TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

ग्रहलाघवः - त्रिप्रश्राधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


अथ त्रिप्रश्राधिकारो व्याख्यायते ।

लङ्कोदया विघटिका गजभानि गोऽङ्कदस्त्रास्त्रिपक्षदहनाः क्रमगोत्क्रमस्थाः ॥

हीनान्विताश्र्चरदलैः क्रमगोत्क्रमस्थैर्मेषादितो घटत उत्क्रमतस्त्विमे स्युः ॥१॥

गजमानि , गोङ्कदस्राः , त्रिपक्षदहनाः , एते , क्रमस्थाः , (मेषादित्रयाणाम् ,) विघटिकाः , लंकोदयाः , स्युः (एते , एव , उत्क्रमरथाः , कर्कादित्रयाणाम् , लंकोदयाः , स्युः , इमे , क्रमगोत्क्रमस्थाः , क्रमगोत्क्रमस्थैः , चरदलैः , हीनान्विताः , (क्रमतः ), मेषादितः उत्क्रमतः , घटतः (लंकोदयाः , स्युः ) ॥१॥

तत्कालाकः सायनः स्वोदयघ्ना भोग्यांशाः खत्र्युद्धृता भोग्यकालः ॥

एवं यातांशैर्भवेद्यातकालो भोग्यः शोध्योऽभीष्टनाडीपलेभ्यः ॥२॥

तदनु जहीहि गृहोदयॉंश्र्च शेषं गगनगुणघ्नमशुद्धत्दृल्लवाद्यम् ॥

सहितमजादिगृहैरशुद्धपूर्वैर्भवति विलग्नमदोऽयनांशहीनम् ॥३॥

( यस्मिन् , काले , लग्नम , साघ्यते ) तत्कालार्कः , सायनः , ( कार्य्यः ) भोग्यांशाः , स्वोदयघ्नाः , खत्र्युद्धृताः , भोग्यकालः , ( स्यात् ) एवम् , यातांशैः , यातकालः , भवेत् । भोग्यः , अभीष्टनाडी , पलेभ्यः , शोध्यः , तदनु , ( तस्मात् ), गृहोदयात् , च , जहीहि , शेषम् , गगनगुणघ्नम् , अशुद्धहृत् ( फलम् ), लवाद्यम् , ( स्यात् , तत् ) अजादिगृहैः अशुद्धपूर्वैः , सहितम् , अदः , अयनांशहीनम् , विलग्नम् भवति ॥२॥ ॥३॥

भोग्यतोऽल्पेष्टकालात्खरामाहतात्

स्वोदयाप्तांशयुग्भास्करः स्यात्तनुः ॥ऽऽ॥

भोग्यतः , अल्पेष्टकालात् , खरामाहतात् , स्वोदयाप्तांशयुक् , भास्करः , तनुः , स्यात् ऽऽ

अर्कभोग्यस्तनोर्भुक्तकालन्वितो युक्तमध्योदयोऽभीष्टकालो भवेत् ॥४॥

अर्कभोग्यः , तनोः , भुक्तकालान्वितः , (ततः ), युक्तमध्योदयः , अभीष्टकालः , भवेत् ॥४॥

यदि तनुदिननाथावेकराशौ तदंशांतरहत उदयः स्यात्खाग्नित्दृत्त्विष्टकालः ॥

इनत उदय ऊनश्र्चेत्स शोध्यो द्युरात्रान्निशि तु सरसभार्कात्स्यात्तनूरिष्टकाले ॥५॥

यदि , तनुदिननाथौ , एकराशौ , (तदा ), तदंशान्तरहतः , उदयः , खाग्निहृत् , इष्टकालः , स्यात् , चेत् , उदयः , इनतः , ऊनः , (तदा ) सः , द्युरात्रात् , शोध्यः , निशि , तु , सरभार्कात् , इष्टकाले , तनूः स्यात् ॥५॥

गोलौ स्तः सौम्ययाम्यौ क्रियधटरसभे खेचरेऽथायने ते नक्रात्कर्काच्च षडूभेऽथ चरपलयुतोनास्तु पञ्चेन्दुनाड्यः ॥

घस्रार्द्ध गोलयोः स्यात्तदयुतखगुणाः स्यान्निशार्द्धं त्वथाक्षच्छायेषुघ्न्यक्षभायाः कृतिदशमलवोनेयमाशापलांशाः ॥६॥

