TransLiteral Foundation

मन्त्रमहोदधिः - नवमः तरङ्गः

श्रीमन्महीधर भट्ट ने स्वयं इस ग्रंथ में शान्ति , वश्य , स्तम्भन , विद्वेषण , उच्चाटण और मारण की विधि बताई है ।


नवमः तरङ्गः

अन्नपूर्णेश्वरीमन्त्रं वक्ष्येऽभीष्टप्रदायकम् ‍ ।

कुबेरो यामुपास्याशु लब्धवान्निधिनाथताम् ‍ ॥१॥

शम्भोः सख्य्म दिगीशत्वं कैलासाधीशतामपि ।

अन्नपूर्णेश्वरी मन्त्रः

वेदादिर्गिरिजापद्‍मामन्मथो हृदयं भग ॥२॥

वतिमाहेश्वरि प्रान्तेऽन्नपूर्णे दहनाङ्गना ।

प्रोक्ताविंशतिवर्णेयं विद्या स्याद् ‍ द्रुहिणो मुनिः ॥३॥

कृतिश्छन्दोऽन्नपूर्णेशी देवता परिकीर्तिता ।

षड्‌दीर्घाढ्येन हृल्लेखाबीजेन स्यात्षड्ङ्गकम् ‍ ॥४॥

मुखनासाक्षिकर्णान्धुगुदेषु नवसु न्यसेत् ‍ ।

पदानि नवतद्वर्णसंख्येदानीमुदीर्यते ॥५॥

भूमिचन्द्रधरैकाक्षिवेदाब्धियुगबाहुभिः ।

पदसंख्यामितैर्वर्णैस्ततो ध्यायेत् ‍ सुरेश्वरीम् ‍ ॥६॥

ध्यानवर्णनम् ‍

तप्तस्वर्णनिभा शशाङ्गमुकुटा रत्नप्रभाभासुरा नानावस्त्रविराजिता त्रिनयना भूमीरमाभ्यां युता ।

दर्वीहाट्कभाजनं च दधती रम्याच्च पीनस्तनी नृत्यन्तं शिवमाकलय्य मुदिता ध्येयान्नपूर्णेश्वरी ॥७॥

जपहोमपूजादिकथनम् ‍

लक्षं जपोऽयुतं होमश्चरुणा घृतसंयुतः ।

जयादिनवशक्त्याढ्ये पीठे पूजा समीरिता ॥८॥

त्रिकोण - वेदपत्राष्टपत्र - षोडशपत्रके ।

भूपृरेण युते यन्त्रे प्रदद्यान्माययासनम् ‍ ॥९॥

अगन्यादिकोणत्रितये शिववाराहमाधवान् ‍ ।

अर्चयेत् ‍ स्वस्वमन्त्रैस्तु प्रोच्यन्ते मनवस्तु ते ॥१०॥

शिववाराहमाधवमन्त्रकथनम् ‍

प्रणवो मनुचन्द्राढ्यं गगनं हृदयं शिवा ।

मारुतः शिवमन्त्रोऽयं सप्तार्णः शिवपूजने ॥११॥

तारं नमो भगवते वराहार्घीशयुग्वसुः ।

पायभूर्भुवरन्तेस्वोथ शूरः कामिका च ये ॥१२॥

भूपतित्वं च मे देहि ददापय शुचिप्रिया ।

त्रयस्त्रिंशद्वर्णमन्त्रः प्रोक्तो वाराहपूजने ॥१३॥

प्रणवो हृदयं नारयणाय वसुवर्णकः ।

नारायणार्चने मन्त्रः षडङ्गानि ततोऽर्चयेत् ‍ ॥१४॥

धरां वामे स्वमनुना दक्षभागे श्रियं तथा ।

अन्नं मह्यन्नमित्युक्त्वा मेदेह्यन्नधिपार्णका ॥१५॥

तये ममान्नं प्रार्णान्ते दापयानलसुन्दरी ।

द्वाविंशत्यक्षरो मन्त्रो भूमिष्टौ भूमिसम्पुटः ॥१६॥

श्रीबीजभूबीजादिकथनं मन्त्रफलकथनं च

लक्ष्मीपुटस्तत्पूजायां स्मृतिर्लमनुचन्द्रयुक् ‍ ।

भुवोबीजंवहिनशान्तिबिन्दुयुक्तो बकः श्रियः ॥१७॥

मन्त्रीदिस्थचतुर्बीजपूर्विकाः परिपूजयेत् ‍ ।

शक्तिश्चतस्त्रो वेदास्रेपरा च भुवनेश्वरी ॥१८॥

कमलासुभगाचेति ब्राह्मयाद्या अष्टपत्रगाः ।

षोडशारेऽमृता चैव मानदातुष्टिपुष्टयः ॥१९॥

प्रीतीरतिह्रीः श्रीश्चापि स्वधास्वाहादशम्यथ ।

ज्योत्स्नाहैमवतीछाया पूर्णिमाः सहनित्यया ॥२०॥

अमावास्येति सम्पूज्या मन्त्रशेषार्णपूर्विकाः ।
भूपूरे लोकपालाः स्युस्तदस्त्राणि तदग्रतः ॥२१॥

इत्थं जपादिभिः सिद्धे मन्त्रेऽस्मिन् ‍ धनसञ्चयैः ।

कुबेरसदृशो मन्त्री जायते जनवन्दितः ॥२२॥

माहेश्वर्यन्नपूर्णामन्त्रः

अयं रमाकामबीजहितोऽष्टादशाक्षरः ।

द्विनेत्रवेदवेदाब्धिनेत्रार्णैरङ्गमीरितम् ‍ ॥२३॥

अपरो मन्त्रः

पूर्वोक्तमन्त्रे मन्वर्णान्ममाभिमतमुच्चरेत् ‍ ।

अन्नं देहि युगं चापि भवेदेगुणार्णवान् ‍ ॥२४॥

युगाङ्गवेदसप्ताब्धिषडर्णैरङ्गकल्पनम् ‍ ।

प्रसन्नपारिजातेश्वर्यन्नपूर्णामन्त्रः

प्रणवः कमलाशक्तिर्नमो भगवतीति च ॥२५॥

प्रसन्नपारिजातेश्वर्यन्नपूर्णेऽनलाङ्गना ।

चतुर्विंशतिवर्णात्मा मन्त्रः सर्वेष्टसाधकः ॥२६॥

रामाक्षिवेदानिधिभिर्वेदद्वयर्णैः षडङ्गकम् ‍ ।

प्रसन्नवरदान्नपूर्णामन्त्रः

तारश्रीशक्तिहृदयं भगाम्भः कामिकासदृक् ‍ ॥२७॥

माहेश्वरीप्रसन्नेति वरदेपदमुच्चरेत् ‍ ।

अन्नपूर्णेग्निपत्नीति पञ्चविंशतिवर्णवान् ‍ ॥२८॥

रामषङ्‌युगषड्‌वेदनेत्रार्णैः स्यात् ‍ षडङ्गकम् ‍ ।
एषां चतुर्णां मन्त्राणामन्यत्सर्वं तु पूर्ववत् ‍ ॥२९॥

