मन्त्रमहोदधिः - सप्तमः तरङ्गः

श्रीमन्महीधर भट्ट ने स्वयं इस ग्रंथ में शान्ति , वश्य , स्तम्भन , विद्वेषण , उच्चाटण और मारण की विधि बताई है ।


अथ सप्तमः तरङ्गः

अथ सर्वेष्टसंसिद्धये प्रवक्ष्ये वटयक्षिणीम् ‍ ।

सर्वेष्टसिद्धिदोवट्यक्षिणीमन्त्रः

पद्‍मनाभो वियद्वायूझिण्टीशस्थौ सदृग्वियत् ‍ ॥१॥

यक्षि यक्षि महायक्षि वटतोयं सनासिकम् ‍ ।

क्षनिवासिनि शीघ्रं मे सर्वसौख्यं कुरुद्वयम् ‍ ॥२॥

स्वाहा द्वात्रिंशदर्णोऽयं मन्त्रोऽखिलसमृद्धिदः ।

ऋषिः स्याद्विश्रावश्छन्दोऽनुष्टुब्देवीं तु यक्षिणी ॥३॥

षडड्‌गन्यासोऽङ्गन्यासश्च

वहिनभिः श्रुतिभिर्वेदैर्वसुभिः सप्तभी रसैः ।

प्रकुर्वीत षडङानि मन्त्रवर्णान्न्यसेत्तनौ ॥४॥

मस्तके नेत्रयोर्वक्त्रे नासाकर्णांसयुग्मतः ।

स्तनयोः पार्श्वयोर्द्वन्द्वे हृदि नाभौ शिवोदरे ॥५॥

कट्‌यूरुनाभिर्जङ्‌घासु जानुनोर्मणिबन्धयोः ।

हस्तयोर्मूर्ध्नि विन्यस्य ध्यायेद् ‍ देवीं वटस्थिताम् ‍ ॥६॥

ध्यानजपहोमावरणदेवतादिकथनम् ‍

अरुणचन्द्रनवस्त्रविभूषितां सजलतोयतुल्यतनूरुचम् ‍ ।

स्मरकुरङ्गदृशं वटयाक्षिणीं क्रमुकनागलतादलयुक्कराम् ‍ ॥७॥

लक्षदयं जपेन्मन्त्रं बन्धूकैस्तद्‌दशांशतः ।

हुत्वा पीठे यजेद्‌देवीमुच्यन्ते पीठशक्तयः ॥८॥

कामदामानदानक्तामधुरा मधुरानना ।

नर्मदाभोगदानन्दाप्राणदा पीठशक्तयः ॥९॥

मनोहराय यक्षिण्या योगपीठाय हृन्मनुः ।

पीठस्योक्तस्तत्र देवीं पूजयेद्वटयक्षिणीम् ‍ ॥१०॥

कर्णिकायां षडङ्गानि पत्रेष्वेता यजेत्पुतः ।

सुनन्दाचन्द्रिकाहासा सुलापामदविहवला ॥११॥

आमोदा च प्रमोदापि वसुदेत्यष्टशक्तयः ।

इन्द्रादीनथ वज्रादीन् ‍ सम्पूज्य लभते सुखम् ‍ ॥१२॥

एवमाराधितो मन्त्रः प्रयोगेषु क्षमो भवेत् ‍ ।

देव्याः प्रत्यक्षदर्शनादिफलकथनम् ‍

निर्मनुष्ये वने गत्वा न्यग्रोधाधस्तले जपेत् ‍ ॥१३॥

प्रतिघस्रं तमस्विन्यां सहस्रं नियतेन्द्रियः ।

सप्तमे दिवसे प्राप्ते कृत्वा चन्दनमण्डलम् ‍ ॥१४॥

तत्राज्यदीपं कृत्वास्मिन्पूजयेद्वटयाक्षिणीम् ‍ ।

तदग्रे प्रजमेन्मन्त्रमानिशीथं समाहितः ॥१५॥

श्रृणोति नूपुरारावं मन्त्रीगीतध्वनिं ततः ।

श्रुत्वैव प्रजपेन्मन्त्रं वीतत्रासश्च तां स्मरेत् ‍ ॥१६॥

ततः प्रत्यक्षतो देवीमीक्षते सुरतार्थिनीम् ‍ ।

तत्कामपूरणात् ‍ सा तु ददातीष्टानि मन्त्रिणे ॥१७॥

किं बहूक्तेन सर्वेष्टपूरणीवटयक्षिणी ।

सर्वसौख्यप्रदोऽपरो यक्षिणीमन्त्रः

पद्‌माद्वयं यक्षिणीति सचन्द्रं गगनत्रयम् ‍ ॥१८॥

वैश्वानरप्रियान्तोऽयं दशवर्णो मनुर्मतः ।

ऋषिः पूर्वोदितश्छन्दः पंक्तिर्देवो तु यक्षिणी ॥१९॥

चन्द्रैकत्रित्रियुग्मेन सर्वेणाङ्गाक्रिया मता ।

स्मरेच्चम्पककान्तारे रत्नसिंहासनस्थिताम् ‍ ॥२०॥

सुवर्णप्रभां रत्नभूषाभिरामां जपापुष्पसच्छायवासो युगाढ्याम् ‍ ।

चतुर्दिक्षु दासीगणैः सेवितांघ्रि भजे सर्वसौख्यप्रदाम यक्षिणीं ताम् ‍ ॥२१॥

एवं ध्यात्वा जपेल्लक्षं जपापुष्पैर्दशांशतः ।

जुहुयात् ‍ पूर्ववत् ‍ पीठे पूर्वोक्ते प्रयजेदिमाम् ‍ ॥२२॥

भूमिगतनिधिदर्शनदो मेखलायक्षिणीमन्त्रः

क्रोधीशवहनीमन्विन्दुयुक्तौ मदनमेखले ।

हृदयाग्निप्रियान्तोऽयं ताराद्यो द्वादशाक्षरः ॥२३॥

अस्येज्यापूर्ववत्सर्वा मेखलायक्षिणी त्वियम् ‍ ।

चतुर्दशाहपर्यन्तं मधूकावनिरुट्‌तले ॥२४॥

प्रजपेदयुतं नित्यं सहस्त्रं हवनं चरेत् ‍ ।

मधूकपुष्पैर्मध्वक्तैस्तत्काष्ठैश्च हुताशने ॥२५॥

सन्तुष्टैवं कृते देवी प्रयच्छेदञ्जनं शुभम् ‍ ।

येनाक्तनयनो मन्त्री निधिं पश्येद्‌धरागतम् ‍ ॥२६॥

रोगनाशको विशालायक्षिणीमन्त्रः

प्रणवो वाग्विशाले च माया पद‌मा मनोभव ।

ठद्वयान्तो दशार्णोऽयं विशालायक्षिणी मनुः ॥२७॥

मुन्यादि पूजापर्यन्तं पूर्ववत्समुदीरितम् ‍ ।

चिन्तातरोरधःस्थित्वा शुचिर्लक्षं जपेन्मनुः ॥२८॥

शतपत्रैर्दशांशेन जुहुयात्तोषिता ततः ।

रसं ददाति येनासौ नीरोगायुरवाप्नुयात् ‍ ॥२९॥

वाराहीमन्त्र शत्रुनिग्रहकरः

वाक्चन्द्रशेखरौ शार्ङी पिनाकीशौ मनुस्थितौ ।

लाङुलित्रितयं सेन्दुवर्मदीर्घं शुचिप्रिया ॥३०॥

वस्वक्षरमनोः शत्रुघातिनः कपिलो मुनिः ।

छन्दोऽनुष्टुप् ‍ च वाराहीवार्तादेवतोदिता ॥३१॥

द्विचन्द्रभूमिचन्द्रैकयुग्मार्णैरङ्गकल्पना ।

वाराहीं चेतसि ध्यायेच्छत्रुनिग्रहकारिणीम् ‍ ॥३२॥

