ग्रहलाघवः - पाताधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


नन्दघ्नायनभागतुल्यघटिकोनाः सार्द्धविश्र्वे तथा तारास्तावति साग्रयोगविगमे पातो व्यतीपातकः ॥

ज्ञेयो वैधृतिरत्र यातघटिकाः सर्वर्क्षनाडीहताः स्पष्टाः स्युः शरषड्त्दृता इह तमोऽकौ सायनांशौ कुरु ॥१॥

सार्द्धविश्र्वे , तथा , ताराः , नन्दघ्नायनभागतुल्यघटिकोनाः , (कार्य्याः ) तावति , साग्रयोगविगमे , व्यतीपातकः , वैधृतिः , (च ), पातः ज्ञेयः , अन्न , यातघटिकाः , सर्वर्क्षनाडीहताः , शरषडूहृताः , स्पष्टाः , स्युः , इह , तमोऽर्को , सायनांशौ , कुरु ॥१॥

गोलैक्ये साग्वर्कभान्वोः सदा स्यात्पातोऽन्यत्वेचेद्रवेर्बाहुभागाः ॥

पञ्चेषुभ्योऽल्पास्तदाऽस्त्येव पातः पुष्टाश्र्चेत्तत्संशयस्तं च भिद्मः ॥२॥

साग्वर्कभान्वोः , गोलैक्ये , (सति ), सदा , पातः , स्यात् , चेत् , अन्यत्वे रवेः , बाहुभागाः , (कार्य्याः ), (ते ), पञ्चेषुभ्यः , अल्पाः , तदा , पातः , अस्ति , एव , पुष्टाः , चेत् (तदा ), तत्संशयः , तम् , च , वक्ष्यमाणप्रकारेण , (वयम् ), भिद्मः ॥२॥

खाभ्रेन्दुद्विरसा धृतिर्नगशराः साग्वर्कभान्वोः पदैक्येऽर्द्धानि त्र्यगरुद्रभूपतिनखास्त्र्यक्षीणि भेदे क्रमा ॥

क्षेपः षड्दश चार्ककोटिजलवेष्वंशप्रमार्द्धैक्यकं शेषांशैष्यवधेषुभागसहितं सन्धिर्भवेत्क्षेपयुक् ॥३॥

साग्वर्कभुजांशका यदाऽल्पाः सन्धेः क्रान्तिसमत्वमस्ति चेत् ॥

अधिका न तदा भुजांशसंध्यंतरसादृश्यमिहापमान्तरं स्यात् ॥४॥

साग्वर्कभान्वोः , पदैक्ये , खान्भ्रेन्दुद्विरसाः , धृतिः , नगशराः , भेदेः , अगरुद्रभूपतिनखाः , त्र्यक्षीणि , अर्द्धानि , (स्युः ), षट् , दश , च , क्रमात् , क्षेपः , अर्ककोटिजलवेष्वंशप्रमाद्धैक्यकम् , शेषांशैष्यवधेषुभागसहितम् , (ततः ), क्षेपयुक् , सन्धिः , भवेत् , यदा , साग्वर्कभुजांशकाः , सन्धेः , अल्पाः , (यदा ), क्रान्तिसमत्वम् , अति अधिकाः , चेत् , तदा , न , भुजांशसन्घ्यन्तरसादृश्यम् , अपमान्तरम् , स्यात् ॥३॥४॥

खण्ड

पदैक्यखण्ड

१८

५७

पदभेदखण्ड

११

१६

२०

२३

पदे युग्मौजेऽर्कः समविषमगोलः सतमसस्तदा यातः पातस्त्वगत इतरत्वे निगदितात् ॥

विभिन्ने गोले चेदिह कृतशरांघ्रेर्लघुतरा खेर्दोर्भागाः स्यादिह रविपदान्यत्वमुचितम् ॥५॥

सतमसः , अर्कः , (यदि ), युग्मौजे , पदे , समविषमगोलः , तदापातः , यातः , (स्यात् ), निगादितात् , इतरत्वे , तु , अगतः , (स्यात् ), इह विभिन्न , गोले , चेत् , कृतशराङ्घ्रेः , रवेः , दोर्भागाः , लघुतराः , (तदा ) इह , रविपदान्यत्वम् , उचितं , स्यात् ॥५॥

पञ्चधा सागराः पञ्चधा वह्नयो द्वौ चतुर्धा कुभूखाभ्रमङ्का इषोः ॥

सागग्विनाद्दोलवेष्वंशतुल्यैक्यकं शेषभोग्याहतीष्वंशयुक्स्याच्छरः ॥६॥

सागराः , पञ्जधा , वह्नयः , पञ्चधा , द्वौ , चतुर्धा , (ततः ), कुभ्खाभ्रम् इषोः , अंकाः , (स्युः ), साग्विनात् , दोर्लवेष्वंशतुल्यैक्यकम् , शेषभोग्याहतीष्वंशयुक् , शरः , स्यात् ॥६॥

अंकसंख्या

१०

११

१२

१३

१४

१५

१६

१७

१८

शरांक

खैकादिके रविभुजांशदशांशके स्याद्धारोऽर्कविश्र्वमनुधृत्युडवोऽङ्करामाः ॥

खाश्र्वा द्विशत्युडुगुणास्तु शरार्द्धराप्त्या हीनोऽत्र स ह्यपमसंस्कृतये स्फुटः स्यात् ॥७॥

रविभुजांशदशांशके तु , खैकादिके , (सति ), अर्कविश्र्वमनुधृत्युडवः अंकरामाः , खाश्र्वाः , द्विशती , उडुगुणाः (क्रमात् ), हारः , स्यात् , अत्र , हि , शरात् , हराप्त्या , हीनः , सः , अपमसंस्कृतये , स्फुटः , स्यात् ॥७॥

लब्ध्यंक

हारांक

१२

१३

१४

१८

२७

३६

७०

२००

३२७

चतुर्धा नखा गोभुवो द्विर्गजाब्जा नृपाष्टीन्द्रविश्र्वार्कदिग्वस्वगाक्षाः ॥

त्रयः क्ष्माऽपमाङ्काः क्रमादर्कबाहोर्लवेष्वंशतुल्यो गतोऽन्यस्य शेषम् ॥८॥

नखाः , चतुर्घा , गोभुवः , द्विः , गजाब्जाः , नृपाष्टीन्द्रविश्र्वार्कदिग्वस्वगाक्षाः , त्रयः , क्ष्मा , (एते ), क्रमात् , अपमाङ्काः , (सन्ति ), अर्कबाहोः , लवेष्वंशतुल्यः , गतः , शेषम् , अन्यस्य , (स्यात् ) ॥८॥

लब्ध्यंक

१०

११

१२

१३

१४

१५

१६

१७

१८

क्रान्त्यक

२०

२०

२०

२०

१९

१८

१८

१६

१६

१४

१३

१२

१०

क्रमोत्क्रमादुक्तशरापमाङ्कान्संख्याहि भोग्यात्क्रमतः षडङ्का ॥

स्थाप्या गतैष्या गतगम्यपाते युग्मेऽन्यथौजे स्युरिमेऽयनांशाः ॥९॥

अन्त्याद्विलोमा यदि तेऽन्यदिक्का अथापमाङ्काः क्रमशः शराङ्क ॥

सुसंस्कृतास्त्रीन्दुत्दृतापमैष्याङ्केनापि ते स्पष्टतरा भवेयुः ॥१

( हे गणक !) उक्तशरापमाङ्कान् , क्रमोत्क्रमात् , संख्याहि , भोग्यात , क्रमतः , गतमम्यपाते , गतैष्याः , षट् , अङ्काः , स्थाप्याः , ( एवम् ), युग्मे , ओजे , अन्यथा , इमे , अयनांशाः स्युः , यदि , ते , अन्त्यात् , विलोमाः , ( तदा ), अन्यदिक्काः , ( ज्ञेयाः ) अथ , क्रमशः , शराङ्कः , अपमांकाः , संसंस्कृताः , ( ततः ), त्रीन्दुहृतापमैष्यांकेन , अपि , संस्कृताः ते , स्पष्टतराः , भवेयुः ॥९॥१

प्राक्स्थापिताः शेषलवाः शराप्ता रूपाद्विशुद्धा लघुसंज्ञकः स्यात् ॥

आद्यः स्फुटाङ्को लघुना हतो यस्तेनाढ्यबाणात्क्रमशोऽथ जह्यात् ॥११॥

तानङ्काञ्छेषमशुद्धभक्तं विशुद्धसंख्यासहितंलघूनम् ॥ त्रिघ्नं भनाडीघ्नमिभाप्तमाप्तयुतैष्यनाडीष्विह पातमध्यम् ॥१२॥

प्राक् , स्थापिताः , शेषलवाः , शराप्ताः , (ततः ) रूपात् , बिशुद्धा लघुसंज्ञकः , स्यात् , यः , आद्यः , स्फुटाङ्कः , (सः ) लघुना , हतः , (कार्य्यः ) शेषम् , अशुद्धभक्तम् , (ततः ) विशुद्धसंख्यासहितम् , (ततः ) लघूनम् , (ततः ), त्रिघ्नम् , (ततः ), भनाडीघ्नम् , (ततः ), इभाप्तम् , सत् , यातैष्यनाडीषु इह , पातमध्यम् (स्यात् ) ॥११॥१२॥

अविशुद्धत्दृता यमार्कनाड्यः प्राक्पश्र्चात्स्थितिरत्र पातमध्यात् ॥

शुद्धाः क्वचिदत्र चेत्षडङ्काः संस्कार्याश्र्च तदग्रतस्रयोऽङ्काः ॥१३॥

यमार्कनाड्यः , अविशुद्धहृताः (कार्य्याः , फल -घटिकाभिः ) पातमध्यात् अत्र , प्राक् , पश्र्चात् , स्थितिः , (स्यात् ); अत्र क्वचित , षट् अंकाः , चेत् , (तदा ) च , तदग्रस्तः , त्रयः , अंकाः , संस्कार्य्याः ॥१३॥

षड्भार्कमच्युतरविस्त्विह सावनाब्जोऽथार्के घटीसमकलाश्र्चलनं त्वथेन्दोः ॥ भुक्तयंशकाभघटिकाप्तखखाहयः स्युस्तच्चालितापमसमत्वामिह प्रतीत्यै ॥१४॥

इह , तु , षड्भार्कमच्युतरविः , सावनाब्जः , (स्यात् ), अथ , अर्के , घटीसमकलाः , चलनम् , (देयम् ), अथ , तु , भघटिकाप्तखखाहयः , इन्दोः , भुक्त्यंशकाः , स्युः , तच्चालितापमसमत्वम् , इह प्रतीत्यै (स्यात् ) ॥१४॥

इति श्रीगणकवर्यपण्डितगणेशदैवज्ञकृतौ ग्रहलाघवाख्यकरणग्रन्थे पश्र्चिमोत्तरदेशीयमुरादाबादवास्तव्य -काशीस्थराजकीयसंस्कृतविद्यालयप्रधानाध्यापकपण्डितस्वामिराममिश्रशास्त्रिसान्निध्याधिगतविद्य -भारद्वाज -गोत्रोत्पन्न गौडवंशावतंसश्रीयुतभोलानाथतनूज -पण्डितरामस्वरूपशर्म्मणा कृतया सान्वयभाषाटीकया सहितः पाताधिकारः समाप्तिमितः ॥१४॥

N/A

References : N/A
Last Updated : October 24, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP