TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मन्त्रमहोदधिः - षष्ठः तरङ्गः

श्रीमन्महीधर भट्ट ने स्वयं इस ग्रंथ में शान्ति , वश्य , स्तम्भन , विद्वेषण , उच्चाटण और मारण की विधि बताई है ।


षष्ठः तरङ्गः

छिन्नमस्तामनुं वक्ष्ये शीघ्रसिद्धिविधायिनम् ‍ ।

छिन्नमस्तामन्त्रः

पद्मासनशिवायुग्मं भौतिकः शशिशेखरः ॥१॥

वज्रवैरोचनीपद्मनाभयुतः सदागतिः ।

मायायुगास्त्रदहनप्रियान्तः प्रणवादिकः ॥२॥

मन्त्रः सप्तदशार्णोऽयं भैरवोऽस्य मुनिर्मतः ।

सम्राट्‌छन्दाश्छिन्नमस्ता देवताभुवनेश्वरी ॥३॥

आं खड्‌गाय हृदाख्यातमीं खड्‌गाय शिरः स्मृतम् ‍ ।

ॐ वज्राय शिखा प्रोक्ता ऐं पाशाय तनुच्छदम् ‍ ॥४॥

ओमंकुशाय नेत्रं स्याद् ‍ विसर्गो वसुरक्षयुक् ‍ ।

मायायुग्मं चास्त्रमङुमनवः प्रणवादिकाः ।

स्वाहान्ताः प्रोदिता एवमङे विन्यस्य तां स्मरेत् ‍ ॥५॥

ध्यानवर्णनम् ‍

भास्वन्मन्डलमध्यगां निजशिरश्छिन्नं विकीर्णालकं

स्फारास्यं प्रपिबद् ‍ गलात् ‍ स्वरुधिरं वामे करे बिभ्रतीम् ‍ ।

याभासक्ततिस्मरोपरिगतां सख्यौ निजे डाकिनी

वर्णिन्यौ परिदृश्यमोदकलितां श्रीछिन्नमस्तां भजे ॥६॥

अस्य मन्त्रस्य प्रयोगकथनम् ‍

ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः ।

पालाशैर्बिल्वजैर्वापि जुहुयात् ‍ कुसुमैः फलैः ॥७॥

पीठस्थनदेवताकथनं पूजाविधिश्च

आधारशक्तिमारभ्य परतत्त्वान्तपूजिते ।

पीठे जयाख्याविजयाऽजिता चाप्यपराजिता ॥८॥

नित्याविलासिनी षष्ठी दोग्ध्र्यघोरा च मङुला ।

दिक्षु मध्ये च सम्पूज्या नवपीठस्य शक्तयः ॥९॥

पीठमन्त्रः शिवापूजनविधिरावर्नदेवताश्च

सर्वबुद्धिप्रदे वर्णनीये सर्वभृगुःसदृक् ‍ ।

द्धिप्रदे डाकिनीये च तारो वज्रसभौतिकः ॥१०॥

खड्‍गीशो रोचनीये च भगं ह्येहि नमोऽन्तिकः ।

तारादिः पीठमन्त्रोऽयं वेदरामाक्षरो मतः ॥११॥

समर्प्यासनमेतेन तत्र सम्पूजयोच्छिवाम् ‍ ।

त्रिकोणमध्यषट्‌कोणपद्मभूपुरमध्यतः ॥१२॥

बाह्यवरणमारभ्य पूजयेत् ‍ प्रतिलोमतः ।

भूपुराद् ‍ बाह्यभागेषु वज्रादिनि प्रपूजयेत् ‍ ॥१३॥

तदन्तः सुरराजादीन् ‍ पूजयेद्धरितां पतीन् ‍ ।

भूपुरस्य चतुर्द्वार्षु द्वारपालान् ‍ यजेदथ ॥१४॥

करालविकरालाख्यावतिकालस्तृतीयकः ।

महाकालश्चतुर्थः स्यादथ पद्मेष्टशक्तयः ॥१५॥

एकलिङा योगिनी च डाकिनी भैरवी तथा ।

महाभैरविकेन्द्राक्षी त्वसिताङी तु सप्तमी ॥१६॥

संहारिण्यष्टमी चेति षट्‌कोणेष्वङुमूर्तयः ।

त्रिकोणगच्छिन्नमस्ता पार्श्वयोस्तु सखीद्वयम् ‍ ॥१७॥

डाकिनीवर्णिनीसंज्ञे तारवाग्भ्यां प्रपूजयेत् ‍ ।

एवं पोजादिभिः सिद्धे मन्त्रे मन्त्री मनोरथान् ‍ ॥१८॥

अस्य विधानस्य नानसिद्धिकथनम् ‍

प्राप्नुयान् ‍ निखिलान् ‍ सद्यो दुर्लभांस्तत्प्रसादतः ।

श्रीपुष्पैर्लभते लक्ष्मीं तत्फलं स्वसमीहितम् ‍ ॥१९॥

वाक्‌सिद्धिं मालतीपुष्पैश्चम्पकैर्हवनात् ‍ सुखम् ‍ ।

घृताक्तं छागमांसं यो जुहुयात् ‍ प्रत्यहं शतम् ‍ ॥२०॥

मासमेकं तु वशगास्तस्य स्युः सर्वपार्थिवाः ।

करवीरस्य कुसुमैः श्वेतैर्लक्षं जुहोति यः ॥२१॥

रोगजालं पराभूय सुखीजीवेच्छतं समाः ।

रक्तैस्तत्संख्यया हुत्वा वशयेन्मन्त्रिणो नृपान् ‍ ॥२२॥

फलैर्हुत्वाप्नुयाल्लक्ष्मीमुदुम्बरपलाशजैः ।

गोमायुमांसैस्तामेव कविता पायसान्धसा ॥२३॥

बन्धूककुसुमैर्भाग्य कर्णिकारैः समीहितम् ‍ ।

तिलतण्डुलहोमेन वशयेन्निखिलञ्जनान् ‍ ॥२४॥

नारीरजोभिराकृष्टिमृगमांसैः समीहितम् ‍ ।

स्तम्भनं माहिषैर्मासैः सघृतैरपि ॥२५॥

चिताग्नौ परभृत्पक्षैर्जुहुयादरिमृत्यवे ।

उन्मत्तकाष्ठदीप्तेऽग्नौ तत्फलं वायसच्छदैः ॥२६॥

द्यूते वने नृपद्वारे समरे वैरिसंकटे ।

विजयं लभते मन्त्री ध्यायन्देवीं जपेन्मनुम् ‍ ॥२७॥

भुक्तौ मुक्तौ सितां ध्यायेदुच्चाटे नीलरोचिषम् ‍ ।

रक्तां वश्ये मृतो धूम्रांस्तम्भने कनकप्रभाम् ‍ ॥२८॥

निशि दद्याद् ‌ बलिं तस्यै सिद्धये मदिरादिना ।

गोपनीयः प्रयोगोऽथ प्रोच्यते सर्वसिद्धिदः ॥२९॥

भूताहे कृष्णपक्षस्य मध्यरात्रे तमो घने ।

स्नात्वा रक्ताम्बरधरो रक्तमाल्यानुलेपनः ॥३०॥

आनीय पूजयेन्नारीं छिन्नमस्तास्वरुपिणीम् ‍ ।

सुन्दरीं यौवनाक्रान्ताम नरपञ्चकगामिनीम् ‍ ॥३१॥

सस्मितां मुक्तकबरीं भूषादानप्रतोषिताम् ‍ ।

विवस्त्रां पूजयित्वैनामयुतं प्रजपेन्मनुम् ‍ ॥३२॥

बलिं दत्वा निशां नीत्वा सम्प्रेष्य धनतोषिताम् ‍ ।

भोजयेद् ‍ विविधैरन्नैर्ब्राह्मणान् ‍ देवताधिया ॥३३॥

अनेन विधिना लक्ष्मीं पुत्रान् ‍ पौत्रान् ‍ यशः सुखम् ‍ ।

नारीमायुश्चिरं धर्ममिष्टमन्यदवाप्नुयात् ‍ ॥३४॥

तस्यां रात्रौ व्रतं कार्य विद्याकामेन मन्त्रिणा ।

मनोरथेषु चान्येषु गच्छेत्ताम् ‍ प्रजपन्मनुम् ‍ ॥३५॥

किंबहूक्तेन विद्याया अस्याविज्ञानमात्रतः ।

शास्त्रज्ञानं पापनाशः सर्वसौख्यं भवेद् ‍ ध्रुवम् ‍ ॥३६॥

प्रयोगान्तफलकथनम् ‍

उषस्युत्थाय शय्यायामुपविष्टो जपेच्छतम् ‍ ।

षण्मासाभ्यन्तरे मन्त्री कवित्वेन जयेत्कविम् ‍ ॥३७॥

छिन्नमस्ताया उत्कीलनम् ‍

शिवेन कीलिताविद्या तदुत्कीलनमुच्यते ।

मायां तारपुटाम मन्त्री जप्यादष्टोत्तरं शतम् ‍ ॥३८॥

मन्त्रस्यादौ तथैवान्ते भवेत्सिद्धिप्रदा तु सा ।

एष नूनं विधिर्गोप्यः सिद्धिकामेन मन्त्रिणा ॥३९॥

उदितां छिन्नमस्तेयं कलौ शीघ्रमभीष्टदा ।

रेणुकाशबरीविद्यामन्त्रः

रेणुकाशबरीविद्या तादृश्येवोच्यतेऽधुना ॥४०॥

प्रणवः कमलामायासृणिरिन्दुयुतोऽधरः ।

पञ्चाक्षरीमहाविद्या भैरवोऽस्य मुनिर्मतः ॥४१॥

पंक्तिश्छन्दो रेणुकाख्या शबरीदेवतोदिता ।

पञ्चवर्णे स्मस्तेन कुर्वीत मनुनाङुकम् ‍ ॥४२॥

ध्यानवर्णनं जपादिपूजाविधानं च

हेमाद्रिसानावुद्याने नानाद्रुममनोहरे ।

रत्नमण्डपध्यस्थवेदिकायां स्थितां स्मरेत् ‍ ॥४३॥

गुञ्जाफलाकल्पितहाररम्यां श्रुत्योःशिखण्डं शिखिनो वहन्तीम् ‍ ।

कोदण्डबाणो दधतीं कराभ्यां कटिस्थवल्कां शबरीं स्मरेयम् ‍ ॥४४॥

ध्यात्वैवं प्रजपेल्लक्षपञ्चकं तद्दशांशतः ।

फलैर्बिल्वैः प्रजुहुयातत्काष्ठैरेधितेऽनले ॥४५॥

पूर्वोदितेऽर्चयेत्पीठे षडङावृत्तिरादिमा ।

द्वितीयावरणे पूज्याः शबर्य्या अष्टशक्तयः ॥४६॥

हुङ्‌कारीखेचरी चाथ चण्डास्याच्छेदनी तथा ।

क्षेपणास्त्री च हुड्‌कारीक्षेमकारी तथाष्टमी ॥४७॥

तृतीये दशदिक्पाला वज्राद्यानि चतुर्थके ।

एवं सिद्धं मनुं सम्यक्कार्यकर्मणि योजयेत् ‍ ॥४८॥

मल्लीपुष्पैर्जनावश्या इक्षुखण्डैर्धनाप्तयः ।

पञ्चगव्यैर्धेनवः स्युरशोकककुसुमैस्सुताः ॥४९॥

इन्दीवरैः कृते होमे नृपपत्नीवशंवदा ।

अन्नाप्तिरन्नैः सकलं मधूकैर्वाञ्छितं भवेत् ‍ ॥५०॥

प्रोदिता शबरीविद्या कलौ त्वरिता सिद्धिदा ।

विवाहसिद्धिदः स्वयंवरकलामन्त्रः

अथोच्यते विवाहाप्त्ये स्वयम्वरकलाशिवा ॥५१॥

तारो माया योगिनीतिद्वयं योगेश्वरिद्वयम् ‍ ।

योगनिद्रायङ्‌करि स्यात् ‍ सकलस्थावरेति च ॥५२॥

जङुमस्य मुखं प्रोच्य हृदयं मम संपठेत् ‍ ।

वशमाकर्षयाकर्ष पवनो वहिनसुन्दरी ॥५३॥

पञ्चाशद्वर्णविद्याया मुनिरस्याः पितामहः ।

छन्दोतिजगती देवीगिरिपुत्रीस्वयम्वरा ॥५४॥

अस्य मन्त्रस्य षडङुन्यासप्रकारः

जगत्त्रयेति हृदयं त्रैलोक्येति शिरो मतम् ‍ ।

उरगेति शिखा सर्वराजेति कवचं तथा ॥५५॥

सर्वस्त्रीपुरुषेत्यक्षि सर्वेत्यस्त्रं समीरितम् ‍ ।

तारामायादिकावश्यमोहिन्यैपदपश्चिमाः ॥५६॥

षडङुमन्त्रा उद्दिष्टा मूलेन व्यापकं चरेत् ‍ ।

ध्यायेद्देवीं महादेवं वरितुं समुपागताम् ‍ ॥५७॥

ध्यानवर्णनं पूजाविधानं च

शम्भु जगन्मोहनरुपपूर्णं विलोक्य लज्जाकुलितां स्मिताढ्याम् ‍ ।

मधूकमालां स्वसखीकराभ्यां संबिभ्रतीमद्रिसुताम् ‍ भजेयम् ‍ ॥५८॥

एवं ध्यात्वा जपेल्लक्षचतुष्कं तद्दशांशतः ।

पायसान्नेन जुहुयात् ‍ पीठे पूर्वोदिते यजेत् ‍ ॥५९॥

त्रिकोणचतुरस्राङुकोणादलदिग्दलम् ‍ ।

दिक्कलादन्तपत्राणि चतुष्षष्टिदलं पुनः ॥६०॥

वृत्तत्रयं चतुर्द्वारयुक्तं धरणिकेतनम् ‍ ।

पूजायन्त्रं प्रकुर्वीत तत्र सम्पूजयोदिमाम् ‍ ॥६१॥

त्रिकोणे पार्वतीमिष्ट‍वा चतुरस्रेऽर्चयेदिमाः ।

मेधां विद्यां पुनर्लक्ष्मीं महालक्ष्मीं चतुर्थिकाम् ‍ ॥६२॥

षट्‌कोणेषु षडङानि स्वरानष्टदलेऽर्चयेत् ‍ ।

दिग्दलद्वितीये देवानिन्द्रादीनायुधानि च ॥६३॥

ताराद्येन नमोन्तेन श्रीबीजेन रमां यजेत् ‍ ।

कलापत्रे द्विरामारे पाशमायांकुशैः शिवा ॥६४॥

वेदाङुपत्रे त्रिपुटां श्रीमायामदनैर्यजेत् ‍ ।

वृत्तत्रये महालक्ष्मीं भवानीं पुष्प्सायकाम् ‍ ॥६५॥

चतुरस्रं चतुर्द्वार्षु विघ्नेट्‌क्षेत्रेशभैरवान् ‍ ।

योगिनीः पूजयेदित्थं नवावरणमर्चनम् ‍ ॥६६॥

एवं यो भजते देवीं वश्यास्तस्याखिला जनाः ।

लाजैस्त्रिमधुरोपेतैर्जुहुयादयुतं तु यः ॥६७॥

लभते वाञ्छितां कन्यां धनमानसमन्विताम् ‍ ।

एवं स्वयंवरा प्रोक्ता प्रोच्यते मधुमत्यथ ॥६८॥

मधुमतीमन्त्रः

नारायणो विन्दुयुतो हृल्लेखांकुशमन्मथा ।

