ग्रहलाघवः - पञ्चाङ्गाद ग्रहणद्वयसाधनाधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


अथवाऽयं तिथिपत्रतोऽवगम्यः पर्वान्तश्र्च रविस्तमस्तिथेर्वा ॥

भस्येतैष्यघटीयुतिद्युमानं तेभ्योऽथ ग्रहणद्वयं प्रवच्मि ॥१॥

अथवा , तिथिपत्रतः , अयम् , पर्वान्तः , रविः , तभः , च , अवगम्यः , तिथेः , वा , भस्य , इतैष्यघटीयुतिः , (अवगम्या ), द्युमानम् , (अवगम्यम् ), अथ , तेभ्यः , ग्रहणद्वयम् , प्रवच्मि ॥१॥

ताराषड्व्यगतिथियातगम्यनाडीयोगाप्ता व्यगुरविदोर्लवोनितास्ते ॥

संयुक्ता निजदलभूपभागकाभ्यां छन्नं वाऽङ्गुलवदनं भवेत्सुधांशोः ॥२॥

वा ताराषडूव्यगतिथियातगम्यनाडीयोगाप्ताः , व्यगुरविदोर्लवानिताः , ते , निजदलभूपभागकाभ्याम् , संयुक्ताः , (सन्तः ), सुधांशोः , अंगुलवदनम् , छन्नम् , भवेत् ॥२॥

अङ्गयुक्तिथिघटीत्दृतबाणाङ्कर्त्तवोऽङ्गुलमुखं विधुबिम्बम् ॥

दिग्वियुक्तिथिघटीत्दृतदृग्दृक्रीन्दवोऽङ्गुलमुखा क्षितिभा स्यात् ॥३॥

अंगयुक्तिथिघटीहृतबाणांकर्त्तवः , अंगुलमुखम् , विधुबिम्बम् , (स्यात् ) । दिम्वियुक्तिथिघटीहृतदृग्दृक्रोन्दवाः , अंगुलमुखा , क्षितिभा , (स्यात् ) ॥३॥

रुद्रभूपनखभूपरुद्रखव्यंगुलैर्विरहिता युता क्रमात् ॥

षड्गृहे सति रवौ धटात्क्रियान्नाडिकोद्भवकुभा स्फुटा भवेत् ॥४॥

रवौ , घटात् , क्रियात् , षड्गृहे , सति , क्रमात् , रुद्रभूपनखभूपरुद्रखव्यंगुलैः , विरहिता , युता , नाडिकोद्भवकुभा , स्फुटा , भवेत् ॥४॥

मे .

वृष .

मि .

क .

सिं

कन .

तु

वृ

ध .

म .

कुं .

मीन

नाम

११

१६

२०

१६

११

११

१६

२०

१६

११

प्रतिअंगुल

विदशोडुघटीयुताः खभूषड्व्यगुभास्वद्भुजभागवर्जितास्ते ॥

शितिकण्ठहतास्तुरङ्गभक्ताः स्थगितं चांगुलपूर्वकं विधोः स्यात् ॥५॥

खभूषट् , विदशोडुघटीहृताः , (ततः ), व्यगुभास्वद्भुजभागवर्जिताः , च , (कार्य्याः ) ते , शितिकण्ठहताः , (ततः ) तुरंगभक्ताः , (सन्तः ) अंगुलर्प्वकम् , विधोः , स्थगितम् , स्यात् ॥५॥

भगतागतनाडिकैक्यभक्ता नववेदर्त्तव इन्दुबिम्बमुक्तम् ॥

विमनूडुघटीत्दृताः शराक्षद्विभुवः स्यात्क्षितिभांगुलादिका वा ॥६॥

वा , भगतागतनाडिेकैक्यभक्ताः , नववेदर्त्तंवः , इन्दुबिम्बम् , उक्तम् , विमनूडुघटीहृताः , शराक्षद्विभुवः , क्षितिभा , स्यात् ॥६॥

खात्यष्टयत्तिथिघटीवित्दृताः सवेदा वाथोडुनाडित्दृतदेवयमाः सरामाः ॥

हीना व्यगुस्फुटलवैर्भवसंगुणास्ते शैलोद्धृताः खररुचः स्थगितांगुलानि ॥७॥

तिथिघटीविहृताः , खात्यष्टयः , सवेदाः , (कार्य्याः ,) (ते ), व्यगुस्फुटलवैः , हीनाः , (ततः ) भवसंगुणाः , ते शैलोद्धृताः (सन्तः ), खररुचः , स्थगितांगुलानि , (स्युः ) । अथवा , उडुनाडिहृतदेवयमाः , सरामाः , (कार्याः , ते , व्यगुस्फुटलवैः हीनाः , ततः , भवसंगुणाः , ते , शैलौद्धृताः , सन्तः , खररुचः , स्थगितांगुलानि , स्युः ) ॥७॥

रविलवयुतभानोर्दोलवत्र्यंशतुल्यौर्विरसलवम हेशा व्यंगुलैर्हीनयुक्तः ॥

अजधटरसभेऽर्के बिम्बमस्यांगुलाद्यं स्थितिमुखमवशिष्टं पूर्ववच्छेषमत्र ॥८॥

अर्के , अजधटरसभे (सति ), विरसलवमहेशाः , रविलवयुतभानोः ,य दोर्लवत्र्यंशतुल्यैः , ब्यंगुलैः , हीनयुक्ताः (कार्य्याः ), (तत् ) अस्य , अंगुलाद्यम् , बिम्बम् , (स्यात् ) । अत्र , स्थितिमुखम् , अवशिष्टम् , शेषम् , पूर्ववत् , ज्ञेयम् ॥८॥

इति श्रीगणकवर्य्यपंडितगणेशदैवज्ञकृतौ ग्रहलाघवाख्यकरणग्रन्थे पश्र्चिमोत्तरदेशीयमुरादाबादवास्तव्य -काशीस्थराजकीय विद्यालय

प्रधानाध्यापक -पंडितस्वामिराममिश्रशास्त्रिसान्निध्याधिगतविद्यभारद्वाजगोत्रोत्पन्नगौडवंशावतंसश्रीयुतभोलानाथतनूजपंडितरामस्वरूपशर्म्मणा कृतया सान्वयभाषाव्याख्यया सहितः पञ्चाङ्गाद्ग्रहणद्वयसाधनाधिकारः समाप्तिमितः ॥८॥

N/A

References : N/A
Last Updated : October 23, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP