं गतिं कार्यपरम्पराम् ‍ ॥२८॥

आदाय वामहस्तेन प्रेतभूमिस्थखर्परम् ‍ ।

अङ्गारेण चितास्थेन तत्र यन्त्रं समालिखेत् ‍ ॥२९॥

मन्त्रितं निहितं भूमौ रिपूणां स्तम्भयेद् ‍ गतिम् ‍ ।

प्रेतवस्त्रे लिखेद्यन्त्रमङ्गारेणैव तत्पुनः ॥३०॥

मण्डूकवदने न्यस्तेत् ‍ पीतवस्त्रेण वेष्टितम् ‍ ।
पूजितं पीतपुष्पैस्तद् ‍ वाचं संस्तम्भयेद् ‍ द्विषाम् ‍ ॥३१॥

यद्‌भूमौ भविता दिव्यं तत्र यन्त्रं समालिखेत् ‍ ।
मार्जितं तद्‌वृषापत्रैर्दिव्यस्तम्भनकृद् ‍ भवेत् ‍ ॥३२॥

इन्द्रवारुणिकामूलं सप्तशो मनुमन्त्रितम् ‍ ।

क्षिप्तं जले दिव्यकृतां जलस्तम्भनकारकम् ‍ ॥३३॥

किम्भूरिण साधकेनः मन्त्रः सम्यगुपासितः ।

शत्रूणां गतिबुद्धयादेः स्तम्भनो नात्रसंशयः ॥३४॥

स्वप्नवाराहीजनवशकरणो मन्त्रः

उच्यते स्वप्नवाराही जनतावशकारिणी ।

वेदादिबीजं माया च हृद् ‍ दीर्घौ जलपावकौ ॥३५॥

खं सदृक्सद्ययुग्मेधारे स्वप्नं सर्गिणौ च ठौ ।

कृशानुवल्लभां तोयं मन्त्रः पञ्चदशाक्षरः ॥३६॥

ईश्वरो जगती स्वप्नवाराही मुनिपूर्वकाः ।
तारो बीजं च हृल्लेखाशक्तिष्ठौ कीलकं मतम् ‍ ॥३७॥