वाराहीध्यानम् ‍

विद्युद्रोचिर्हस्तपद्‌मैर्दधाना पाशं शक्तिं मुद्‌गरं चाङ्ग्‌कुशं च ।

नेत्रोद्‌भूतैर्वितिहोत्रैस्त्रिनेत्रा वाराही नः शत्रुवर्गं क्षिणोतु ॥३३॥

वसुलक्षं जपित्वान्ते बिल्वपत्रैर्हयारिजैः ।

धात्रीफलैर्भृङ्गराजैः कुशैर्हूयाद् ‍ दशांशतः ॥३४॥

पूर्वोदिते यजेत्पीठे षडङ्गैर्दिगिनायुधैः ।

एवं सिद्धं मनुं मन्त्री यो जपेच्छत्रुनिग्रहे ॥३५॥

सृणिना शत्रुमानीय बद्‍ध्वा पाशेन तं दृढम् ‍ ।

मुद्रगरेण ध्नतीं मूर्ध्नि तां स्मरन्नयुतं जपेत् ‍ ॥३६॥

जुहुयादयुतं शुद्धैर्वनशुष्कैस्तु गोमयैः ।

प्रक्षिपेद्धोमजं भस्मवापीकूपादिपाथसि ॥३७॥

तत्पानीयस्य पातारो भ्रियन्ते रिपवो ध्रुवम् ‍ ।

निर्यान्ति हित्वा स्थानं वा विद्विषन्तः परस्परम् ‍ ॥३८॥

शत्रुनिग्रहणे दक्षा स्मरणादपि मन्त्रिणाम् ‍ ।

प्रकीर्तितयं वाराही धूमावत्यधूनोच्यते ॥३९॥

धूमावतीविधाने धूमावत्यष्टार्णमन्त्रः

सात्वतत्रितयं सार्घि तत्राद्यौ चन्द्रशेखरौ ।

बैकुण्ठोनन्तसंयुक्तो जलं नेत्रयुतो हरिः ॥४०॥

अष्टोर्णो वहिनजायान्तो मन्त्रः शत्रुविनाशनः ।

धूमावतीमन्त्रस्यर्षिदेवतादिकथनम् ‍

पिप्पलादो निचृज्ज्येष्ठा मुनिश्छन्दोऽस्य देवता ॥४१॥

आद्यबीजद्वयान्तस्थैः षड्‌वर्णैरङ्गमीरितम् ‍ ।

श्मशाने संस्थिता ध्यायेज्ज्येष्ठां वायससंस्थिताम् ‍ ॥४२॥

अत्युच्चामलिनाम्बराखिअजनोद्वेगावहादुर्मना

रुक्षाक्षित्रितया विशालदशना सूर्योदरी चञ्चला ।

प्रस्वेदाम्बुचिताक्षुधाकुलतनुः कृष्णातिरुक्षप्रभा

ध्येया मुक्तकचा सदाप्रियकलिर्धूमावती मन्त्रिणा ॥४३॥

धूमावतीमन्त्रफलम् ‍

एवं ध्यात्वा जपेल्लक्षं श्मशाने विगताम्बरः ।

निशाभोजी दशांशेन तिलैर्हवनमाचरेत् ‍ ॥४४॥

पूर्वोक्ते पूजयेत्पीठे ज्येष्ठां शत्रुविनष्टये ।

केसरेषु षङ्ङ्गनि पत्रस्था अष्टशक्तयः ॥४५॥

क्षुधातृष्णारतिर्निद्रानिऋतिर्दुर्गतीरुषा ।

अक्षमेति ततो देवा इन्द्राद्या आयुधानि च ॥४६॥

एवं ज्येष्ठां समाराध्य सिद्धमन्त्रः प्रजायते ।

उपोष्य कृष्णभूताहे नग्नो मुक्तशिरोरुहः ॥४७॥

शून्यागारे श्मशाने वा कान्तारे भूधरऽथवा ।

प्रत्यहं प्रजपेन्निर्भीर्ध्यायन्देवीं क्षपाशनः ॥४८॥

एवं लक्षं जपन्मन्त्रीं नाशयेदचिरादरिम् ‍ ।

जुहवता लवणोपेतां राजिकां निशि तत्फलम् ‍ ॥४९॥

कर्णपिशाचिनीमस्तद्विधानवर्णनम् ‍

तारो मायाकर्णिपिशा सदृशौ कूर्मधान्तिमौ ।

कर्णे मे विधिदण्डीरो ठद्वयं षोडशार्णकम् ‍ ॥५०॥

मनुऋष्यादिपूर्वोक्तं देवता तु पिशाचिनी ।

एकैकाङ्गन्गिरामाक्षिवर्णैरङ मनो मतम् ‍ ॥५१॥

चितासनस्थां नरमुण्डमालां विभूषितामस्थिणीन्कराब्जैः ।

प्रेतां नरान्त्रैर्दधतीं कुवस्त्रां भजामहे कर्णपिशाचिनीं ताम् ‍ ॥५२॥

श्मशानस्थः शवस्थो वा जपेल्लक्षं समाहितः ।

द्शांशं जुहुयाद्वहनौ बिभीतकसमिद्वरैः ॥५३॥

यजेत् ‍ पूर्वोदिते पीठे षडङ्गमरहेतिभिः ।

सिद्धमन्त्रे जपं कुर्यादधस्ताद् ‍ बदरोतरोः ॥५४॥

अशुचिर्लक्षसंख्यातं तेन तुष्टा पिशाचिनी ।

परचित्तस्थितां वार्तां भाविनीं च वदेच्छुतौ ॥५५॥

शीतलामन्त्रस्तद्विधानवर्णनम् ‍

ध्रुवः शिवारमाशीतलायै हार्द नवाक्षरः ।

उपमन्युश्च बृहतीं शीतला मुनिपूर्विका ।

षड्‍दीर्घयुक्छिवालक्ष्मीर्बीजाभ्यां स्यात्षडङ्गकम् ‍ ॥५६॥

दिग्वाससं मार्जनिका च शूर्पं करद्वये सन्दधतीं घनाभाम् ‍ ।

श्रीशीतलां सर्वरुजार्तिनष्टौ रक्ताङ्गरागस्रजमर्चयामि ॥५७॥

अयुतं प्रजपेन्मन्त्रं पायसेन सहस्रकम् ‍ ।

जुहुयात्पूर्ववत्पीठे स्फोटानां नाशिनी त्वियम् ‍ ॥५८॥

नाभिपात्रे जले स्थित्वा यः सहस्रं जपेन्मनुम् ‍ ।

तेन सम्मार्जितास्तीव्राः स्फोटा नश्यन्ति तत्क्षणात् ‍ ॥५९॥

स्वप्नेश्वरीमन्त्रस्तद्विधानवर्णनम् ‍

प्रणवः कमला स्वप्नेश्वरिकार्यं च मे वद ।

स्वाहा त्रयोदशार्णोऽयं मन्त्रो मुन्यादिपूर्ववत् ‍ ॥६०॥

अक्षिवेदाक्षिभूयुग्मनेत्रार्णैरङ्गकं मनोः ।

विन्यस्य देवतां ध्यायेत्स्वप्नेशीमिष्टसिद्धये ॥६१॥

वराभयेपद्‌मयुगं दधानां करैश्चतुर्भिः कनकासनस्थाम् ‍ ।

सिताम्बरां शारदचन्द्रकान्तिं स्वप्नेश्वरीं नौमि विभूषणाढ्याम् ‍ ॥६२॥

लक्षं जपेद्‌बिल्वपत्रैर्जुहुयात्तद्‌दशांशतः ।

पूर्वोदिते यजेत्पीठे षडङ्गत्रिदशायुधैः ॥६३॥

रात्रौ सम्पूज्य देवेशीमयुतं पुरतो जपेत् ‍ ।