दीर्घवर्मध्रुवो वहिनप्रेयसी वसुवर्णवान् ‍ ॥६९॥

मुनिरस्य मधुश्छ्न्दस्त्रिष्टुब्मधुमतीति च ।

मुन्याद्याः पञ्चभिर्बीजैः पञ्चाङ्‍गानि प्रकल्पयेत् ‍ ॥७०॥

अस्त्रं स्वाहान्ततारेण कृत्वा देवीं स्मरेद् ‍ बुधः ।

ध्यानं पूजनादिविधिश्च

नानाद्रुमलताकीर्णकैलासगतकानने ॥७१॥

अहिलतादलनीलसरोजयुक् ‍ करयुगां मणिकाञ्चनपीठगाम् ‍ ।

अमरनागवधूगनसेवितां मधुमतीमखिलार्थकारीं भजे ॥७२॥

प्रजप्य वसुलक्षं तद्दशांशं जुहुयाद्दलैः ।

बिल्वोत्थैः पूजयेत् ‍ पीठे जयादिसर्वशक्तिके ॥७३॥

कर्णिकायां षडङानि शक्तयो वसुपत्रके ।

निद्राच्छायाक्षमातृष्णाकान्तिरार्याश्रुतिः स्मृतिः ॥७४॥

शक्रादयस्तदस्त्राणि पूज्यान्यन्ते सुखाप्तये ।

य इत्थं सेवते देवीं स समृद्धेः पदं लभेत् ‍ ॥७५॥

रक्ताम्भोजैर्हुतैर्मन्त्री भूपतीन् ‍ वश्यतां नयेत् ‍ ।

नानाभोगान् ‍ पायसेन ताम्बूलैर्वामलोचनाम् ‍ ॥७६॥

नानाभोगप्रदोऽपरो मधुमतीमन्त्रः

दामोदरो बिन्दुयुक्तो मधुमत्याःऽपरो मनुः ।

पूर्ववद्यजनं चास्य ध्यायेद्देवीं कुमारिकाम् ‍ ॥७७॥

कोटिरर्द्धजपं कुर्विन्विद्यापारङुमो भवेत् ‍ ।

मधुमत्या समानान्या नानाभोगसुखप्रदा ॥७८॥

इष्टप्राप्तिदः प्रमदामन्त्रः

माया वहनयासनः शूरो मदेपावकसुन्दरी ।

षडर्णो मनुराख्यातो मुनिः शक्तिः समीरितः ॥७९॥

गायत्रीछन्द आख्यातं देवताप्रमादाभिधा ।

षडङानि प्रकुर्वीत दीर्घषट्‌काढ्यमायया ॥८०॥

ध्यान - जप - पूजादिविधानं च

केयूरमुख्याभरणाभिरामां वराभये सन्दधतीं कराभ्याम् ‍ ।

संक्रेन्दनाद्यामरसेव्यपादां सत्काञ्चनाभां प्रमदां भजामि ॥८१॥

रसलक्षं जपेन्मन्त्रं दशांशं जुहुयाद् ‍ घृतैः ।

पूर्वोक्ते पूजयेत् ‍ पीठे षडङाशाधवायुधैः ॥८२॥

निर्जने कानने रात्रावयुतं नियुतं जपेत् ‍ ।

सहस्त्रं पायसान्नेन हुत्वा शयनमाचरेत् ‍ ॥८३॥

त्रिसप्तदिवसं यावदेवमाचरतो निशी ।

देवीदृग्गोचरीभूय दद्यादिष्टानि मन्त्रिणे ॥८४॥

प्रमोदादर्शनदः प्रमोदामन्त्रः

मायाप्रमोदे ठद्वन्द्वं षडर्णो मनुरुत्तमः ।

ऋष्याद्यर्चनपर्यन्त प्रमदावदुदीरितम् ‍ ॥८५॥

सरितो निर्जने तीरे मण्डले चन्दनैः कृते ।

