TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मन्त्रमहोदधिः - तृतीयः तरङ्गः

इस ग्रंथमें जितने भी देवताओंके मंत्रप्रयोग बतलाये गए हैं , उन्हें सिद्ध करनेसे उत्तम ज्ञान की प्राप्ति होती है।


तृतीयः तरङ्गः

अथ कालीमनून वक्ष्ये सद्यो वाक्सिद्धिदायकान् ‍ ।
आराधितैर्यैः सर्वेष्टं प्राप्नुवन्ति जना भुवि ॥१॥

कालिकाया द्वाविंशत्यर्णात्मको मन्त्रः

कोधीशात्रितयं वहिनवामाक्षिविधुभिर्युतम् ‍ ।
वराहद्वितयं वामकर्णचन्द्रसमान्वितम् ‍ ॥२॥

मायायुग्मं दक्षिणे च दीर्घासृष्टिः सदृक् ‍ क्रिया ।

चक्रीझिण्टीशमारुढः प्रागुक्तं बीजसप्तकम् ‍ ॥३॥

मन्त्रो वहिनप्रियान्तोऽयं द्वाविंशत्यक्षरो मतः ।

न चात्र सिद्धसाध्यादिशोधनं मनसापि च ॥४॥

न यत्नातिशयः कशिच्त्पुरश्चर्यानिमित्तकः ।

विद्याराज्ञयाः स्मृतेरेव सिद्धयष्टकमवाप्नुयात् ‍ ॥५॥

भैरवोऽस्य ऋषिश्छन्दउष्णिक्काली तु देवता ।

बीजं माया दीर्घवर्मशक्तिरुक्ता मनीषिभिः ॥६॥

षड्‌दीर्घाढ्याद्यबीजेन विद्याया अङुमीरितम् ‍ ।

मातृकां पञ्चधा भक्त्या वर्णान् ‍ दशदशक्रमात् ‍ ॥७॥

हृदये भुजयोः पादद्वये मन्त्री प्रविन्यसेत् ‍ ।

व्यापकं मनुना कृत्वा ध्यायेच्चेतसि कालिकाम् ‍ ॥८॥

ध्यानवर्णनम् ‍

सद्यश्छिन्नशिरः कृपाणमभयं हस्तैर्वरं बिभ्रतीं

घोरास्यां शिरसां स्त्रजासुरुचिरामुन्मुक्तकेशावलिम् ‍ ।
सृक्क्यसृक्प्रवहां श्मशाननिलयां श्रुत्योः शवालङ्‌कृतिं

श्यामङीं कृतमेखलां शवकरैर्देवीं भजे कालिकाम् ‍ ॥९॥

पुरश्चरणकथणम् ‍

एवं ध्यात्वा जपेल्लक्षं जुहुयात्तद्दशांशतः ।

प्रसूनैः करवीरोत्थैः पूजायन्त्रमशोच्यते ॥१०॥

आदौ षट्‌कोणमारच्य त्रिकोणत्रितयं ततः ।

पद्‌ममष्टदलं ब्राह्ये भूपुरं तत्र पूजयेत् ‍ ॥११॥

पीठाद्यावरणपूजा पीठदेवता च

जयाख्या विजया पश्चादजिता चापराजिता ।

नित्या विलासिनी चापि दोग्ध्र्यघोरा च मङुला ॥१२॥

पीठशक्तय एताः स्युः कालिकायोगपीठतः ।

आत्मने हृदयान्तोऽयं मायादिः पीठमन्त्रकः ॥१३॥

अस्मिन् ‍ पीठे यजेद्देवीं शवरुपाशिवस्थिताम् ‍ ।

महाकालरतासक्ताम शिवाभिर्दिक्षु वेष्टिताम् ‍ ॥१४॥

अङानि पूर्वमाराध्य षट्‌पत्रेषु समर्चयेत् ‍ ।

कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् ‍ ॥१५॥

विप्रचित्तां च सम्पूज्य नवकोणेषु पूजयेत् ‍ ।

उग्रामुग्रप्रभां दीप्तां नीलां घनबलाकिके ॥१६॥

मात्रां मुद्रां तथा मित्रां पूज्याः पत्रेषु मातरः ।

पद्‌स्याष्टसु पत्रेषु ब्राह्मी नारायणीत्यपि ॥१७॥

माहेश्वरी च चामुण्डा कौमारी चापरपजिता ।

वाराही नारसिंही च पुनरेतास्तु भूपुरे ॥१८॥

भैरवीं महदाद्यान्तां सिंहाद्यां धूम्रपूर्विकाम् ‍ ।
भीमोन्मत्तादिकां चापि वशीकरणभैरवीम् ‍ ॥१९॥

मोहनाद्यां समाराध्य शक्रादीनायुधान्यपि ।

एवमाराधिता काली सिद्धा भवति मन्त्रिणाम् ‍ ॥२०॥

ततः प्रयोगान् ‍ कुर्वीत महाभैरवभाषितान् ‍ ।

आत्मनोऽर्थे परस्यार्थे क्षिप्रसिद्धिप्रदायकान् ‍ ॥२१॥

स्त्रीणां निन्दां प्रहारं च कौटिल्यं वाप्रिय वचः ।

आत्मनो हितमन्विच्छन् ‍ कालीभक्तो विवर्जयेत् ‍ ॥२२॥

अस्य मन्त्रस्य नानाविधानानि नानाफलदानि

सुदृशो मदनावासं पश्यन् ‍ यः प्रजपेन्मनुम् ‍ ।
अयुतं सोऽचिरादेव वाक्पतेः समतामियात् ‍ ॥२३॥

दिगम्बरो मुक्तकेशः श्मशानस्थोऽधियामिनि ।

जपेद्योऽयुतमेतस्य भवेयुः सर्वकामनाः ॥२४॥

शावं हृदयमारुह्य निर्वासाः प्रेतभूगतः ।

अर्कपुष्पसहस्त्रेणाभ्यक्तेन स्वीयंरेतसा ॥२५॥

देवीं यः पूजयेद् ‍ भक्त्या जपन्नेकैकशो मनुम् ‍ ।
सोऽचिरेणैव कालेन धरणीप्रभुतां व्रजेत् ‍ ॥२६॥

रजःकीर्णभगं नार्या ध्यायन् ‍ योऽयुतमाजपेत् ‍ ।

स कवित्वेन रम्येण जनान् ‍ मोहयति ध्रुवम् ‍ ॥२७॥

त्रिपञ्चारे महापीठे शवस्य हृदि संस्थिताम् ‍ ।

महाकालेन देवेन मारयुद्धं प्रकुर्वतीम् ‍ ॥२८॥

तां ध्यायन् ‍ स्मेरवदनां विदधत् ‍ सुरतं स्वयम् ‍ ।

जपेत् ‍ सहस्त्रमपि यः स शङ्करसमो भवेत् ‍ ॥२९॥

अस्थिलोमत्वचायुक्तं मासं मार्जारमेषयोः ।

ऊष्ट्रस्य महिषस्यापि बलिं यस्तु समर्पयेत् ‍ ॥३०॥

भूताष्टम्योर्मध्यरात्रे वश्याः स्युस्तस्य जन्तवः ।

विद्यालक्ष्मीयशः पुत्रैः स चिरं सुखमेधते ॥३१॥

यो हविष्याशनरतो दिवा देवीं स्मरञ्जपेत् ‍ ।

नक्तं निधुवनाशक्तो लक्षं स स्याद् ‍ धरापतिः ॥३२॥

रक्ताम्भोजैर्हुतैर्मन्त्री धनैर्जयति वित्तपम् ‍ ।

बिलवपत्रर्भवेद् ‍ राज्यं रक्तपुष्पैर्वशीकृतिः ॥३३॥

असृजामहिषादीनां कालिकां यस्तु तर्पयेत् ‍ ।

तस्य स्युरचिरादेव करस्थाः सर्वसिद्धयः ॥३४॥

यो लक्षं प्रजपेन्मन्त्रं शवमारुह्य मन्त्रवित् ‍ ।
तस्य सिद्धो मनुः सद्यः सर्वेप्सितफलप्रदः ॥३५॥