त्रैलोक्यमोहनगौरीमन्त्रः

त्रैलोक्यमोहनो गौरीमन्त्रः संकीर्त्यतेऽधुना ।

मायानमोऽन्ते ब्रह्मश्रीराजिते राजपूजिते ॥३०॥

जयेति विजये गौरीगान्धारिति वदेत्पदम् ‍ ।

त्रिभुतोयं मेषवशङ्करिसर्वससद्यलः ॥३१॥

कवशङ्करिसर्वस्त्रीपुरुषान्ते वह्सङ्करि ।

सुद्वय्म दुद्वयं हेयुग्वायुग्मं हरवल्लभा ॥३२॥

स्वाहान्त एकषष्टयर्णो मन्त्रराजः समीरितः ।

अजो मुनिर्निचृच्छन्दो गौरीत्रैलोक्यमोहिनी ॥३३॥

देवताबीजशक्ति तु मायास्वाहापदे क्रमात् ‍ ।

षडङ्गक्थनप्रकारोऽपरः

चतुर्दशदशाष्टाष्टदशैकादशवर्णकैः ॥३४॥

दीर्घाढ्यमाययायुक्तैः षडङ्गानि समाचरेत् ‍ ।

मूलेन व्यापकं कृत्वा ध्यायेत् ‍ त्रैलोक्यमोहिनीम् ‍ ॥३५॥

ध्यानजपहोमद्यानुष्ठानं फलकथनं च
गीर्वाणसङ्वर्चितपदपङ्कजा रुणप्रभाबालशशाङ्कशेखरा ।

रक्ताम्बरालेपनपुष्पञ्ड् ‌ मुदे सृणिं सपाशं दधती शिवास्तु नः ॥३६॥

अयुतं प्रजपेन्मन्त्रं सह्स्रं घृतसंयुतैः ।

पायसैर्जुहुयात्पीठे प्रागुक्ते गिरिजां यजेत् ‍ ॥३७॥

केसरेष्वङ्गमाराध्य ब्रह्मयाद्याः पत्रमध्यगाः ।

लोकेश्वरास्तदस्त्राणि तद्‌बहिः परिपूजयेत् ‍ ॥३८॥

इत्थामाराधिता देवी प्रयच्छेत्सुखसम्पदः ।

तन्दुलैस्तिलसम्मिश्रैर्लवणैर्मधुरान्वितैः ॥३९॥

फलै रम्यै रक्तपद्‌मैर्जुहुयाद्यो दिनत्रयम् ‍ ।

तस्य विप्रादयो वर्णा वश्याः स्युर्मासमध्यतः ॥४०॥

रविमण्डलमध्यस्थां देवीं ध्यायञ्जपेन्मनुम् ‍ ।

अष्टोत्तरशतं तावद्धुत्वाग्नौ वशयेज्जगत् ‍ ॥४१॥

रविमण्डलमध्यस्थदेव्यनुष्ठानं फलं च

नभोहंसानलयुतमैकारस्थं शशाङ्कयुक् ‍ ।

तोयं वाय्वग्निकर्णेन्दुयुतं राजमुखीति च ॥४२॥

राजाधिमुखिवश्यान्ते मुखिमायारमात्मभूः ।

देवि देवि महादेवि देवाधिदेवि सर्व च ॥४३॥

जनस्य च मुखं पश्चान्मम वशं कुरुद्वयम् ‍ ।

वहिनप्रियान्तो मन्त्रोऽष्टचत्वरिंशल्लिपिर्मतः ॥४४॥

ऋषिच्छन्दो देवतास्तु पूर्वत्परिकीर्तिताः ।

हृदेअकादशभिः प्रोक्तं शिरः स्यात्सप्तवर्णकेः ॥४५॥

शिखावर्मापि वेदार्णैः पञ्चभिर्नत्रमीरितम् ‍ ।

अस्त्रं सप्तदशार्णैः स्याद्‌ध्यानज्प्यादिपूर्ववत् ‍ ॥४६॥

वश्यकरमन्त्रशट्‌ककथनम् ‍

अङ्गमन्त्रास्तु दीर्घाढ्य भुवनेशीपरा मताः ।

एवं सिद्धमनुर्मन्त्री प्रयोगान् ‍ कर्तुमर्हति ॥४७॥

कुर्यात् ‍ सर्वजनस्थाने मनोः साध्याभिधानकम् ‍ ।

जपे होमे तर्पणे च वशीकरणकर्मणि ॥४८॥

ससम्पातं घृतं हुत्वा सहस्त्रं सप्तवासरम् ‍ ।

सम्पाताज्यं तु साध्यस्य प्राशितं वश्यकारकम् ‍ ॥४९॥

साध्यनक्षत्रवृक्षे साध्याकृतिप्रयोग

साध्यनक्षत्रवृक्षेण कुर्यात्साध्याकृतिं शुभाम् ‍ ।
तस्यामसून प्रतिष्ठाप्य प्राङ्गणे निखनेच्च ताम् ‍ ॥५०॥

तत्रानलं समाधाय रक्तचन्दनसंयुतैः ।

जपापुष्पैर्निशीथिन्यां जुहुयात्सप्तवासरम् ‍ ॥५१॥

सहस्रं प्रत्यहं पश्चात्तां निष्कास्य सरित्तटे ।

निखनेत्साधकस्तस्य साध्यो दासो भवेद् ‍ ध्रुवम् ‍ ॥५२॥

ज्येष्ठालक्ष्मीमन्त्रः

ज्येष्ठालक्ष्मी महामन्त्रः प्रोच्यते धनवृद्धिदः ।

वाग्बीजं भुवनेशानी श्रीरनन्तोद्यलक्ष्मि च ॥५३॥

स्वयम्भुवे शम्भुजाया ज्येष्ठायै हृदयान्तिकः ।

मनुः सप्तदाशार्णोऽयं मुनिर्ब्रह्यास्य कीर्तितः ॥५४॥

छन्दोऽष्टिर्ज्येष्ठलक्ष्मीस्तु देवता शक्तिबीजके ।

श्रीमाये मूलतो हस्तौ प्रमृज्याङ्गं समाचरेत् ‍ ॥५५॥

मन्त्राक्षरन्यासकथनम् ‍

रामवेदयुगैकत्रिनेत्रार्णैर्मनुसम्भवैः ।

पदानामष्टकं न्यस्येच्छिरो भ्रूमध्यवक्त्रके ॥५६॥

हृन्नाभ्याधारके जानुपादयोस्तत्पदोन्मितिः ।

भूचन्द्रैकचतुर्वेदभूमिरामाक्षिवर्णकैः ॥५७॥

ध्यानं पीठदेवतागायत्र्यादिकथनम् ‍

उद्यद्‌भास्करसन्निभा स्मितमुखी रक्ताम्बरालेपना सत्कुम्भं धनभाजनं सृणिमथो पाशङ्कैर्बिभ्रती ।

पद्‌मस्था कमलेक्षणा दृढकुचा सौन्दर्यवारांनिधिर्ध्यातव्या सकलाभिलाषफलदा श्रीज्येष्ठलक्ष्मीरियम् ‍ ॥५८॥

लक्षं जपेत पायसेन जुहुयात् ‍ तद्‌दशांशतः ।

आज्याक्तेन यजेत्पीठे वक्ष्यमाणे महाश्रियम् ‍ ॥५९॥

लोहिताक्षीविरुपा च करालीनीललोहिता ।

समदावारुणीपुष्टिरमोघाविश्वमोहिनी ॥६०॥

तत्पीठशक्तयः प्रोक्ता दिक्षु मध्ये च ता यजेत् ‍ ।

प्रयच्छेदासनं तस्यै गायत्र्या वक्ष्यमाणया ॥६१॥

प्रणवो रक्तज्येष्ठायै विद्‌महे पदमन्ततः ।

नीलज्येष्ठापदं पश्चाद्यै धीमहि ततः पदम् ‍ ॥६२॥

तन्नो लक्ष्मीः पदं प्रोच्य चोद्यादिति चोच्चरेत् ‍ ।

गायत्र्येषा समाख्याता केसरेष्वङ्गपूजनम् ‍ ॥६३॥

मातरः पत्रमध्येषु बाह्ये लोकेशहेतयः ।

इत्थं जपादिभिः सिद्धो मनुर्दद्यदभीप्सितम् ‍ ॥६४॥

अन्नमन्त्रकथनम् ‍

अथान्नदमनोर्वक्ष्ये साधनं यः पुरोदितः ।

अन्नपूर्णावृतौ भूमिश्रीयागे द्वियमाक्षरः ॥६५॥

तारभूश्रीपुटो जप्यो मुनिरस्य चतुर्मुखः ।

छन्दो निचृतिरख्यातं देवते वसुधाश्रियौ ॥६६॥

भूबीजं बीजमस्योक्तं श्रीबीजं शक्तिरीरिता ।

अन्नं महीति हृदयमन्नं मे देहि मस्तकम् ‍ ॥६७॥

शिखात्वन्नाधिपतये ममान्नं च प्रदापय ।

वर्मोक्त स्वाहया चास्त्रमङ्गमन्त्राध्रुवादिकाः ॥६९॥

षड्‌दीर्घारुढभूमिश्रीबीजान्ताः परिकीर्तिताः ।

विनेत्रा अपदुग्धाब्धौ स्वर्णदीपे तु ते स्मरेत् ‍ ॥६९॥

कल्पद्रुमाधोमणिवेदिकायां समास्थिते वस्त्रविभूषणाढ्ये ।

भूमिश्रियौ वाञ्छितवामदक्षे संचिन्तयेद् ‍ देवमुनीन्ट्रवन्द्ये ॥७०॥

लक्षमेकं जपेन्मन्त्रं तद्‌दशांशं घृतप्लुतैः ।

अन्नैर्हुत्वा यजेत् ‍ पीठे वैष्णवे वसुधाश्रियौ ॥७१॥

वैष्णवीया अष्टपीठशक्तयः

विमलोत्कर्षिणी ज्ञानक्रियायोगाभिधा तथा ।

प्रहवी सत्या वथेशानानुग्रहापीठशक्तयः ॥७२॥

तारं नमो भगवते विष्णवे सर्ववर्णकाः ।

भूतात्मसयोगपदं योगपद्‌पदं ततः ॥७३॥

पीठात्मने नमोऽन्तोऽयं पीठस्य मनुरिरीतः ।

दद्यादासनमन्तेन मूलेनावाहनादिकम् ‍ ॥७४॥

अङानीष्ट्‌वार्चयेद्‌दिक्षु भोवहिनजलमारुतान् ‍ ।

विवृति च प्रतिष्ठां च विद्यां शान्तिविदिक्षु च ॥७५॥

बलकादयोऽन्या अष्टशक्तयः

अष्टशक्तिर्बलाका च विमलाकमला तथा ।

वनमालाबिभीषा च मालिका शाङ्करी पुनः ॥७६॥

पूर्वोदिदिक्षु प्रजयेष्टमी वसुमालिका ।

शक्राद्यानायुधर्युक्तान ‍ स्वस्वदिक्षु समर्चयेत् ‍ ॥७७॥

इत्थं सपरिवारे योऽधरालक्ष्म्यौ जपादिभिः ।

आराधयेत् ‍ स लभते महतीमन्नसम्पदम् ‍ ॥७८॥

आज्याक्तैश्च तिलैर्बिल्वसमिदि‌र्जुहुयाच्छ्रिये ।

साज्येन पयसेनापि फलैः पत्रैश्व बिल्वजैः ॥७९॥

जपतामुं महामन्त्रं होमकार्यो दिने दिने ।

दशसंख्यः कुबेरस्य मनुनेध्मैर्वटोद्‌भवैः ॥८०॥

कुबेरमन्त्रोद्धारः ध्यानादि च

तारो वैश्रवणायाग्निप्रियान्तोऽष्टाक्षरो मनुः ॥८१॥

होमकाले कुबेरं तु चिन्त्येदग्निमध्यगम् ‍ ।

धनपूर्णं स्वर्णकुम्भं तथा रत्नकरण्डकम् ‍ ॥८२॥

हस्ताभ्यां विप्लुतं खर्वकरपादं च तुन्दिलम् ‍ ।
वटाधस्ताद्रत्नपीठोपविष्टं सुस्मिताननम् ‍ ॥८३॥

एवं कृत हुतो मन्त्री लक्ष्म्या जयति वित्तपम् ‍ ।

प्रत्यङ्गिरामन्त्रः

अथ प्रत्यङ्गिरां वक्ष्ये परकृत्या विमर्दिनीम् ‍ ॥८४॥

दीर्घेन्दुयुग्मरुद्‌ब्रह्मामांसलोहितसंस्थिताम् ‍ ।
यन्तिनोरय उच्चार्य क्रूरां कृत्यां समुच्चरेत् ‍ ॥८५॥

वधूमिव पदं पश्चात्तान् ‍ ब्रह्मान्तेसदीर्घणः ।

अपनिर्णुदम् ‍ इत्यन्ते प्रत्यक्कर्तारमृच्छतु ॥८६॥

तारमायापुटो मन्त्रः स्यात्सप्तत्रिंशदक्षरः ।

ब्रह्मनुष्टुप्मुनिश्छन्दो देवी प्रत्यङ्गिरेरिता ॥८७॥

बीजशक्तितारमाये कृत्या नाशे नियोजनम् ‍ ।
अष्टभीस्तोयनिधिभुर्युगैर्वेदैश्च पञ्चभि ॥८८॥

वसुर्भिमन्त्रजैर्वर्णैदीर्घयुक्पार्वतीपरैः ।

प्रणवाद्यैः षडङ्गानि कल्पयेज्जातिसंयुतैः ॥८९॥

शिरोभ्रूमध्यवक्त्रेषु कण्ठे बाहुद्वये हृदि ।

नाभावूर्वोर्जानुनोश्च पदानि पद्योर्न्यसेत् ‍ ॥९०॥

चतुर्दशकमान्मन्त्री तारमायापुटान्यपि ॥
ध्यानप्रयोगादिकथनम् ‍

आशाम्बरा मुक्तकचा घनच्छवि र्ध्येया सचर्मासिकराहिभूषणा ।

दंष्ट्रोग्रवक्त्राग्रसिताहितान्वया प्रत्यङ्गिरा शङ्करतेजसेरिता ॥९१॥

ध्यायन्नेवं जपेन्मन्तमयुतं तद्‌दशांशतः ।
अपामार्गेध्मराज्याज्यहविर्भिर्जुहुयात्ततः ॥९२॥

अन्नपूर्णासने चार्चेदङ्गलोकेश्वरायुधः ।

एवं सिद्धमनुर्मन्त्री प्रयोगेषु शतं जपेत् ‍ ॥९३॥

जुहुयाच शतं दिक्षु दशमन्त्रैर्हरेद् ‍ बलिम् ‍ ।

बलिमन्त्रपूर्वकं बलिदानम् ‍

यो मे पूर्वगतः पाप्मा पापकेनेह कर्मणा ॥९४॥

इन्द्रस्तंदेव उच्चार्य राजान्ते भञ्जयत्विति ।

अञ्जयत्वितिचोच्चार्य मोहयत्विति चोच्चरेत् ‍ ॥९५॥

नाशयुतपदं पश्चान्मारयत्वित्यतो बलिम् ‍ ।

तस्मै प्रयच्छतु कृतंममान्ते च शिवं मम ॥९६॥

शान्तिः स्वस्त्ययं चास्तु बलिमन्त्र उदाहृतः ।

प्रणवाद्योऽषष्टयर्णस्तेनैव वितरेद् ‍ बलिम् ‍ ॥९७॥

दिक्षुबलिदानप्रकारकथनम् ‍

अस्मिन्मन्त्रे पूर्वपदस्थानेग्न्यादिपदं वदेत् ‍ ।
अग्निरित्यादि च पठेदिन्द्र इत्यादिके स्थले ॥९८॥