जपहोमौ विद्यायोक्तौ प्रमोदां पश्यति ध्रुवम् ‍ ॥८६॥

कारागृहमोक्षणक्षमो बन्दीमन्त्रः

तारो हिलियुगं बन्दीदेवी ङेन्ता नमोन्तकः ।

एकादशाक्षरो मन्त्रो भैरवत्रिष्टुभौ पुनः ॥८७॥

बन्दीमुयादयः प्रोक्ता एकेन द्वन्द्वशोऽङुकम् ‍ ।

विधाय संस्मरेद् ‍ बन्दीं रत्नसिंहासनस्थिताम् ‍ ॥८८॥

ध्यानजपपूजाप्रकारादिकथनम् ‍

सतोयपाथोदसमानकान्तिम् ‍ अम्भोजपीयूषकरीरहस्ताम् ‍ ।

सुराङुनासेवितपादपद्मां भजामि बन्दीं भवबन्धमुक्तये ॥८९॥

लक्षयुग्मं जपेन्मन्त्री पायसान्नैर्दशांशतः ।

हुत्वा पूर्विदिते पीठे पूजयेद् ‍ बन्धमुक्तये ॥९०॥

अङुपूजाकेसरेषु शक्तयः पत्रमध्यगाः ।

कालीताराभगवतीकुब्जाहवा शीतलापि च ॥९१॥

त्रिपुरामातृकालक्ष्मीर्दिगीशा आयुधान्यपि ।

एवमारधिता बन्दी प्रयच्छेदीप्सितं नृणाम् ‍ ॥९२॥

एकविंशति घस्रान्तमयुतं प्रत्यहं जपेत् ‍ ।

ब्रह्मचर्यरतो मन्त्रीगणेशार्चनपूर्वकम् ‍ ॥९३॥

कारागृहनिबद्धस्य मोक्ष एवं कृते भवेत् ‍ ।

प्रयोगान्तकथनम् ‍

चतुरस्रे ठकारान्तपूपोपरि संलिखेत् ‍ ॥९४॥

साध्यनाम घृतेनैव मायाबीजं च दिक्ष्वपि ।

मनुनाष्टादशार्णेन चतुरस्रं प्रवेष्टयेत् ‍ ॥९५॥

अष्टादशवर्णात्मकः स एव मन्त्रः

वाग्बीजं भुवनेशानी रमाबन्दि च केशवः ।

मुष्यबन्धं ततो मोक्षं कुरु युग्मं च ठद्वयम् ‍ ॥९६॥

वसुचद्रार्णमन्त्रोऽयं क्षिप्रं बन्धविमोक्षदम् ‍ ।

तस्मिन्नपूपे सम्पूज्य बन्दीमावरणान्विताम् ‍ ॥९७॥

कारानिकेतनस्थाय मित्राय प्रददीत् ‍ तम् ‍ ।

सशुद्धो वाग्यतो भूत्वा भक्षयेत्तमपूपकम् ‍ ॥९८॥

तस्मिन्सम्भक्षिते बद्धो मुच्यते बन्धनाद्रुतम् ‍ ।

एवं सम्प्रोदिता बन्दीस्मरणाद् ‍ बन्धमुक्तिदा ॥९९॥

इति श्रीमन्महीधरविरचिते मन्त्रमहोदधौ छिन्नमस्तादिमन्त्रकथनं नाम षष्ठस्त रङ्गः ॥६॥

इति श्रीमन्महीधरविरचितायां मन्त्रमहोदधिव्याख्यायां नौकायां छिन्नमस्तादिकथनं नाम षष्ठस्त रङ्गः ॥६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-25T12:56:26.0130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

equilibrium path

  • समतोल पथ 
RANDOM WORD

Did you know?

नैमित्तिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.