द्विपञ्चनेत्रहस्ताक्षियुग्मार्णैरङुकं मनोः ।

पादलिङ्गकटी कण्ठगण्डाक्षिश्रुतिनासिके ।

विन्यस्य मन्त्रजान् ‍ वर्णांशिन्तयेत् ‍ परदेवताम् ‍ ॥३८॥

ध्यानजपीठदेवतादिपूजाकथनम् ‍

मेघश्यामरुचिं मनोहरकुचां नेत्रत्रयोद्‌भासितां

कोलास्या शशिशेखरामचलयादंष्ट्रातले शोभिनीम् ‍ ।

बिभ्राणां स्वकराम्बुजैरसिलतां चर्मापि पाशं सृणिं

वाराहीमनुचिन्तद्धयवरारुढां शुभालंकृतिम् ‍ ॥३९॥

लक्षं जपेद् ‍ दशांशेन नीलपद्मस्तिलैः शुभैः ।

जुहुयात् ‍ पूर्वसम्प्रोक्ते पीठे सम्पूजयदिमाम् ‍ ॥४०॥

त्रिकोणे तां समाराध्य षट्‌कोणेष्वङ्गदेवताः ।

षोडशारे यजेच्छक्तीर्वक्ष्यमाणास्तु षोडश ॥४१॥

उच्चाटनी तदीशी च शोषणी शोषणीश्वरी ।

मारणी मारणीशी च भीषणी भीषणीश्वरी ॥४२॥

त्रासनी त्रासनीशी च कल्पनी कम्पनीश्वरी ।

आज्ञाविवर्तिनीपश्चादाज्ञाविवर्तिनीश्वरी ॥४३॥

वस्तुजातेश्वरी चाथ सर्वसम्पादनीश्वरी ।

एताः पूज्याश्चतुर्थ्यन्ताः प्रणवाद्या नमोन्विताः ॥४४॥

यन्त्रदिप्रयोगसाधनकथनम् ‍

यजेदष्टदले पद्मे मातृभैरवसंयुताः ।

लोकपालान्दशदले द्वितीये हेतिसंयुतान् ‍ ॥४५॥

एवं सिद्धं मनुं मन्त्री काम्यकर्मणि योजयेत् ‍ ।

तर्पयेन्नारिकेलोत्थैर्जलैस्तीर्थोद्‌भवैरपि ॥४६॥

मानयेत्तरुणीवर्गान् ‍ सर्वकामार्थसिद्धये ।

कृष्णपक्षेष्टमीघस्रे भूताहे वा कृतव्रतः ॥४७॥

चतुष्पथान्नदीकूलद्वयात् ‍ कौलालवेश्मनः ।

मृदमानीय धत्तूररससंयुक्तया तया ॥४८॥

रचयेत्पुत्तलीं रम्यां साध्यासुस्थापनान्विताम् ‍ ।

ततः प्रेताम्बरे यन्त्रं नृकाकाजासृजा लिखेत् ‍ ॥४९॥

चिताङ्गरयुजायोनिं षट्‌कोणं भूपुरान्वितम् ‍ ।
तदन्तमन्त्रमालिख्य वेष्टयेन्मनुनामुना ॥५०॥

साध्यमुच्चाटयुगं शोषयद्वितयं ततः ।

मारयद्वितयं चाथ भीषयद्वितयं ततः ॥५१॥

नाशद्वितयं पश्चाच्छिरःकम्पय युग्मकम् ‍ ।

ममाज्ञावर्तिनं पश्चात् ‍ कुरु सर्वाभिमार्णकाः ॥५२॥

तवस्तुजांत शब्दान्ते सम्पादययुगं ततः ।

सर्वं कुरु युगं स्वाहा मुनिसप्ताक्षरो मनुः ॥५३॥

अनेन वेष्टितं यन्त्रं कृतं देवीप्रतिष्ठितम् ‍ ।
पुत्तल्या हृदि विन्यस्य यजेत्तामुक्तमार्गतः ॥५४॥

तदग्रे प्रजपेन् ‍ मन्त्रं रात्रावेकान्तमाश्रितः ।

सहस्रं साष्टकं भूयः पूजयेत्तां समाहितः ॥५५॥

एवं कृते नरा नार्यो राजानो राजवल्लभाः ।

सिंहागजामृगाः क्रूरा भवेयुर्वशगा ध्रुवम् ‍ ॥५६॥

चित्ते ध्यात्वा निजं कार्यं शयीत विजने व्रती ।

यथा भावि तथा देवी स्वप्ने वदति मन्त्रिणे ॥५७॥

सिद्धिप्रदमहायन्त्रकथनम् ‍

अथैतस्या महायन्त्रं प्रवक्ष्ये सिद्धिदं नृणाम् ‍ ।
कृत्वा त्रिकोणं षट्‌कोणं षोडशारं वसुच्छदम् ‍ ॥५८॥

दशारद्वितयं पञ्चदशास्त्रं भूपुरद्वयम् ‍ ।
त्रिकोणे कामबीजस्थं वाग्भं विलिखेत् ‍ पुनः ॥५९॥

षट्‌सु कोणेषु वाग्बीजं पाशं मायां सृणिश्रियम् ‍ ।

दीर्घं च कवचं पश्चाद्विलिखेत् ‍ षोडशच्छदे ॥६०॥

शक्तिः षोडशपूर्वोक्ता ब्रह्मयाद्या अष्टपत्रके ।

भैरवैः संयुतान्न्यस्येद् ‍ दशारे दिक्पतीन्क्रमात् ‍ ॥६१॥

दिक्पालानां बीजानि

स्वस्वबीजादिकान् ‍ बीजसमूहः कथ्यतेऽधुना ।

मांसं रक्तं विषं मेरुर्जलं वायुर्भृगुर्वियत् ‍ ॥६२॥

एतानि शशियुक्तानि पाशो मायान्तिमा मता ।

वज्राद्यान्विलिखेत् ‍ सम्यक्पंक्तिपत्रे द्वितीयके ॥६३॥

तिथिपत्रे मूलवर्णान्गायत्र्यर्णैः प्रवेष्टयेत् ‍ ।
वाय्वग्नी विलिखेद् ‍ भूमिं मन्दिरद्वितयास्रिषु ॥६४॥

भूर्जादौ यन्त्रमालिख्य जपं सम्पातसाधितम् ‍ ।
बाहवादौ विधृतं दद्यान्नृणां कीर्तिं धनं सुखम् ‍ ॥६५॥

बहुना किमिहोक्तेन वाराहीष्टं प्रयच्छति ।

वार्तालीमन्त्रः

वाग्बीजपुटिताभूमिर्नमोन्ते भगवत्यथ ॥६६॥

वार्तालिवारा गगनं सदृग्वाराहिवा पदम् ‍ ।
राहमुखि ततो बीजत्रयं पूर्विदितं वदेत् ‍ ॥६७॥

अन्धेअन्धिनि हृदयं रुन्धेरुन्धिनि हृत्तथा ।

जन्भेजन्भिनी हृत् ‍ पश्चान्मोहेमोहिनि हृत् ‍ पुनः ॥६८॥

स्तम्भेस्तम्भिनि हार्दान्ते पुनर्बीजत्रयं वदेत् ‍ ।

सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाक्पदम् ‍ ॥६९॥

चित्तचक्षुर्मुखगतिजिहवास्तम्भं कुरुद्वयम् ‍ ।

शीघ्रं वश्यं कुरुद्वन्द्वं त्रिबीजीठचतुष्टयम् ‍ ॥७०॥

सर्गाढ्यं वर्मफट् ‌ स्वाहा वेदरुद्राक्षरो मनुः ।

प्रणवादिर्मुनिश्छन्दः शिवोऽतिजगती तथा ॥७१॥

वार्तालीदेवता प्रोक्ता वार्तालीहृदयं स्मृतम् ‍ ।

वाराहीति शिरः प्रोक्तं शिखावाराहमुख्यपि ॥७२॥

अन्धेअन्धिनि वर्मोक्त रुन्धेरुन्धिनि नेत्रकम् ‍ ।

जम्भेजम्भिनि चास्त्रं स्यात्ततो ध्यायेत्तु देवताम् ‍ ॥७३॥

ध्यानजपपीठदेवतापूजादिकथनम् ‍

रक्ताम्भोरुहकर्णिकोपरिगते शावासने संस्थितां

मुण्डस्रक्परिराजमानहृदयां नीलाश्मसद्रोचिषम् ‍ ।
हस्ताब्जैर्मुसलं हलाभयवरान्सम्बिभ्रतीं सत्कुचां

वार्तालीमरुणाम्बरां त्रिनयनां वन्दे वराहाननाम् ‍ ॥७४॥

तत्सप्तदशसाहस्रं प्रजपेत्तद्‌दशांशतः ।

तिलैर्बन्धूककुसुमैर्जुहुयान्मधुरान्वितैः ॥७५॥

पूजायन्त्रमथो वक्ष्ये जपादिनवशक्तिकम् ‍ ।

स्वर्णे रुप्ये तथा ताम्रे भूर्जपत्रेऽथ दारुणि ॥७६॥

लिखेद् ‍ गोरोचनारात्रिचन्दनागुरुकुंकुमैः ।

योनिपञ्चास्रषट्‌कोणाष्टपत्रशतपत्रकम् ‍ ॥७७॥

सहस्रदलभूबिम्बसंवीतद्वारसंयुतम् ‍ ।

कैलासाचलमध्यस्थं पीठेमेतद्विचिन्तयेत् ‍ ॥७८॥

तत्रावाह्य यजेद् ‍ देवीमुपचारैर्मनोहरैः ।

त्रिकोणमध्ये देवेशीं यदन्यादिषु चाङ्गकम् ‍ ॥७९॥

वार्ताली चापि वाराही पूज्या वाराह मुख्यपि ।

त्रिकोणेष्वथं पञ्चास्रेष्वन्धिनी रुन्धिनी तथा ॥८०॥

जम्भिनीमोहिनी चापि स्तम्भिनीज्या तु पञ्चमी ।

षट्‌कोणेषु पुनः पूज्या डाकिनी राकिनी तथा ॥८१॥

लाकिनी काकिनी चापि शाकिनी हाकिनी पुनः ।

षट्‌कोणपार्श्वयोः पूज्यं स्तम्भिनीक्रोधिनीदृयम् ‍ ॥८२॥

मुसलेष्टवरौ त्वाद्या कपालहलभृत्परा ।

षट्‌कोणाग्रे यजेच्चण्डोच्चण्डं तस्याः सुतोत्तमम् ‍ ॥८३॥

शूलं नागं च डमरुं कपालं दधतं करैः ।

इन्द्रनीलनिभं नग्नं जटाभारविराजितम् ‍ ॥८४॥

अष्टपत्रेषु वार्तालीमुखं देव्यष्टकं यजेत् ‍ ।
शतपत्रेषु सम्पूज्या रुद्रार्का वसवोऽश्विनौ ॥८५॥

त्रिरेकैकोन्त्यपत्रे तु जम्भिनीस्तम्भिनीयुता ।

शतकोणाग्रतः पूज्यः सिंहोमहिषसंयुतः ॥८६॥

वाराहीमन्त्रकथनम् ‍

सहस्रपत्रे वाराहीं पूजयेत्तु सहस्रशः ।

अंकुशो ङ्गेन्त वाराही नमोन्तस्तन्मनुः स्मृतः ॥८७॥

भूपुरद्वारदेशे तु बटुकं क्षेत्रपालकम् ‍ ।

योगिनीं गणनाथं च तत्तन्मन्त्रैः प्रपूजयेत् ‍ ॥८८॥

फान्तः सबिन्दुर्बटुको ङ्गेन्तो हृत् ‍ सप्तवर्णकः ।

मेरुः शशियुतः क्षेत्रपालाय नमसान्वितः ॥८९॥

योगिनीगणेशादीनां मन्त्राः

अष्टार्णः शेषयुग्वायुः सचन्द्रो योगिनीपदम् ‍ ।
भ्यो नमोन्तः सप्तवर्णः खान्तश्चन्द्रान्वितो गण ॥९०॥

पतयेहृच्चाष्टवर्णाः प्रोक्तास्ते मनवः क्रमात् ‍ ।

दिक्पालानायुधर्युक्तान्दिक्षु सम्पूजयेत्ततः ॥९१॥

पूजान्ते बटुकादिभ्यो बलिमन्त्रैर्बलिं हरेत् ‍ ।

बलिदानोचिता मन्त्राः कीर्त्यन्तेऽखिलसिद्धिदाः ॥९२॥

बटुकस्य बलिमन्त्रः
एह्येहीतिपदं प्रोच्य देवी पुत्रेति कीर्तयेत् ‍ ।

बटुकान्ते नाथकपिलजटाभारभासुरः ॥९३॥

त्रिनेत्रज्वालाशब्दान्ते मुखसर्वजलं सदृक् ‍ ।

घ्नान्नाशययुगं सर्वोपचारसहितं बलिम् ‍ ॥९४॥

गृहणयुग्मं वहिनपत्नीशरपञ्चाक्षरो मनुः ।

बटुकस्य बलिं दद्यादनेन श्रद्धयान्वितः ॥९५॥

क्षेत्रपालबलिमन्त्रकथनम् ‍

मेरुः षड्‌दीर्घयुग्वर्मस्थानक्षेत्रपदं वदेत् ‍ ।

पालेशसर्वकामं च पूरयानलवल्लभा ॥९६॥

त्रयोविंशतिवर्णाढ्यः क्षेत्रपालमनुर्मतः ।

योगिनीनामथो मन्त्रः पद्यरुपः प्रपठ्यते ॥९७॥

योगिनीगणेशादीनां बलिमन्त्रकथनम् ‍

ऊर्ध्वब्रह्माण्डतो वा दिविगगनतले भूतले निष्कले वा

पाताले वातले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा ।

क्षेत्रे पीठोपपीठादिषु च कृतपदाधूपदीपादिकेन

प्रीता देव्याः सदानः शुभबलिविधिना पान्तु वीरेन्द्रवन्द्याः ॥९८॥

यां योगिनीभ्यः स्वाहान्तो भूमिनन्दाक्षरो मनुः ।

योगिनीनां बलिं दद्यादनेन विधिपूर्वकम् ‍ ॥९९॥

दीर्घत्रयेन्दुयुक्सेन्दुः शार्ङ्गीगणपतार्णकाः ।

मारुतो भगवांस्तोयं रवरान्ते दसर्व च ॥१००॥

जनं मे वशमानान्ते यः सर्वो लोहितो हली ।

दीर्घो रसहितं प्रान्ते बलिं गृहणयुगं शिरः ॥१०१॥

गणेशबलिमन्त्रोऽयं गगनश्रुतिवर्णवान् ‍ ।

एवं तेभ्यो बलिं दत्त्वा स्वस्वमुद्रां प्रदर्शयेत् ‍ ॥१०२॥

तत्तद्‌देवतानां मुद्राकथनम् ‍

अंगुष्ठ तर्जनीयुक्तं दर्शयेद् ‍ बटुके बलौ ।

अंगुष्ठानामिके वामे क्षेत्रपालबलौ मता ॥१०३॥

किंचिद्वक्रीकृता मध्या गणनाथबलौ स्मृता ।

अनामामध्यमाङ्गगुष्ठा योगिनीनां बलौ पुनः ॥१०४॥

एवं सम्पूज्य संस्तुत्य नत्वात्मन्युपसंहरेत् ‍ ।