एवं तु दशमन्त्राः स्युस्तैस्तत्तद् ‍ दिग्बलिं हरेत् ‍ ।

इत्थं कृते शत्रुकृता कृत्या क्षिप्रं विनश्यति ॥९९॥

प्रत्यङ्गिरामालामन्त्रः

अथ प्रत्यगिरामालामन्त्रसिद्धिः प्रकीर्त्यते ।

तारो मायानभः कृष्णवाससेशतवर्णकाः ॥१००॥

सहस्रहिंसिनिपदं सहस्रवदने पुनः ।

महाबलेपदंपश्चादुच्चरेदपराजिते ॥१०१॥

प्रत्यङिगरे परसैन्यपरकर्मसदृग्जलम् ‍ ।

ध्वंसिनि परमन्त्रोत्सादिनि सर्वपदं ततः ॥१०२॥

भूतान्ते दमनिप्रान्ते सर्वदेवान् ‍ समुच्चरेत् ‍ ।

बन्धयुग्मं सर्वविद्याश्छियुक्क्षोभयद्वयम् ‍ ॥१०३॥

परयन्त्राणि संकीर्त्य स्फोटयद्वितयं पठेत् ‍ ।

सर्वान्ते श्रृंखला उक्त्वा त्रोटयद्वितयं ज्वलत् ‍ ॥१०४॥

ज्वालाजिहवेकरालान्ते वदने प्रत्यमुच्चरेत् ‍ ।

गिरे मायानमोन्तोऽयं शरसूर्याक्षरो मनुः ॥१०५॥

ऋष्यादिकं पूर्वमुक्तं माययास्यात्षडङ्गकम् ‍ ।
ध्यायेत्प्रत्यंगिरा देवीं सर्वशत्रुविनाशिनीम् ‍ ॥१०६॥

ध्यानजपादिमन्त्रसिद्धिकथनम् ‍

सिंहारुढातिकृष्णं त्रिभुवनभयकृद्रूपमुग्रं वहन्ती ,

ज्वालावक्त्रावसनानववसनयुगं नीलमण्याभकान्तिः ।

शूलं खड्‍गं वहन्ती निजकरयुगले भक्तरक्षैकदक्षा ,

सेयं प्रत्यङ्गिरा संक्षपयतु रिपुभिर्निर्मितं वोभिचारम् ‍ ॥१०७॥

अयुतं प्रजपेन्मन्त्रं सहस्रं तिजराजिकाः ।

हुत्वा सिद्धमनुं मन्त्रं प्रयोगेषु शत्म जपेत् ‍ ॥१०८॥

ग्रहभूतादिकाविष्टं सिञ्चेन्मन्त्रं जपञ्जलैः ।

विनाशयेत्परकृतं यन्त्रमन्त्रादिकर्मणाम् ‍ ॥१०९॥

शत्रुनाशकमन्त्रः

मन्त्रं विरोधिशमकं प्रवक्ष्ये षोडशाक्षरम् ‍ ।

प्रणवः केशवः सेन्दुर्वर्गाद्याः पञ्चसेन्दवः ॥११०॥

वियच्चद्रान्वितं रान्तसद्योजातः सशांकयुक् ‍ ।

मायात्रिकर्णचन्द्राढ्यो भृगुः सर्गी सवर्मफट् ‌ ॥१११॥

स्वाहान्तः षोडशार्णोऽयं मन्त्रः शत्रुविनाशनः ।

विधाताष्टिऋषिश्छन्दः पर्वताब्ध्याग्निवायवः ॥११२॥

धराकाशौ महापूर्वा देवताः परिकीर्तिताः ।

हुंबीजं पार्वतीशक्तिर्मायया तु षडङ्गकम् ‍ ॥११३॥

षडङ्गक्रमेण ध्यानवर्णनम् ‍

नानारत्नार्चिराक्रान्तं वृक्षाम्भः स्रवर्णैर्युतम् ‍ ।
व्याघ्रादिपशुभिर्व्याप्तं सानुयुक्तं गिरिं स्मरेत् ‍ ॥११४॥

मत्स्यकूर्मादिबीजाढ्यं नवरत्नसमन्वितम् ‍ ।

घनच्छायं सकल्लोलकूपारं विचिन्तयेत् ‍ ॥११५॥

ज्वालावतीसमाक्रान्त जगत्त्रितयमद्‌भुतम् ‍ ।
पीतवर्णं महावहिनं संस्मरेच्छत्रुशान्तये ॥११६॥

धरासमुत्थरेण्वौघमलिनं रुद्धभूदिवम् ‍ ।

पवनं संस्मरेद्विश्वजीवनं प्राणरुपतः ॥११७॥

नदीपर्वतवृक्षादिफलिताग्रामसंकुला ।

आधारभूता जगतो ध्येया पृथ्वीह मन्त्रिणा ॥११८॥

सूर्यादिग्रहनक्षत्रकालचक्रसमन्वितम् ‍ ।

निर्मलं गगनं ध्यायेत्प्राणिन्गमाश्रयप्रदम् ‍ ॥११९॥

एवं षड्‌देवता ध्यात्वा सहस्राणि तु षोडश ।

जपेन्मन्त्रं दशांशेन षड्‌द्रव्यैर्होममाचरेत् ‍ ॥१२०॥

व्रीह्यस्तन्दुलाआज्यं सर्षपाश्च यवास्तिलाः ।

एतैर्हुत्वा यथाभागं पीठे पूर्वोदिते यजेत् ‍ ॥१२१॥

अङ्गदिक्पालवज्राद्यैरेवं सिद्धो भवेन्मनुः ।

शत्रूपद्रवमापन्नो युञ्ज्यात्तन्नष्टये मनुम् ‍ ॥१२२॥

अस्य मन्त्रस्य प्रयोगकथनम् ‍

अकारं पर्वताकारं धावन्तं शत्रुसम्मुखम् ‍ ।

पतनोन्मुखमत्युग्रं प्राच्यां दिशि विचिन्तयेत् ‍ ॥१२३॥

ककारं क्षुब्धकल्लोलं प्लाविताखिलभूतलम् ‍ ।

समुद्ररुपिणं भीमं प्रतीच्यां दिशि संस्मरेत् ‍ ॥१२४॥

वर्णं तदग्रिमं ज्वालासंघव्याप्तभस्तलम् ‍ ।

याम्येरब्धजगद्‌दाहं स्मरेत्प्रलयपावकम् ‍ ॥१२५॥

तृतीयवर्गप्रथमं प्रकम्पिजगत्त्रयम् ‍ ।
युगान्तपवनाकारमुत्तरस्या दिशि स्मरेत् ‍ ॥१२६॥

तुरीयपञ्चमाद्यार्णो पृथ्वीगगनरुपिणो ।

शत्रुवर्गं बाधमानौ चिन्तयेन्नोयतात्मवान् ‍ ॥१२७॥

तदग्रिमं वर्णयुगं शत्रोर्निःश्वासपद्धतिम् ‍ ।
निरुन्धानं स्मरेन्मन्त्री विदधद्रिपुमाकुलम् ‍ ॥१२८॥

मायादिवर्णत्रिअयं शत्रोर्नेश्रुतीमुखम् ‍ ।

प्रत्येकं तु निरुन्धानं चिन्तयेत्साधकोत्तमः ॥१२९॥

वर्मसंक्षोभितं त्वस्त्रं रिपोराधारदेशतः ।

उत्थाप्य वहिन तद्‌देहं प्रदहन्समनुस्मरेत् ‍ ॥१३०॥

एवं वर्णान् ‍ स्मरन्मन्त्रं जपेन्मन्त्रीसहस्रकम् ‍ ।

मण्डलत्रितयादर्वाङ् ‌ मारयत्येव विद्विषम् ‍ ॥१३१॥

एवं यः कुरुते कर्मप्राणायामजपादिभिः ।

संशोधयित्वा स्वात्मानं स्वरक्षायै हरिं स्मरेत् ‍ ॥१३२॥

इति श्रीमन्महीधरविरचिते मन्त्रमहोदधावन्नपूर्णादि मन्त्रप्रकाशनं नाम नवमस्तरङ्गः ॥९॥

इति श्रीमन्महीधरविरचितायां मन्त्रमहोदधिव्याख्यायां नौकायामन्नपूर्णादिनिरुपणं नाम नवमस्तरङ्गः ॥९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-28T10:58:55.6270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

redressed of grievance

  • न. गाऱ्हाण्यांचे निवारण 
RANDOM WORD

Did you know?

आत्म्याची किती आणि कोणती रूपे मानली गेली आहेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.