तेनाश्वमेधप्रमुखैर्यागैरिष्टं सुजन्मना ।

दत्तं दानं तपस्तप्तमुपास्ते यस्तु कालिकाम् ‍ ॥३६॥

ब्रह्मा विष्णूः शिवो गौरी लक्ष्मीगणपती रविः ।

पूजिताः सकला देवा यः कालीं पूजयेत् ‍ सदा ॥३७॥

अथ कालीमन्त्रभेदास्तत्र एकविंशत्यर्णात्मको मन्त्रः

अथ कालीमन्त्रभेदा उच्यन्ते सिद्धिदायिनः ।

मायायुगं कूर्चयुग्मं करशान्तिविधुत्रयम् ‍ ॥३८॥

दक्षिणेकालिके पूर्वबीजानि स्युर्विलोमतः ।

एकविंशतिवर्णात्मा ताराद्यः पूर्ववद्यजिः ॥३९॥

बिल्वमूले शवारुढो वटमूले तथैव च ।

लक्षं मनुमिमं जप्त्वा सर्वसिद्धिश्वरो भवेत् ‍ ॥४०॥

चतुर्दशार्णको मन्त्रो नृसुराद्याकर्षणक्षमः

काली कूर्चं च हृल्लेखा दक्षिणेकालिके पठेत् ‍ ।

पुनबींजत्रयं वहिनवधूर्मन्वक्षरो मनुः ॥४१॥

यजनं पूर्ववत् ‍ प्रोक्तमस्य मन्त्रस्य मन्त्रिभिः ।

विशेषान्नृसुरादीनामयमाकर्षणे क्षमः ॥४२॥

द्वाविंशत्यर्णो मन्त्रः वशीकरणक्षमः

कूर्चद्वय त्रयं काल्या मायायुग्मं तु दक्षिणे ।

कालिके पूर्वबीजानि स्वाहा मन्त्रो वशीकृतौ ॥४३॥

पञ्चदशार्णमन्त्रः

मन्त्रराजे पुनः प्रोक्तं बीजसप्तकमुत्सृजेत् ‍ ।

तिथिवर्णो महामन्त्र उपास्तिः पूर्ववन्मता ॥४४॥

ब्रह्मरेफौ वामनेत्रं चन्द्रारुढं मनुर्मतः ।

एकाक्षरो महाकाल्याः सर्वसिद्धिप्रदायकः ॥४५॥

षडर्णमन्त्रः

बीजं दीर्घयुतश्चक्री पिनाकी नेत्रसंयुतः ।

क्रोधीशो भगवानन्स्वाहा षडर्णो मन्त्र ईरितः ॥४६॥

पञ्चार्णमन्त्रं सप्तार्णमन्त्रश्च

काली कूर्च तथा लज्जा त्रिवर्णो मनुरीरितः ।

हुं फडन्तश्च पञ्चार्णः स्वहान्तः सप्तवर्णकः ॥४७॥

एतेषां पूर्ववत् ‍ प्रोक्तं यजनं नारदादिभिः ।

निग्रहानुग्रहे शक्ताः कालीमन्त्राः स्मृता इमे ॥४८॥

द्वाविंशत्यर्णात्मको गायत्रीसुमुखीमन्त्रः

अथ वक्ष्ये परां विद्यां सुमुखीमतिगोपिताम् ‍ ।

यां लब्ध्वा देशिको विद्वान्न शोचति कृताकृते ॥४९॥

कर्णो द्युतिः सनयना श्वेतेशः स्याज्जरासनः ।

लक्ष्मीदीर्घन्दुसंयुक्ता नन्दीदीर्घः सदृक्क्रिया ॥५०॥

मेषः समाधवः कर्णो भृगुस्तन्द्री च सेन्धिका ।

खिदेविम वियद्दीर्घं पिशाचिनी हिमाद्रिजा ॥५१॥

नन्दजत्रितयं सर्गिद्वाविंशत्यक्षरो मनुः ।

स्मृता भैरवगायत्री सुमुखीमुनिपूर्विका ॥५२॥

मुनिरामद्विषटचन्द्रे वहनयर्णैरङुकं मनोः ।

विन्यस्य सुमुखीं ध्यायेद् ‍ भक्तचित्ताम्बुजस्थिताम् ‍ ॥५३॥

गुञ्जानिर्मितहारभूषितकुचां सद्यौवनोल्लासिनीं

हस्ताभ्यां नृकपालखड्‌गलतिके रम्ये मुदा बिभ्रतीम् ‍ ।

रक्तालंकृतिवस्त्रलेपनलसद्देहप्रभां ध्यायतां

नृणां श्रीसुमुखीं शवासनगताम स्युः सर्वदा सम्पदः ॥५४॥

मन्त्रसिद्धेर्विधानम् ‍

लक्षमेकं जपेन्मन्त्रं दशांशं किंशुकोद्‌भवैः ।

पुष्पैः समिद्वरैर्वापि जुहुयान्मन्त्रसिद्धये ॥५५॥

कालीपीठे यजेद् ‍ देवीं पञ्चकोणाढ्यकर्णिके ।

अष्टपत्रे षोडशाब्जे वृत्तं भूपुरसंयुते ॥५६॥

मूलेन मूर्तिं संकल्प्य पाद्यादीनि प्रकल्पयेत् ‍ ।
चन्द्रां चन्द्राननां चारुमुखीं चामीकरप्रभाम् ‍ ॥५७॥