सिद्धमन्त्रः प्रकुर्वीत प्रयोगाञ्छिवभाषितान् ‍ ॥१०५॥

एषां मन्त्राणां साधनप्रकारः

हरिद्रया चन्दनेन लाक्षया गुरुणापि च ।

पुरेण विविधैर्मांसैर्जुहुयादिष्टसिद्धये ॥१०६॥

हरिद्रामालया कुर्याज्जपं स्तम्भनकर्मणि ।

स्फाटिकैः पद्‌मबीजैश्च रुद्राक्षैः शुभकर्मणि ॥१०७॥

स्वर्णादिपात्रैः सुरया बन्धूककुसुमैस्तिलैः ।

वाराहीं तर्पयेत् ‍ सम्यक् ‍ कामसम्पूर्तये नरः ॥१०८॥

चतुःशतं तु तापिच्छैर्जुहुयात्स्तम्भनेच्छया ।

लाजचूर्णतिलैः कुर्यात् ‍ खरमेषासृजान्वितैः ॥१०९॥

पिण्डं मनोहरं तं तु पूजयेत्तर्पयेदपि ।

सपत्नसदनं साङ्गमेतस्मै विनिवेदयेत् ‍ ॥११०॥

कुण्डे पिण्डं निधायामुं जुहुयात्तत्र चायुतम् ‍ ।

एकविंशतिरात्रीषु लाजैरक्तसमन्वितैः ॥१११॥

एवं कृते वैरिवृन्दं भक्ष्यते योगिनीगणैः ।

शकटाभिधं महादेव्या यन्त्रम् ‍

अथ यन्त्रं महादेव्याः प्रोच्यते शकटाभिधम् ‍ ॥११२॥

विलिख्य तारे साध्याख्यं भूबीजेन प्रवेष्टयेत् ‍ ।

उकारेण च संवेष्टय भूपुरं परितो लिखेत् ‍ ॥११३॥

अष्टवज्रान्वितं वज्रप्रान्तें प्रणवमालिखेत् ‍ ।
वज्रमध्ये साध्यनामं लिखेत्कर्मसमन्वितम् ‍ ॥११४॥

धराबीजेन संवेष्टय भूपुरं मूलविद्याया ।

बहिरंकुशसंवीतं झिण्टीशेन प्रवेष्टयेत् ‍ ॥११५॥

एतद्यन्त्रं समालिख्य नूत्ने कौलालखर्परे ।

कृष्णपुष्पैः समभ्यर्च्य निःक्षिपेत् ‍ वैरिवेश्मनि ॥११६॥

रिपुमुच्चाट्येच्छ्रीघ्रं स्थितं वर्षशतान्यपि ।

वादित्रे यन्त्रमालिख्य वादयेत् ‍ समरान्तरे ॥११७॥

श्रुत्वा तद्‌रवसंत्रस्ताः पलायन्ते विरोधिनः ।

शत्रुवाक्स्तम्भनविधानम् ‍

पाषाणे लिखितं रात्र्या पीतपुष्पेषु निःक्षिपेत् ‍ ॥११८॥

सम्पूजितमधोवक्त्रं संस्तम्भयेद् ‍ द्विषाम् ‍ ।

तापकार्यग्निनिःक्षिप्तं जले दोषप्रदं भवेत् ‍ ॥११९॥

साध्यर्क्षतरुगर्भस्थं शत्रूणां दुःखदायकम् ‍ ।

किंबहूक्तेन सर्वेष्टं साधयेत्साधितं नृणाम् ‍ ॥१२०॥

इति श्रीमन्महीधरविरचिते मन्त्रमहोदधौ बगलादिमन्त्रकथनं नाम दशमस्तरङ्गः ॥१०॥

इति श्रीमन्महीधरविरचितायां मन्त्रमहोदधिव्याख्यायां नौकायां बगलादिमन्त्रकथनं नाम दशमस्तरङ्गः ॥१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-28T11:00:16.1300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

erythropia

  • स्त्री. लोहित दृष्टिता 
  • = erythropsia 
RANDOM WORD

Did you know?

श्राद्धाचें प्रयोजन काय ? आणि श्राद्धाचे चार भेद कोणते आहेत ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site