शयीतब्रह्मचर्येण भूमौ दर्भास्थिताजिनैः ॥६४॥

देव्यै निवेद्य स्वहार्दं सा स्वप्ने वदति ध्रुवम् ‍ ।

यक्षिण्याद्या इति प्रोच्य मातङ्गी गद्यतेऽधुना ॥६५॥

मातङीमन्त्रविधानवर्णनम् ‍

तारो मायाच वाग्लक्ष्मीहृन्निद्रास्मृतिलान्तिमाः ।

सनेत्रो हरिरुच्छिष्टचाण्डानेत्रयुता क्रिया ॥६६॥

श्रीमातङ्गेश्वरिपदं सर्वशूलीनलान्तशम् ‍ ।

करिवहिनप्रियामन्त्रो द्वात्रिंशद्वर्णवानयम् ‍ ॥६७॥

मतङ्गो मुनिरस्योक्तोऽनुष्टुप्छन्दस्तु देवता ।

मातङ्गीसर्वजनता वशीकरणतत्परा ॥६८॥

चतुर्भिः षड्‌भिरङ्गैश्च षडष्टनयनैरपि ।

मन्त्रोऽस्य वर्णैरङगानि न्यस्य देवीं विचिन्तयेत् ‍ ॥६९॥

घनश्यामलांङ्गी स्थितां रत्नपीठे शुकस्योदितं श्रृण्वतीं रक्तवस्त्राम् ‍ ।

सुरापानमत्तां सरोजस्थितां श्रीं भजे वल्लकीं वादयन्तीं मतङ्गीम् ‍ ॥७०॥

जपोयुतं सहस्रं तु होमः पुष्पैर्मधूकजैः ।

मध्वक्तैः पूजयेत्पीठे वक्ष्यमाण विधानतः ॥७१॥

त्रिकोणाष्टदलद्वन्द्वं कलास्त्रचतुरस्त्रकम् ‍ ।

पीठं कृत्वा यजेत्तस्मिन्पीठशक्तिर्नवेष्टदाः ॥७२॥

विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिश्च सन्नतिः ।

व्युष्टिरुत्कृष्टिऋद्धी च मातंग्यताः समीरिताः ॥७३॥

पीठमन्त्रपीठपूजाविधिवर्णनम् ‍

सर्वशक्तिकमस्यान्ते लासनायहृदयान्तिकः ।

तारमायावाग्रमाद्यः पीठमन्त्रः कलार्णकः ॥७४॥

विश्राण्यासनमेतेन पाद्यादीने प्रकल्पयेत् ‍ ।

मूलेन पुष्पपूजान्ते कुर्यादावरनार्चनम् ‍ ॥७५॥

त्रिकोणेष्वर्चयेत् ‍ तिस्रो रतिप्रीतिमनोभवाः ।

केसरेषु षडङ्गानि मातृश्च दलमध्यगाः ॥७६॥

द्वितीयेऽष्टदले पूज्या असिताङ्गादिभैरवाः ।

षोडशाख्ये तु वामाख्या ज्येष्ठरौद्रीप्रशान्तिका ॥७७॥

श्रद्धामाहेश्वरी चापि क्रियाशक्तिश्च सप्तमी ।

सुलक्ष्मीः सृष्टिमोहिन्यौ प्रमथाश्वासिनी तथा ॥७८॥

विद्युल्लता च चिच्छक्तिः सुन्दरीनन्दया सह ।

नन्दबुद्धिः षोडशी तु पूजनीयाः प्रयत्नतः ॥७९॥

चतुरस्त्रे चतुर्दिक्षु मातङ्गी सामहादिका ।

महालक्ष्मीस्तथासिद्धं पुनर्वहन्यादिकोणतः ॥८०॥

विघ्नेश दुर्गाबटुकक्षेत्रेशादिग्धवास्ततः ।

वज्राद्याः पूजनीयाः स्युरित्थं सिद्धिर्मनोर्भवेत् ‍ ॥८१॥

ध्रुवं भवानी वाग्बीजं रमामादौ प्रयोजयेत् ‍ ।

सर्वावरणदेवानां मातङ्गीपदमन्ततः ॥८२॥

मल्लिकाकुसुमैर्होमाद् ‍ भोगो राज्यं च बिल्वजैः ।

पत्रै फलैर्वा वश्यास्याज्जनताब्रह्मवृक्षजैः ॥८३॥

रोगनाशोमृशामृताखण्डैर्निम्बैः श्रीस्तण्डुलैरपि ।

आकृष्टिर्लवर्णौर्विद्यात्तगरैर्वेतसैर्जलम् ‍ ॥८४॥

लवर्णैर्निम्बतैलाक्तैः शत्रुनाशोऽन्धसाशनम् ‍ ।

निशाचूर्णयुतैर्लोणैर्होमात्स्यात्स्तम्भनं नृणाम् ‍ ॥८५॥

रक्तचन्दनकर्चूरमांसीकुंकुमरोचनाः ।

चन्दनागुरुकर्पूरैर्गन्धाष्टकमुदीरितम् ‍ ॥८६॥

एतद्धोमाज्जगद्वश्यं जायते मन्त्रिणो ध्रुवम् ‍ ।

एतत्पिष्टवा ‍ शतं जप्त्वा तिलकेन जगत्प्रियः ॥८७॥

कदलीफलहोमेन सर्वेष्टं समवाप्नुयात् ‍ ।

किंबहूक्तेन मातङ्गी पूजिता कामदा नृणाम् ‍ ॥८८॥

मध्वक्तलोणरचिताम पुत्तलीं दक्षिणांघ्रितः ।

हूयादष्टोत्तरशतं खादिराग्नौ वशं निशि ॥८९॥

शालिपिष्टमयीं तां तु भक्षयेत्स्त्रीवशीकृतो ।

कृष्णभूतनिशि ध्वाङ्ग्‍क्षोदरे क्षिप्त्वा समुद्रजम् ‍ ॥९०॥

नीलसूत्रेण संवेष्टय् ‍ चिताग्नौ प्रदहेदमुम् ‍ ।

सहस्रजप्तं तद्‌भस्मं यस्मै दद्यात् ‍ स दासवत् ‍ ॥९१॥

बाणेशीमन्त्रस्तद्विधानवर्णनम् ‍

सत्योऽग्नियुक्तोऽनन्तेन्दुसंयुक्तं बीजमादिमम् ‍ ।

एतस्यानन्तसंस्थाने शान्तियुक्तो द्वितीयकम् ‍ ॥९२॥

ब्रह्मेन्द्रशान्तिबिन्द्वाढ्यस्तृतीयं बीजमीरितम् ‍ ।

भूधरो वसुधोर्घीशचन्द्राढ्यस्तत्तुरीयकम् ‍ ॥९३॥

सर्गी हंसः पञ्चमः स्यात् ‍ पञ्चबीजात्मको मनुः ।

ऋषिः सम्मोहनश्छन्दो गायत्रीदेवता पुनः ॥९४॥

बाणेशी व्यस्तवर्णेन मन्त्रेणोक्तं षडङ्गकम् ‍ ।

मूर्ध्नि पादे मुखे गुह्ये हृदये पञ्चदेवताः ॥९५॥

न्यस्तव्याः पञ्चबीजाद्या द्राविणीक्षोभिणी पुनः ।

वशीकरण्याकर्षण्यौ सम्मोहिन्यपि पञ्चमी ॥९६॥

बाणेशीध्यानम् ‍

उद्यद्‌भास्वत्सन्निभा रक्तवस्त्रा नानारत्नालंकृताङ्गी वहन्ती ।

हस्तैः पाशं चांकुशं चापबाणौ बाणेशी नः कामपूर्तिं विद्यत्ताम् ‍ ॥९७॥

एवं ध्यात्वा जपेल्लक्षपञ्चकं तद्‌दशांशतः ।

हुत्वा बाणेश्वरी देवीं पूजयेद्विधिपूर्वकम् ‍ ॥९८॥

मोहिनीक्षोभोणीत्रासीस्तम्भिन्याकर्षिणी तथा ।

द्राविण्याहलादिनी क्लिन्नाक्लेदिनीपीठशक्तयः ॥९९॥

बाणेशी योगपीठाय नमो मूलादिको मनुः ।

दत्त्वा तेनासनं मन्त्री तस्मिन्देवीं प्रपूजयेत् ‍ ॥१००॥

आदौ षडङ्गान्याराध्य दिक्ष्वग्रे द्राविणीमुखा ।

दलेष्वनङ्गरुपा स्यादनङ्गमदना तथा ॥१०१॥

अनङ्गमन्मथानङ्गकुसुमामदनापरा ।

अनङ्गाद्या तथानङ्गशिशिरानङ्गमेखला ॥१०२॥

अनङ्गदीपिकेत्यष्टौय शक्राद्या आयुधान्यपि ।

एवं सिद्धं मनुं मन्त्री काम्येषु विनियोजयेत् ‍ ॥१०३॥

दधियुक्तैरशोकस्य पुष्पैर्यो दिवसत्रयम् ‍ ।

सहस्रं जुहुयात्तस्य वश्याः स्युः प्राणिनोऽखिलाः ॥१०४॥

लाजैर्दधियुतैर्होमान् ‍ मन्त्री कन्यामवाप्नुयात् ‍ ।

कन्यापि वरमाप्नोति मासद्वितयमध्यतः ॥१०५॥

गव्याज्येन ससम्पातं हुत्वा साऽष्टशतं नरः ।

आज्यं सम्पातितं दद्यात्स्त्रियै विश्राणितश्रियै ॥१०६॥

सा तदाज्यं निजं कान्तं भोजयित्वा वशं नयेत् ‍ ।

सुगन्धकुसुमैर्हुत्वा धनमाप्नोति वाञ्छितम् ‍ ॥१०७॥

कामेशीमन्त्रस्तद्विधानवर्णनम् ‍

मायामन्मथावाग्बीजे ब्लूं स्त्रीं पञ्चाक्षरो मनुः ।

ऋषिश्छन्दश्च पूर्वोक्ते कामेशीदेवतास्मृता ॥१०८॥

कामेशीध्यानम् ‍

पाशांकुशाविक्षुशरासबाणौ करैर्वहन्तीमरुणांशुकाढ्यम् ‍ ।

उद्यत्पतङगाभिरुचिं मनोज्ञां कामेश्वरीं रत्नचितां प्रणौमि ॥१०९॥

भूतलक्षं जपित्वैनामर्धलक्षं पलाशजैः ।

कुसुमैर्जुहुयात्पीठे पूर्वोक्ते पूजयेदिमाम् ‍ ॥११०॥

आदावङ्गानि सम्पूज्य दिक्षु मध्ये मनोभवम् ‍ ।

मकर्ध्वजकन्दर्पो मन्मथं कामदेवकम् ‍ ॥१११॥

ततो हयनङ्गरुपाद्यां इन्द्राद्यस्त्राणि तद्‌बहिः ।

एवं सिद्धमनुर्मन्त्री पूर्वोक्तं योगमाचरेत् ‍ ॥११२॥

इति श्रीमन्महीधरविरचिते मन्त्रमहोदधौ यक्षिण्यादिमन्त्रकथनं नाम सप्तमस्तरङ्गः ॥७॥

इति श्रीमन्महीधरविरचितायां मन्त्रमहोदधिव्याख्यायां नौकायां यक्षिण्यादिकथनं नाम सप्तमस्तरङ्गः ॥७॥

N/A

References : N/A
Last Updated : June 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP