TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

ग्रहलाघवः - अस्तोदयाधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


अथास्तोदयाधिकारो व्याख्यायते

सार्कांशाविह कुरु पक्ष तिक्षयेऽर्कव्यवर्को चरमथ केवलाद्य्वगोर्यत् ॥

षड्बाणैर्वित्दृतमिदं क्रमाल्लवाद्यं स्वर्णं स्याद्य्वगुरविगोलयोः पृथक्तत् ॥१॥

त्रिभायनलवार्न्वितारुणचराहतं द्य्वक्षभाहतेः कृतित्दृतं धनर्णमसमैकगोले व्यगोः ॥

खखानलविशेषितः सरसभायनार्कोदयः शरद्विकत्दृतो धनाधनमनल्पकाल्पोदये ॥२॥

द्युमितिप्रतिपद्रमान्तरं यच्छरभक्तं स्वमृणं दिनेऽधिकोने ॥

धनमत्र चतुष्कसंस्कृतिश्र्चेत्तपनास्ते विधुरीक्ष्यतेऽन्यथा न ॥३॥

इह , पक्षतिक्षये , अर्कव्यग्वर्को , सार्काशौ , कुरु । अथ , केवलात्व्यगोः , यत् चरम् , (साधितम् ), इदम् , षड्बाणैः , विहृतम् (कार्य्यम् तदा ) लवाद्यम् (फलम् ), क्रमात् , व्यगुरविगोलयोः , स्वर्णम् , स्यात् , तत् , पृथक (स्थाप्यम् , ततः ) त्रिभायनलवान्विता रुणचराहतम् , (ततः ) द्य्वक्षभाहतेः , कृतिहृतम् (कार्य्यम् , ततः ) व्यगोः , असमैकागोले , धनणम् (कार्थ्यम् ,) (तत् , फलम् , पृथक , स्थाप्यम् ) सरसभायनार्कोदयः खखानलविशेषितः , शरद्विकहृतः , (तदा , यत् , फलम् , तत् ) अनल्पकाल्पोदये , धनाधनम् (कार्थ्यम् ) । अन्न चतुष्कसंस्कृतिः धनम् चेत् (तदा ) तपनास्ते विधुः , ईक्ष्यते अन्यथा , न ॥१ -३॥

चक्राढ्यो मधुवक्रमासनिचयो विश्र्वाप्तचक्रोनितो द्विघ्नो युग्दशमासधूर्जटिदिनैर्भैः शेषितो भच्युतः ॥

द्य्वाप्तः स्याद्धमुखः पृथक्तिथिलवैरूनोऽस्य बाह्वंशकार्काप्तांशोनयुतो धटाचरसभे मासाधिकः स्यान्मधोः ॥४॥

तिथिदिनरहिताढ्योऽसौ द्विधा तैश्र्च मासैः क्रमश इह भवेतां भंत्रिणोऽस्तोदयौ च ॥ऽऽ॥

मधुवक्रभासानिचयः , चक्राढ्यः , (कार्य्यः ), (ततः ) विश्वाप्तचक्रोनितः , (कार्य्यः ), (ततः ) द्विघ्नः , (कार्य्य ) (ततः ) दशमासधूर्जटिदिनैः , युक् , भैः , शेषितः , (ततः ) भच्युतः , (ततः ) द्य्वाप्तः , भमुखः , स्यात् , (सः ) पृथक् (स्थाप्यः ), तिथिलवै ऊनः (कार्य्यः ), अस्य , बाह्वंशकार्काप्ताशोनयुतः , धटाजरसभे , मधोः , मासाधिकः , स्यात् । असौ , च , द्विधा , तिथिदिनरहिताढ्यः , तैः , मासैः , इह , मन्त्रिणः , क्रमशः , अस्तोदयौ , च भवेताम् ॥४॥ऽऽ