चतुरां पञ्चकोणेषु केसरेष्वङुदेवताः ।

ब्राह्मयाद्या अष्टपत्रेषु षोडशारे कलादिकाः ॥५८॥

कला कलानिधिः काली कमला च क्रिया कृपा ।

कुला कुलीना कल्याणी कुमारी कलभाषिणी ॥५९॥

करालाख्या किशोरी च कोमला कुलभूषणा ।

कल्पदा भूपुरे पूज्या इन्द्राद्या हेतयोऽपि च ॥६०॥

इत्थं जपादिभिः सिद्धे मनौ काम्यानि साधयेत् ‍ ।

भुक्त्वौदनमनाचम्य जपेन्मन्त्रमनन्यधीः ॥६१॥

प्रयोगफलकथनम् ‍

उच्छिष्टोऽयुतमेकं यः स भवेत् ‍ सम्पदां पदम् ‍ ।

उच्छिष्टेनैव भक्तेन बलिं दद्यान्निरन्तरम् ‍ ॥६२॥

दध्नाभ्यकैः प्रजुहुयाल्लक्षं सिद्धार्थतण्डुलैः ।

राजानो मन्त्रिणस्तस्य भवन्ति वशगाः क्षणात् ‍ ॥६३॥

शास्त्राणि वशगानि स्युर्हुतान्मार्जारमांसतः ।

धनर्द्धिश्छागमांसेन विद्याप्राप्तिस्तु पायसैः ॥६४॥

मधुपायससंयुक्तस्त्रीजोयुक्तवाससा ।

होममाचरतः पुंसो जनतावशवर्तिनी ॥६५॥

मधुसर्पिर्युतैर्नागवल्लीपत्रैर्महाश्रियः ।

सद्यो निहतमार्जारमांसेन मधुसर्पिषा ॥६६॥

युक्तेनान्त्यकेशाद्यैर्हुतैराकर्षति स्त्रियः ।
मध्वक्तशशमांसेन तत्फलं विद्यया सह ॥६७॥

उन्मत्ततरुभिर्दीप्ते चिताग्नौ जुहुयाच्छदैः ।

कोकिला काकयोर्मन्त्रीमाचरेदचिरादरीन् ‍ ॥६८॥

वायसोलूकयोः पत्रैर्होमाद्विद्वेषयेदरीन् ‍ ।

गर्भपातः सगर्भाणामुलूकच्छदनैर्भवेत् ‍ ॥६९॥

आज्याक्तैर्बिल्वपत्रैर्यो मासमेकं सहस्त्रकम् ‍ ।

प्रत्यहं जुहुयात्तेन बन्ध्यापि लभते सुतम् ‍ ॥७०॥

सौभाग्यार्थं दुर्भगाया बन्धूककुसुमैर्नवैः ।

मधुनाक्तैः प्रजुहुयात् ‍ स्त्रीणामाकृष्टयेर्पितैः ॥७१॥

निर्जने सदनेऽरण्ये प्रेतावासे चतुष्पथे ।

बलिं दत्वा प्रजपतः सहस्त्रं चाष्टसंयुतम् ‍ ॥७२॥

उच्छिष्टस्य च सा देवी प्रत्यक्षा जायतेऽचिरात् ‍ ।

यत्र नोक्ता होमसंख्यायुतं तत्र विनिर्दिशेत् ‍ ॥७३॥

वाममार्गेण सुमुखी शीघ्रं कामविधायिनी ।

भोजनान्ते तथोच्छिष्टैर्जप्या सा स्वेष्टसिद्धये ॥७४॥

न शीघ्र फलदा देवी सुमुखी सदृषी परा ।

यस्या मन्त्रजपादेव प्रसिध्यन्ति मनोरथाः ॥७५॥

॥ इति श्रीमन्महीधरविरचिते मन्त्रमहोदधौ कालीसुमुखीमन्त्रोक्तिस्तृतीयस्त रङ्गः ॥३॥

॥ इति श्रीमन्महीधरविरचित मन्त्रमहोदधिव्याख्यायां नौकायां कालीमन्त्रकथनं नाम तृतीयस्त रङ्गः ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-11T04:44:47.3670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

electronic cascade shower

  • Nucleonics सोपानी इलेक्ट्रॉन वर्षण 
RANDOM WORD

Did you know?

मूल जन्मानंतर पांचव्या दिवशी सटवाई पूजन करतात, ते काय आहे?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site