खेचरे , क्रियधटरसभे , सौम्ययाम्यौ , गोलौ , स्तः । अथ , नक्रात् , कर्कात् , च , षडभे , अयने , स्तः , अथ , तु , पञ्चेन्दुनाड्यः , गोलयोः , चरपलयुतोनाः , घस्रार्द्ध , स्यात् । तदयुतखगुणाः , निशार्द्धं स्यात् । अथ , तु , अक्षच्छायेषुघ्नी , अक्षभायाः , कृतिदशमलवोना , इयम् , आशापलांशाः स्युः ॥६॥

यातः शेषः प्राक्परत्रोन्नतं स्यात्

कालस्तेनोनं द्युखण्डं नतं स्यात् ॥ऽऽ॥

प्राक् , यातः , उन्नतम् , स्यात् , परत्र , शेषः , कालः , (उन्नतम् , स्यात् ), तेन ऊनम् , द्युखण्डम् , नतम् स्यात् ऽऽ

अक्षच्छायावगतत्त्वांशयुक्तो मार्तण्डः स्यादङ्गुलाद्योऽक्षकर्णः ॥७॥

अक्षच्छायावर्गतत्त्वांशयुक्तः , मार्त्तण्डः , अङ्गुलाद्यः , अक्षकर्णः , स्यात् ॥७॥

वेदेशाः शरत्दृराढ्यरहिताः सौम्यानुदग्गोलयोर्हारोऽथो घटिकार्द्धयुङ्नतकृतेर्द्य्वंशः समाख्यः स्मृतः ॥

चेत्सार्द्धत्रिकृतो नतं यदधिकं वेदाहतं तद्वियुक्स्पष्टोऽसौ तदयुग्घरस्त्वभिमतः स्यादक्षकर्णोद्धृतः ॥८॥

वेदेशाः , सौम्यानुदग्गोलयोः , शरहृच्चराढ्यरहिताः , हारः , (स्यात् ), अथो , घटिकार्द्धयुक् , नतकृतेः द्य्वंशः , समाख्यः , स्मृतः। चेत् , नतम् , यत् , सार्द्धत्रिकृतः , अधिकम् , (स्यात् , तदा , सार्द्धत्रयोदशहीनम् , कृत्वा ) वेदाहतम् , तद्वियुक् , असौ , स्फुटः , (स्यात् ) । तदयुक् ह्वरः , अक्षकर्णोद्धृतः , अभिमतः , स्यात् ॥८॥

दिग्घ्नाक्षभात्दृतचरं स्वगुणं द्विनिघ्नं स्वेष्वंशयुग्युगभवान्वितमत्र भाज्यः ॥

कर्णोऽगुलादिक इहेष्टहराप्तभाज्यःकर्णार्कवर्गविवरात्पदमिष्टभा स्यात् ॥९॥

दिग्घ्नाक्षमाहृतचरम् , स्वगुणम् , (तत् ), द्विनिघ्नम् , (ततः ), स्वेष्वंशयुक , (ततः ), युगभवान्वितम् , अत्र , भाज्यः , (स्यात् ) । इष्टहराप्तभाज्यः , इह अङ्गुलादिकः , कर्णः , (स्यात् ), कर्णार्कवर्गविवरात् , पदम् , इष्टभा स्यात् ॥९॥

कर्णः स्यात्पदमकभाकृतियुतेस्तद्भक्तभाज्यो हरोऽभीष्टस्तत्पलकर्णघातरहितो मध्यो हरो द्य्वाहतः ॥

चेद्वेदाङ्कधराधिकः पृथगतो वेदाङ्कभूताद्रणाप्ताढ्यस्तस्य पदं घटीमुखनतं स्यादर्द्धनाडीवियुक् ॥१०॥

अर्कभाकृतियुतेः , पदम् , कर्णः , स्यात् । तद्भक्तभाज्यः , अभीष्टः , हरः , स्यात् । तत्पलकर्णघातरहितः , द्य्वाहतः , मध्यः , हरः , चेत् , वेदांकधराधिकः , (स्यात् , तदा ), पृथक् (स्थाप्यः ) अतः , वेदांकभूतात् , गुणाप्ताढ्यः (कार्य्यः ), तस्य पदम् , अर्द्धनाडीवियुक् , घटीमुखनतम् , स्यात् १०

चत्वारिंशदशीतिरद्रिकुभवः क्वक्षेन्दवो भूधृती षट्खाक्षीणि जिनाश्र्विनोऽङ्गविकृती खाब्ध्यश्र्विनः सायनात् ॥

खेटाद्दोर्लवदिग्लवप्रमगतोंकोऽसौ तदूनागताच्छेषघ्नाद्दश लब्धियुग्दशत्दृतोंऽशाद्योऽपमः स्यात्स्वदिक् ॥११॥

सायनात् , खेटात् , दोर्लंवदिग्लवप्रमगतः , अंकः , (स्यात् ) । असौ , तदूनागतात् , शेषघ्नात् , दशलब्धियुक् , (ततः ) दश्हृतः , अंशाद्यः , स्वदिक् , अपमः , स्यात् । (अथ ) चत्वारिंशत् , अशीतिः , अद्रिकुभवः , क्वक्षेन्दवः , भूधृती , षट् खाक्षीणि , जिनाश्र्विनः , अङ्गविकृती , खाब्घ्यश्र्विनः , (एत्ते , नव , अंकाः , स्युः ) ॥११॥

४०

८०

११७

१५१

१८१

२०६

२२४

२३६

२४०

स्युः खण्डानि खवार्द्धयोंऽबरकृताः शैलाग्नयोऽब्ध्यग्नयस्त्रिंशत्तत्त्वधृतीनवारिनिधयस्तैः सायनांशग्रहात् ॥

बाह्वंशाभ्रकुभागसंख्यकयुतिः शेषैश्र्च घाताद्दशाप्त्याढ्या दिग्वित्दृता लवादिपपमस्तद्दिक्स्वगोलाद्भवेत् ॥१२॥

खवार्द्धयः , अम्बरकृताः , शैलाग्नयः , अब्घ्यग्नयः , त्रिंशत् , तत्त्वधृती , इनवारिनिधयः , (एतानि ), खण्डानि , स्युः , तैः , सायनांशग्रहात् , बाह्वंशाभ्रकुभागसंख्यकयुतिः , च , शेषैः , घातात् , दशाप्त्याढ्या , (ततः दिग्विहृता , स्वगोलात् , तिहिक् , लवादिः , अपमः स्यात् ॥१२॥

४०

४०

३७

३४

३०

२५

१८

१२

षट्षडिषूदधिदृत्कुभिरर्द्धैः खेटभुजांशदिनांशमितैक्यम् ॥

शेषहतैष्यदिनांशयुतं वांशाद्यपमः सुखसंव्यवत्दृत्यै ॥१३॥

वा , षट्षडिषूदधिदृक्कुभिः अर्द्धैः , खेटभुजांशदिनांशमितैक्यम् , शेषहतैष्यदिनांशयुतम् , अंशाद्यपम्ः , सुखसंव्यवत्दृत्यै , (स्यात् ) ॥१३॥

ततो दलानि शोधयेत्तिथिघ्नशेषमेष्यत्दृत् ॥

तिथिघ्नशुद्धसंख्यया युतं भवन्ति दोलवाः ॥१४॥

ततः , दलानि , शोघयेत् , तिथिघ्नशेषम् , एष्याहृत् , (कार्य्यम् ) (ततः ), तिथिघ्नशुद्धंसंख्यया , युतम् , दोर्लवाः , भवन्ति ॥१४॥

द्युदलतिथिवियोगस्तद्विनाड्यश्र्चरं स्यादथ निजगजभागोपेतमक्षप्रभाप्तम् ॥

दिनकृदपमभागास्तत्त्वलिप्तायुताः स्युर्द्युदलकृशपृथुत्वे ते क्रमाद्याम्यसौम्याः ॥१५॥

द्युदलतिथिवियोगः , विनाड्यः , चरम् , स्यात् , अथ , तत् , निजगजभागोपेतम् , (ततः ) अक्षप्रभाप्तम् , (ते ) दिनकृदपमभागाः , स्युः , ते , तत्त्वलिप्तायुताः , द्युदलकृशपृथुत्वे , क्रमात् , याम्यसौम्याः , स्युः ॥१५॥

क्रान्त्यक्षजसंस्कृतिर्नतांशास्तद्धीना नवतिः स्युरुन्नतांशाः ॥

दिनमध्यभवास्ततोऽपि ये स्युः क्रान्त्यंशा लघुखण्डकैः पराख्यः ॥१६॥

क्रान्त्यक्षजसंस्कृतिः , नतांशाः , स्युः , तद्धीना , नवतिः , दिनमध्यभवाः , उन्नतांशाः , (स्युः ), ततः , अपि , लघुखण्डकैः , ये , क्रान्त्यंशाः , स्युः , (ते ), पराख्यः ॥१६॥

नवतिगुणितमिष्टमुन्नतं द्युदलत्दृतं फलभागतोपमः ॥

कथितपरगुणस्तदुद्धृता रविनवषटूछ्रवणोथऽवा भवेत् ॥१७॥

इष्टम् , उन्नतम् , नवतिगुणितम् , (ततः ,) द्यदलहृतम् , (कार्य्यंम् तदा ,) फलभागतः , अपम्ः , कथितपरगुणः , (कार्य्यः ) तदुद्धृताः रविनवषटू , अथवा श्रवणः , भवेत् ॥१७॥

तरणिनवरसाः श्रवोद्धृताः परवित्दृता अपमोभवेत्ततः ॥

दिनदलगुणिता भुजांशका नवतित्दृता अथवेष्टमुन्नतम् ॥१८॥

अथवा , तरणिनवरसाः श्रवोद्धृताः (ततः ), परविहृताः , कार्य्याः , फलम् , अपमः , भवेत् । ततः , भुजांशकाः , दिनदलगुणिताः , (ततः ) नवतिहृताः , इष्टम् , उन्नतम् , (स्यात् ) ॥१८॥

खांकघ्नोन्नतघटिका दिनार्द्धभक्ता भागाः स्युस्तदपमजांशकाः परघ्नाः ॥

सिद्धाप्ता निगदितवत्ततो भुजांशास्तत्काले स्युरिति च यन्त्रजोन्नतांशाः ॥१९॥

खांकघ्नोन्नतघटिकाः , दिनार्द्धभक्ताः , भागाः , स्युः , । तदपमजांशकाः , परघ्नः , (ततः ), सिद्धप्ताः , ततः , निगदितवत् , भुजांशाः , तत्काले , यंत्रजोन्नतांशाः , स्युः ॥१९॥

अभिमतयन्त्रलवास्ततोऽपमोऽसौ जिननिघ्नः परत्दृत्ततो भुजांशाः ॥

द्युदलघ्नाः खनवोद्धृताः कपाले प्राक्पश्र्चाद्धटिकाः क्रमाद्रतैष्याः ॥२

अभिमतयन्त्रलवाः , ततः , (यः ,) अपमः , असौ , जिननिघ्नः परहृत् , ततः , भुजांशाः , (स्युः , ते ), द्युदलघ्नाः , खनवोद्धृताः , प्राक्पश्र्चात्कपाले , क्रमात् , गतैष्याः , घटिकाः , (स्युः ) ॥२

यन्त्रलवोत्थक्रान्तिलवाप्ता वस्विभदस्त्राः स्यादिह कर्णः ॥ऽऽ॥

यन्त्रलवोत्थक्रान्तिलवाप्ताः , वस्विभदस्त्राः , इह , कर्णः , स्यात् ऽऽ

कर्णत्दृतास्ते स्यादपमोऽतो

बाहुलवाः स्युर्यन्त्रलवा वा ॥२१॥

ते , कर्णहृताः , अपमः , स्यात् , अतः , बाहुलवाः , वा , यन्त्रलवाः , स्युः ॥२१॥

वृत्ते समभूगते तु केन्द्रस्थितशङ्कोः क्रमशो विशत्यपैति ॥

छायाग्रमिहापरा च पूर्वा ताभ्यां सिद्धतिमेरुदक्च याम्या ॥२२॥

समभूगते , वृत्ते , केन्द्रस्थितशकोः , छायाग्रम् , (यत्र ) विशति , अपैति , च , क्रमशः , इह , अपरा , (स्यात् ), पूर्वा , (स्यात् ) ताभ्याम् , सिद्धतिमेः , उदक् , याम्या , च (स्यात् ) ॥२२॥

वर्कक्रान्तिलवाक्षकर्णनिहतिर्भाकर्णनिघ्नीनभोक्षाग्न्याप्ता रविदिग्भुजो यमदिशद्विघ्नाक्षभासंस्कृतः ॥

केन्द्रेभोत्थवृतौ स पूर्णगुणवद्भाग्रात्प्रदेयो भवेद्याम्योदक्सभुजार्धकेंद्रनिहिता रज्जुस्तु पूर्वापरा ॥२३॥

वा अर्कक्रान्तिलवाक्षकर्णनिहतिः , भाकर्णनिघ्नी , नभोक्षाग्न्याप्ता , रविदिग्भुजः , स्यात् । (सः ) यमदिशद्विघ्नाक्षभासंस्कृतः , (शेषदिग्भुजः स्यात् । ) सः , केन्द्रेभोत्थवृतौ , पूर्णगुणवत् , भाग्रात , प्रदेयः , सः , याम्योदक् , भवेत् , भुजार्द्धकेन्द्रनिहिता , रज्जुः , तु , पूर्वापरा (स्यात् ) ॥२३॥

द्युमानखगुणान्तरं शिवगुणं दिनेऽल्पाधिके ह्यपागुदगथानुदग्भवति यन्त्रभागापमः ॥

वसुघ्न्यभयसंस्कृतिर्नवतियन्त्रभागान्तरोद्भवापम त्दृतास्ततो भुजलवा दिगंशाः स्मृताः ॥२४॥

शिवगुणम् , द्युमानखगुणान्तरम् , दिने , अल्पाधिके , अपाक् , उदक् भवति , अथ , हि , यन्त्रभागापमः (सदा ), अनुदक् (भवति ) उभयसंस्कृतिः , वसुघ्नी , ततः , नवतियन्त्रभागान्तरोद्भवापमहृताः , (ततः ये ) भुजलवाः (ते ), दिगंशाः , स्मृताः ॥२४॥

समभुवि निहिते तुरीययन्त्रे स्पृशति यथा च दिगंशकाग्रकेन्द्रे ॥

अवलम्बविभोत्थकेन्द्र संस्थेषीकाभाऽथ दिशोऽत्र यन्त्रगाः स्युः ॥२५॥

समभुवि , तुरीयन्त्रे , निहिते (सति ), दिगंशक्राग्रे , अवलम्बविभोत्थकेन्द्रसंस्थेषीकाभा , यथा , स्पृशति , (तथा , यन्त्रे , साधिते ) अत्र यन्त्रगाः , दिशः , स्युः ॥२५॥

क्रान्तिः स्फुटाभिमतकर्णगुणाक्षकर्णनिघ्नी खखाद्रित्दृपक्रमदिग्भुजः स्यात् ॥

संस्कारितो यमदिशाक्षभयास्फुटोऽसौ तद्वर्गभाकृतिवियोगपदं च कोटिः ॥२६॥

स्फुटा , क्रान्तिः , अभिमतकर्णगुणाक्षकर्णनिघ्नी , (ततः ), खखाद्रिहृत , (कार्य्या , तदा ), अपक्रमदिग्भुजः , स्यात् । असौ , यमदिशा , अक्षभया , संस्कारितः , स्फुटः (भवति ), तद्वर्गभाकृतिवियोगपदम् , च , कोटिः , (स्यात् ) ॥२६॥

ज्ञात्वाऽऽशाः परखेचरे परमुखीं प्राक्खेचरे प्राङ्मुखी बिन्दोः

कोटिमतो भुजं स्वदिशि तन्मध्ये प्रभां विन्यसेत् ॥

बिन्दोर्भाग्रगशंकुमस्तकगते सूत्रे नले खे खगं के बिन्दुस्थनराग्रभाग्रगगते सूत्रे नले लोकयेत् ॥२७॥

आशाः , ज्ञात्वा , बिन्दोः , परखेचरे , परमुखीम् , प्राक्खेचरे , प्राङ्मुखीम् , कोटिम् , विन्यसेत् । अतः , स्वदिशि , भुजम् , (विन्यसेत् ) । तन्मध्ये , प्रमाम् , (विन्यसेत् ) बिन्दोः , भाग्रगशंकुमस्तकगते , सूत्रे , बले , खे , खगम् , लोकयेत । बिन्दुस्थनराग्रभाग्रगते , सूत्रे , नले , खे , (खगम् , लोकयेत् ) ॥२७॥

इति श्रीगणकवर्य्यपण्डितगणेशदैवज्ञकृतौग्रहलाघवाख्यकरणग्रन्थे पश्र्चिमोत्तरदेशीयमुरादाबादवास्तव्यकाशीराजकीयविद्यालयपंडितस्वामिराममिश्रशास्त्रिसान्निध्याधिगतविद्यभारद्वाजगोत्रोत्पन्नगौडवंशावतंसश्रीयुत भोलानाथतनुजपंडितरामस्वरूपशर्म्मणा विरचितया विस्तृतोदाहरणसनाथीकृतान्वयसमन्वितया भाषाव्याख्यया सहितस्त्रिप्रश्नाधिकारः समाप्तिमितः ॥४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-10-23T22:55:10.8770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

leisurely

  • फुरसतीने 
RANDOM WORD

Did you know?

शंकराला अर्धी प्रदक्षिणा कां घालतात ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site