अथ मधुमुखमासाः सप्तभूनिघ्नचकैः सवशरयुगलवाढ्यैः संयुता मार्गणघ्नाः ॥

उदधिरससमेताश्छिद्रखेगामितष्टा नवनवपरिशुद्धाः पञ्चभक्ताः पृथक्स्थाः ॥

रसगुणदिनहीनाढ्या द्विधा चैत्रतस्तैर्भृगुजहरिदिगस्ताम्बूदयौ स्तः क्रमेण ॥५॥

नवमासभघस्रतोऽल्पपुष्टाः पृथगास्थाः क्रमशस्त तैर्युतोनाः ॥

द्वेधा युगवासरोनयुक्तास्तोयास्तैन्द्र्य़ुदयौ क्रमाद् भृगोः स्तः ॥६॥

अथ , मधुमुखमासाः , स्वशरयुगलवाढ्यैः , सप्तभूनिघ्नचक्रैः , संयुताः , (ततः ) मार्गणघ्नाः , (ततः ) उदधिरससमेताः , (ततः ) छिद्रखेगामितष्टाः , (शेषाः ,) नवनवपरिशुद्धाः , (ततः , शेषाः ) पंचभक्ताः , पृथक्स्थाः (कार्य्याः ) । (ते , अत्र ) द्विधा , रसगुणदिनहीनाढ्याः (कार्य्याः ) तैः , चैत्रतः , क्रमेण , हरिदिगस्ताम्बूदयौ , स्तः (ते ) पृथगास्थाः , (यदि ) नवमासभघस्रतः , अल्पपुष्टाः , (स्युः , तदा ) तु , तैः , युतोनाः , (कार्य्याः ), (ततः ते ) द्वेधा युगवासरोनयुक्ताः , क्रमात् , भृगोः तोयास्तैन्द्रयुदयौ , स्तः ॥५॥६॥

मासैर्नखैर्व्यरिदिनैरुदयास्तकालः शुक्रस्य शुद्ध्य़ति गुरोर्यदि साधविश्र्वैः ॥

सोऽन्यो भवेन्मधुमुखादथ तैर्युतश्र्चत्स्यात्तत्परोऽथ पुरतोऽपि विलोमशुद्ध्य़ा ॥७॥

नखैः , मासैः , व्यरिदिनैः , शुक्रस्य , उदयास्तकालः , शुद्ध्य़ति , यदि , गुरोः , (तदा ), साद्धविश्र्वः , (शुद्ध्य़ति ), अथ , यदि मधुमुखात् , तैः , युतः , चेत् , (तदा ), सः , अन्यः , भवेत् , अथ , बिलोमशुद्ध्य़ा , तत्परः , अथ , परतः , अपि , स्यात् ॥७॥

लघुगोऽल्प इनादुदेति पूर्व भूयान् भूरिगतिर्ग्रहः प्रतीच्याम् ॥

भूयॉंल्लघुगः परत्र चास्तं प्राच्यां भूरिजवो लय प्रयति ॥८॥

लघुगः , इनात् , अल्पः , ग्रहः पूर्वे , उदेति , भूरिगतिः , (इनात्भूयान् ,) (ग्रहः ) प्रतच्याम् , उदेति , लघुगः , भूयान् (ग्रहः ) परत्र , अस्तम् , प्रयाति , भूरिजवः , (अल्पः ) च , प्राच्यां , लयम् , प्रयति ॥८॥

प्रथमे व्यगुचन्द्रदोर्गृहेंशाः स्वदलांढ्यास्त्वपरे नगाब्धियुक्ताः ॥

चरमे दलिता नगाद्रियुक्ता व्यगुविधुदिग्विशिखोऽङ्गुलादिकः स्यात् ॥९॥

व्यगुचन्द्रदोर्गृहे , प्रथमे , अंशाः , स्वदलाढ्याः , (कार्य्याः ) अपरे तु , नगाब्धियुक्ताः , (कार्य्याः ) चरमे , (च , प्रथमम् ) दलिताः , (ततः ) नागाद्रियुक्ताः , (कार्य्याः , सः ) अंगुलादिकः , व्यगुर्विधुदिग्विशिखः , स्यात् ॥९॥

नृपतिथिमनुविश्र्वरुद्रगोऽद्रिश्रुतिवसुधाः शरखण्डकानि तैर्यत् ॥

व्यगुविधुभुजतोऽपमोक्तिवद्वाव्यगुविधुदिग्विशिखोऽङ्गुलादिकःस्यात् ॥१

नृपतिथिमनुविश्वरुद्रगोऽद्रिश्रुतिवसुधाः , सरखण्डकानि (भवन्ति ) तैः , व्यगुविधुभुजतः , यत् , अपमोक्तिवत् (भवति , तत् ) अंगुलादिकः व्यगुविधुदिग्विशिखः भवति वा ॥१

अंकसंख्या

शरांक

१६

१५

१४

१३

११

भास्करा नगभवो गुणचन्द्रा भूभवो दिविषदस्तिथयोऽब्जात् ॥

प्राक्तनैर्निगदिताः समयांशा वक्रिणोर्भृगुविदोः क्षितिहीनाः ॥११॥

भास्कराः नगभुवः , गुणचन्द्राः , भुभुवः , दिविषदः , तिथयः , (एते ) प्राक्तनैः , अब्जात् , समयांशाः , निगदिताः , वक्रिणोः भृगुविदोः , क्षितिहीनाः , भवन्ति ॥११॥

ग्रहोंके नाम

चं .

मं .

बु .

गु .

शु .

शु .

वक्रीबुध

वक्रीशुक्र

कालांश

१२

१७

१३

११

१५

१२

खाम्बुधयः खयमाः खभुजङ्गाः खाङ्गमिताः खदशक्रमशः स्युः ॥

पातलवाः कुसुताद् बुधभृग्वोर्मध्यमचञ्चलकेन्द्रविहीनाः ॥१२॥

खाम्बुधयः , खयमाः , खभुजङ्गाः , खांगमिताः , खदश (एते ) क्रमशः कुसुतात् , पालतवाः , (स्युः ) बुधभृगवोः , मध्यमचञ्चलकेंद्रविहीनाः (स्युः ) ॥१२॥

ग्रहोंके नाम

मं .

बुध

गुरू

शुक्र

शनि

पातांश वा सपातांश

६०

१००

कुद्वित्र्यब्धियुगाश्र्विनो दलचयश्र्चेत्षङ्भपुष्टं चलं केन्द्रं चक्रविशुद्धमस्य भमितार्धैंक्यं लवघ्नागतात् ॥

त्रिंशल्लब्धयुतं कुजात्कुयमलाब्धीन्द्वद्रिभक्तं क्रमात्तद्धीना धृतिरिष्विला गुणभुवो गोब्जा इनाद्राक्छुतिः ॥१३॥

कुद्वित्र्यब्धियुगाश्र्विनः , दलचयः , (स्यात् ) चलम् , केन्द्रम् , षड्भषुष्टम् , चेत् , तदा ), चक्रविशुद्धम् , (कार्य्यम् ); अस्य , भमितार्द्धैक्यम् , लवघ्नागतात् , त्रिंशल्लब्धयुतम्

( कार्य्यम् ), ( ततः ) कुजात् , कुयमलाब्धीन्द्वद्रिभक्तम् , ( कार्य्यम् ), ( तदा , यत् , फलम् , तद्धीनाः ), धृतिः , इष्विलाः , गुणभुवः गोब्जा , इनाः , द्राक्छ्रुतिः , ( स्यात् ) ॥१३॥

संख्या

शीघ्रांक

 

ग्रहोंके नाम

मं .

बु .

गु .

शु .

श .

ग्रहोंकेभाज्यांक

ग्रहोंकेशीघ्रकरणांक

१८

१५

१३

१२

मन्दस्पष्टखगात्स्वपातरहितात्क्रान्त्यंशकाः केवलात् कर्णाप्तास्त्रियमाहता अथ गुरोश्र्चेल्लोचनाप्ताः पुनः ॥

स्वांघ्रयूना असृजोऽङ्गुलादिकशरः पातोनदिक्स्यादसौ त्रिघ्नः स्यात्कलिकादिकः स्फुटतरस्तत्संस्कृतश्र्चापमः ॥१४॥

स्वपातरहितात , मन्दस्पष्टखगात् , केवलात् , क्रान्त्यंशकाः (साध्याः ) (ते ), त्रियमाहताः , (ततः ), कर्णाप्ताः , (कार्य्याः ) अथ गुरोः , चेत् , (तर्हि ), लोचनाप्ताः , (कार्य्याः ) असृजः (चेत् ), तर्हि , (द्य्वाप्ताः ), पुनः , स्वाङ्घ्रयूनाः , (सन्तः ) पातोनदिक् अंगुलादिकशरः , स्यात् , असौ , त्रिघ्नः , कलिकादिकः , (स्यात् ), तत्संस्कृतः , च , अपमः , स्फुटतरः , (भवति ) ॥१४॥

वक्रास्ताद्यं तिथिपटगतं तद्दिनेऽस्योक्तकेन्द्रं स्यात्तच्चाल्पं त्वभिमतदिने स्वाशुकेन्द्रोक्तगत्या ॥

तस्मात्प्राग्वच्चलफलमिदं चालितस्पष्टखेटे व्यस्तं देयं मृदुजफलभाक्स्यात्ततो वा शराद्यम् ॥१५॥

तिथिपटगतम् , वक्रास्त द्यम् , तद्दिने , अस्य , उक्तकेन्द्रम् , स्यात् , तत् , तु , अभिमतदिने , स्वाशुकेन्द्रोक्तगत्या , च , अल्पम् , तस्मात् , प्राग्वत् , चलफलम् , साघ्यम् , इदम् , चालितस्पष्टखेटे , व्यस्तम् , देयम् (सः ), मृदुजफलभाक् , (भवति ) ततः वा , शराद्यम् , साध्यम् ॥१५॥

प्राक्रिभेण वर्जितात्संयुतात्तु पश्र्चिमे ॥

खेटतोपमाक्षयोः संस्कृतिर्नता लवाः ॥१६॥

षट्शैलाष्टनवार्कधृत्यदितिजाः खण्डानि कार्य्यं नतांशांशांशप्रमखण्डकैक्यमगतोच्छिष्टांशघाताद्युतम् ॥

आशाप्त्या रवित्दृच्छराङ्गुलहत लिप्ता ग्रहे ता नतांशेष्वोः स्वर्णमभिन्नभिन्नदिशि स व्यस्तं परे दृग्ग्रहः ॥१७॥

प्राक् , त्रिभेण , वर्जितात् , पश्र्चिमे , तु , संयुतात् , खेटतः , क्रांतिः , (साध्या ) अपमाक्षयोः , संस्कृतिः , नताः , लवाः , (स्युः ) ॥१६॥

षट्शैलाष्टनवार्कधृत्यदितिजाः , (एतानि ) खण्डानि , नतांशांशांशप्रमखण्डकैक्यम् , कार्य्यम् , अगतोच्छिष्टांशघ तात् , आशाप्त्या , युतम् शरांगुलहतम् , रविहृत् , लिप्ताः , (भवंति ) ताः , नतांशेष्वोः , अभिन्नभिन्नदिशि , ग्रहे , स्वर्णम् , (देयाः ), परे , व्यस्तम् , (देयाः ) सः दृग्ग्रहः , (भवति ) ॥१७॥

अंकसंख्या

दृक्कमांक

१२

१८

३३

कल्प्योऽल्पो रविरर्कदृक्खचरयोरन्यश्र्च लग्नं तयोर्मध्ये स्युर्घटिकाश्र्च पूर्ववदिमाः पश्र्चात्स चक्रार्द्धयोः ॥

षड्घ्नाः काललवा अमीभिरधिकैर्गम्योऽस्त ऊनैर्गतः प्रोक्तेभ्योऽभ्यधिर्कर्गतः समुदयो न्यूनैस्तु गम्यो भवेत् ॥१८॥

रविः , अर्कदृक्खचरयोः , अल्पः , कल्प्यः , (यः ) अन्यः , च , (तस्य ,) लग्नम् , (कल्प्यम् ,) तयोः , मध्ये , च , (अयनांशान् दत्त्वा ,) पूर्ववत् , (कालः , साध्यः ,) पश्चात् , चक्रोर्द्धयोः , सः , (साध्यः ,) इमाः , घटिकाः , च , षड्घ्नाः , काललवाः , स्युः , अभीभिः , अधिकैः , अस्तः , गम्यः , ऊनैः , गतः , (भवेत् ) समुदयः , (तु ,) प्रोक्तेभ्यः , अभ्यधिकैः , गतः , न्यूनैः , गम्यः , भवेत् ॥१८॥

खभ्राग्निभिर्विनिहिताः कथितेष्टकालभागान्तरस्य कलिका रविभोदयाप्ताः ॥

तत्सप्तमेन परतोऽथ जवान्तराप्ता योगेन वक्रिणि दिनान्युदयास्तयोः स्युः ॥१९॥

कथितेष्टकालभागान्तरस्य , कलिकाः , खाभ्राग्निभिः , विनिहिताः , (ततः ), रविभोदयाप्ताः , अथ , परतः , तत्सप्तमेन , (भक्ताः , ततः ), जवान्तराप्ताः , (भक्ताः ), वक्रिणि , (ग्रहे ) योगेन , (भक्ताः ), उदयास्तयोः , दिनादि , स्युः ॥१९॥

स्यात्खाभ्राग्न्युदयान्तरं भवित्दृतं स्वर्णं पृथूनोदये यत्तत्संस्कृतदृष्टिकर्म्मलवतः प्राणांशसंस्कारिताः ।

पूर्वोक्ता भृगुचन्द्रयोः क्षणलवाः स्पष्टा भृगोश्र्चोनिता द्वाभ्यां तैरुदयास्तदृष्टिसमता स्याल्लक्षितैषा मया ॥२

खाभ्राग्न्युदयान्तरम् , भविहृतम् , (तत् ), यत् , (फलम् ) स्यात् , (तत् ) पृथूनोदये स्वर्णम् , (का र्यम् ), तत्संस्कृतदृष्टि , कर्म्मलवतः , प्राणांशसंस्कारिताः , पूर्वोक्ताः , क्षणलवाः , स्पष्टाः , (स्युः ), भृगोः , च , द्वाभ्याम् , ऊनिताः , (कार्य्याः ,) तैः , (शुक्रचन्द्रयोः ), उदयास्तदृष्टिसमता , स्यात् , एषा , लक्षिता ॥२

पलभाष्टवधोनसंयुता गजशैला वसुखेचरा लवाः ॥

इह तावति भास्करे क्रमाद्धटजोऽस्तं ह्युदयं च गच्छति ॥२१॥

गजशैलाः , वसुखेचराः , लवाः , पलभाष्टवधोनसंयुताः , (कार्य्याः ) तावति , भास्करे (सति ), इह क्रमात् , घटजः , हि , अस्तम् , उदयम् च गच्छति ॥२१॥

खेचरोऽर्कास्तकाले सषड्भार्कतो योऽधिकोऽल्पोऽर्कतो निश्युदेतीह सः ॥

अस्तमेत्यन्यन्यथाऽथो विधेयः क्रमात्पूर्वपश्र्चात्स्थदृक्कर्म्मभाक्स ग्रहः ॥२२॥

अर्कास्तकाले , यः , खचरः , सषड्भार्कतः , अधिकः , (वा , यः , केवलात् ,) अर्कतः , अल्पः , सः , इह , निशि , उदेति , अन्यथा , अस्तम् , एति , अथो , सः , ग्रहः , क्रमात् , पूर्वपश्र्चात्स्थदृक्कर्म्मभाक् , विधेयः ॥२२॥

उद्रमे यातकालः खगात्त्वस्तके षड्भयुक्तात्सषड्भार्कभोग्यान्वितः ॥

युक्तमध्योदयोऽस्योद्रमास्ते भवेद्रात्रियातोऽथ तत्कालखेटात्स्फुटः ॥२३॥

उद्रमें , (सति ), खगात् , यातकालः , (साध्यः ,) अस्तके , तु , षड्भयुक्तात् , (यातकालः , साध्यः ), सषडमार्कंभोग्यान्वितः , युक्तमध्योदयः , अस्य , उद्रमास्ते , रात्रियातः , भवेत् , अथ , तत्कालखेटात् , स्फुटः (स्यात् ) ॥२३॥

इन्दोस्तु गोपलाढ्योनः कार्य्योऽथ प्रतिनाडिकम् ।

युतो द्विद्विपलैः स्पष्टः किं स्यात्तात्कालिकेन्दुना ॥२४॥

इन्दोः , (उदयास्तकालः ), गोपलाढ्योनः , (कार्य्यः ), अथ , तु , प्रतिनाडिकम् , द्विद्विपलैः , युक्तः , स्पष्टः , (भवति ), (पुनः ), तात्कालिकेन्दुना , किम् , स्यात् ॥२४॥

इति श्रीगणकवर्यपण्डितगणेशदेवज्ञकृतौ ग्रहलाघवकरणग्रन्थे पश्र्चिमोत्तरदेशीय मुरादाबादवास्तव्यकाशीस्थराजकीयसंस्कृत

विद्यालयप्रधानाध्यापक -पंडितस्वामिराममिश्रशास्त्रिसान्निध्याधिगतविद्यभारद्वाजगोत्रोत्पन्नगौडवंशावतंसश्रीयुतभोलानाथनूजपंडितरामस्वरूपशर्म्मणा कृतया सान्वयभाषाटीका सहितः अस्तो दयाधिकारः समाप्तिमितः ॥९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-10-24T11:47:58.3370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

sternacostal suture

  • Zool. अधरकपर्शुका सीवनी 
RANDOM WORD

Did you know?

Gotra. Vats & vatsayan are same ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site