ग्रहलाघवः - चन्द्रग्रहणानयनाधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


मासाः स्वार्द्धयुतास्तिथोर्दिनाद्यं तावत्यो घटिकाश्र्च माससंघात् ॥

त्र्यंशाः सहितं द्वयत्रयाभ्यां चक्रघ्नाक्षनवाङ्गवर्गयुक्तम् ॥१॥

स्वार्द्धयुताः , मासाः , तिथेः , दिनाद्यम् , (स्यात् ) तावत्यः , घटिकाः , च , माससंघात् त्र्यंशाढ्याः , (ततः , तत् ), द्वयत्रयाभ्याम् , (ततः ) चक्रघ्नाक्षनवाङ्गवर्गयुक्तम् ॥१॥

खं सप्ताष्टयमाश्र्च चक्रनिघ्ना नागाम्भोधिघटीयुता भशुद्धाः ॥

द्वाभ्यां धूर्जटिभिर्विनिघ्नमासैर्युक्ता भध्रुवको भपूर्वकः स्यात् ॥२॥

चकनिघ्नाः , खभू , सप्त , अष्टयमाः , नागाम्भोघिघटीयुताः , (कार्य्याः ), (ततः ) भशुद्धाः , (ततः ) द्वाभ्याम् , धूर्जटिभिः , विनिघ्नभासैः युक्तः , भपूर्वकः , भध्रुवकः स्यात् ॥२॥

स्वर्गाः शरा नव च चक्रहता द्विनिघ्नमासान्विता द्वित्दृतमासयुता घटीषु

पिण्डो भवेद्युगकुभिः खचरैः समेतास्तष्टो गजाश्र्विभिरिदं भवतीह चक्रम् ॥३॥

स्वर्गाः , शराः , नव , च , चक्रहताः , (ततः ) द्विनिघ्नमासन्विताः , घटीषु , द्विहृतमासयुताः , युगकुभिः , खचरैः , समेताः , पिण्डः , भवेत् , गजाश्रिभिः , तष्टः , (कार्य्यः ) इदम् , चक्रम् , इह , (अष्टाविंशतिमित् ) भवति ॥३॥

शिवदशवसुषट्काब्ध्यश्र्विनाड्योऽश्र्विभात्स्वं खगुणशरनगाङ्काशेशदिग्दिङ्नवाष्टौ ॥

रसगुणखमिनर्क्षादादितेयादृणं स्युर्द्वियुगरसगजाङ्काशेश्र्वरा वैश्र्वतः स्वम् ॥४॥

इनर्क्षात् , अश्र्विभात् , शिवदशवसुषट्काब्घ्यश्र्विनाड्यः , स्वम् आदितेयात् , स्वगुणशरनगाङ्काशेशदिग्द्ङिनवाष्टौ , रसगुणखम् , ऋृणम् , वैश्र्वतः , द्वियुगरसगजाङ्काशेश्र्वराः , स्वयम् , स्युः , ॥४॥

वेदेघ्नेष्टतिथिर्युतार्कभागा योज्या भघ्रुवनाडिकासु तत्स्यात् ॥

सूर्यक्षं विगतं ततोऽर्कजाख्यनाडीहीनयुतं स्फुटं भवेत्तत् ॥५॥

युतार्कभागा , वेदघ्नेष्टतिथिः , भध्रुवनाडिकासु , योज्या , तत् , विगतम् , सूर्य्यर्क्षम् , स्यात् , ततः , तत् , अर्कजाख्यनाडीहीनयुतम् , स्फुटम् , भवेत् ॥५॥

पिण्डे युक्ततिथौ तदाद्यमनुषु स्वं शेषपिण्डेष्वृणं विश्र्वेन्दोश्र्च शरा दशार्कयमयोः पञ्चेन्दवस्त्रीशयोः ॥

गोचन्द्रा दशवेदयोर्यमयमाः पञ्चाङ्कयोः स्युर्जिनाः षड्वस्वोश्र्च नगे तु तत्त्वघटिकाः शक्रे च खं पिण्डजाः ॥६॥

युक्ततिथौ , पिण्डे , विश्र्वेन्द्वोः , (तुल्य , सति ) शराः , अर्कयमयोः (तुल्ये , सति ) दश , त्रीशयोः , (तुल्ये , सति ) पञ्चेन्दवः , दशवेदयोः , (तुल्ये , सति ) गोचन्द्राः , पञ्चाङ्कयोः , (तुल्ये , सति ) यमयमाः , षड्वस्वोः , च , (तुल्ये , सति ) जिनाः , नगे , तु (तुल्ये , सति ) तत्त्वघटिकाः शक्रे , च , (तुल्ये , सति ) खम् , पिण्डजाः , आद्यमनुषु , (चेत् ) तदा , खम् , शेषपिण्डेषु (चेत् , तदा ,) ऋणम् , स्युः ॥६॥

तिथियुक्तपिण्डोर्ध्वांक

१३

१२

११

१०

१४

पिण्डजघटिका

१०

१५

१९

२२

१०

वारेषु तिथिर्देया हेया नाडीषु जायते मध्या ॥

रविजापिण्डफलाभ्यां सुसंस्कृता स्पष्टतां याति ॥७॥

तिथिः , वारेषु , देया , नाडीषु , हेया , (तदा ) मघ्या , जायते , (सा ) रविजापिण्डफलाभ्याम् , सुसंस्कृता , स्पष्टताम् , याति ॥७॥

स्याद्भं केवलयोस्तिथिध्रुवभयोर्योगे तिथेर्नाडिका युक्ता व्यङ्गलवद्विनिघ्नतिथिना व्यस्तार्कजासंस्कृताः ॥

नाडीभिर्ध्रुवभस्य चेन्न वियुतास्तद्धीनषष्ट्यन्विताः सैकं भं घटिका वियत्षडधिकाः षष्ट्यूनिता व्येकभम् ॥८॥

केवलयोः , तिथिध्रुवभयोः , योगेभम् , स्यात् , तिथेः , नाडिकाः , व्यङ्गलवद्धिनिन्नतिथिना , युक्ताः , व्यस्तार्कजासंस्कृताः , ध्रुवमस्य , नाडीभिः , वियुताः , (कार्य्याः ) न , चेत् , तद्धीनपष्ट्यन्विताः , (कार्य्याः ) भम् , सैकम् , (कर्त्तव्यम् ) घटिकाः , वियत्षडधिकाः , (चेत् ) षष्ट्यूनिताः , (कार्य्याः ) व्येकभम् , (च , कार्य्यम् ) ॥८॥

सूर्यभेन्दुभयुतिर्भवेद्युतिस्तदूघटीविवरमत्र नाडिकाः ॥

चेद्द्य़ुभेऽल्पघटिकास्तदा सकुर्योगकोऽस्य घटिकाः खषट्च्युताः ॥९॥

सूर्यभेन्दुभयुतिः , युतिः , भवेत् , तद्घटीविवरम् , अत्र , नाडिकाः , (स्युः ) द्युभे , अल्पघटिकाः , चेत् , तदा , योगकः , सकुः , (कार्य्यः ) अस्य , घटिकाः , खषट्च्युताः , (कार्य्याः ) ॥९॥

चक्रहताः सप्त यमौ खबाणा मासाहताः खं क्षितिरब्धिरामाः ॥

भाद्यानयोः संयुतिरर्कशुद्धा भांशैर्युता शुक्लगते तमः स्यात् ॥१

सप्त , यमौ , खबाणाः , चक्रहताः , (कार्य्याः ) खम् . क्षितिः , अब्धिरामाः , मासाहताः , (कार्य्याः ) अनयोः , भाद्या , संयुतिः , अर्कशुद्धा , भांशैः , युता , शुक्लगते , तमः , स्यात् ॥१०॥

वेदघ्नगात्दृद्रविभुक्तधिष्ण्यं तिथ्यन्तजोऽर्को गृहपूर्वकः सः ॥

राहूनितः पर्वणि तद्भुजांशाः मन्वल्पकाश्र्चेद्ग्रहसंभवः स्यात् ॥११॥

रविभुक्तधिष्ण्यम् , वेदघ्नगोहृत् , ग्रहपूर्वकः , तिथ्यन्तजः , अर्कः , (भवेत् ) सः , पर्वणि , राहूनितः , (कार्य्यः ) तद्भुजांशाः , मन्वल्पकाः , चेत् , (तदा ) ग्रहसम्भवः , स्यात् ॥११॥

पिण्डनाड्यन्तरांघ्रयुक्ता इनाः स्वर्गपिण्डाद्रिपिण्डान् क्रमाद्वर्जिताः ॥

व्यग्विनाद्दोर्लवैः स्वार्धयुक्ता भवेच्छन्नमिन्दो रविच्छन्नकाद्युक्तवत् ॥१२॥

क्रमात् , स्वर्गपिण्डाद्रिपिण्डात् , पिण्डनाड्यन्तरांघ्रयूनयुक्ताः , इनाः , व्यग्विनात् , (जातैः ) दोर्लवैः , वर्जिताः , (ततः ) स्वार्धयुक्ताः , इन्दोः , छन्नम् , भवेत् , रविच्छन्नकादि , उक्तवत् (ज्ञेयम् ) ॥१२॥

वित्र्यंशेशाः पिण्डनाड्यन्तरस्य षष्ठोनाढ्याः स्वर्गपिण्डाद्रिपिण्डात् ॥

ग्लौबिम्बं स्यात्तद्वदुर्वीप्रभ्ज्ञास्यात्रिघ्नस्याक्षांशोनयुक्तानि भानि ॥१३॥

स्वर्गपिण्डाद्रिपिण्डात् , पिण्डनाड्यातरस्य , षष्ठीनाढ्याः वित्र्यंशेशाः , ग्लौबिम्बम् , स्यात् , तद्वत् , त्रिघ्नस्य , अक्षांशोनयुक्तानि , भानि , उर्वीप्रभा , स्यात् ॥१३॥

वारादिके भूः कुगुणाः खबाणाः पिण्डे द्वयं भे द्वयमीशनाड्यः ॥

क्षैप्याः क्रमण प्रतिमासमत्र राहौ युगाङ्काः कलिका वियोज्याः ॥१४॥

प्रतिमासम् , वारादिके , क्रमेण , भूः , कुगुणा , खबाणाः , क्षेप्याः , पिण्डे , द्वयम् , भे , (च ), द्वयम् , (क्षेप्यम् , घटिकासृ ) ईशनाड्यः , (क्षेप्याः ) अत्र , राहौ , युगाङ्काः , कलिकाः , वियोज्याः ॥१४॥

इति श्रीगणकवर्यपण्डितगणेशदैवज्ञकृतौ ग्रहलाघवाख्यकरणग्रन्थे पश्र्चिमोत्तरदेशीयमुरादाबादवास्तव्य -काशीस्थराजकीयविद्यालयप्रधानाध्यापकपण्डितस्वामिराममिश्रशास्त्रिसंनिघ्याधिगतविद्येन भारद्वाजगोत्रोत्पन्नगौडंवंशावतंसश्रीयुत भोलानाथात्मजेन पण्डितरामस्वरूपशर्म्मणा कृतया सान्घयभाषाटीकया सहितः पञ्चाङ्गचन्द्रग्रहणानयनाधिकारः समाप्तिमितः ॥१५॥

N/A

References : N/A
Last Updated : October 24, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP