TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

ग्रहलाघवः - मासगणाद्ग्रहणद्वयसाधनाधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


अथ मासगणाद्ग्रहणद्वयसाधनाधिकारो व्याख्यायते ।

अथ मासगणात्सुलघुक्रियया ग्रहणद्वयसिद्धिकृतेऽभिदधे ॥

स्फुटसूर्यविपाततिथींश्र्च वपुर्ग्रसनादिविशेषचमत्कृतये ॥१॥

अथ , विशेषचमत्कृतये , लघुक्रियया , मासगणात् , ग्रहणद्वयसिद्धिकृते , स्फुटसूर्यविपाततिथीन् , वपुः , ग्रसनादि , च , अभिदघे ॥१॥

भानोः खम्भूः खाब्धयोऽयं ध्रुवः स्याच्छैलाः क्वर्का राशिपूर्वो व्यगोः स्यात् ॥

वृत्तस्याङ्का भूरसाश्र्चाथ तिथ्या वाराद्यस्याक्षाःखगास्तर्करामाः ॥२॥

खम्भू , भूः , खाब्धयः , अयम् , भानोः , ध्रुवः , स्यात् । शैलाः , क्वर्काः , राशिपूर्वः , व्यगोः (धुवः ), स्यात् । अङ्काः , भूः , रसाः , च वृत्तस्य , (ध्रुवः , स्यात् ) अथ अक्षाः , खगाः , तर्करामाः , तिथ्यः , वाराद्यस्य , (धुवः , स्यात् ) ॥२॥

धृवांक कोष्टक

नाम

रवि

व्यगु

वृत्त

वारादि

राशि

५ वार

अंश

९ घटी

कला

४०

१२

३६ पल

विकला

विप.

क्षेपो भाद्यः खं कृता भूदृशोऽर्के रुद्राः शैला नागचन्द्रा विपाते ॥

वृत्ते शून्यं वज्रिणश्र्चन्द्रबाणा वाराद्ये द्वौ व्यङ्घ्रिन्दाब्धयः स्यात् ॥३॥

खम् , कृताः , भूदृशः , अर्के , रुद्राः , शैलाः , नागचन्द्राः , विपाते , शून्यम् , वज्रिणः , चन्द्रबाणाः , वृत्ते , द्वौ , व्यङघ्रिनन्दाब्धयः , बाराद्ये , भाद्यः , क्षेपः , स्यात् , ॥३॥

क्षेपकांक कोष्टक

नाम

रवि

व्यगु

वृत्त

वारादि

राशि

११

२ वार

अंश

१४

४८ घ .

कला

२१

१८

५१

४५ प .

विकला

० विप .

मासगणाज्जनितो रविरूनश्र्चक्रहतध्रुवकेन निजेन ॥

सङ्कलिता इतरेऽथ च ते स्यिः क्षेपयुता निजमासि सितान्ते ॥४॥

मासगणात् , अनितः , रविः , निजेन , चक्रहतध्रुवकेन , ऊनः (कार्य्यः ) इतरे , (तेन ), सङ्कलिताः , (कार्य्याः ) अथ , च , ते . क्षेपयुताः , (सन्तः ), निजमासि , सितान्ते , स्युः ॥४॥

मासौघतो द्विगुणितान्नगषड्भिराप्तराश्यादिना रहितमासगणो रविः स्यात् ॥ऽऽ॥

द्विगुणितात् मासौघतः , नगषडभिः , आप्तराश्यादिना , रहितमासगणः , रविः स्यात् ऽऽ

मासा गृहाणि विनिजत्रिलवाश्र्च तेंऽशा

मासाङ्घ्रितुल्यकलिकाः स्युरयं विपातः ॥५॥

मासाः , गृहाणि , विनिजत्रिलवाः , ते , अंशाः , च , मासाङ्घ्रितुल्यकलिकाः , स्युः , अयम् , विपातः , (स्यात् )

स्वाद्र्य़ंशकेन रहिता मनुतष्टमामा

वृत्तं गणाभ्रकुलवाढ्यलवं गृहादि ॥ऽऽ॥

मनुतष्टमासाः , स्वाद्र्य़शकेन , रहिताः , गणाभ्रकुलवाढ्यलवम् गृहादि , वृत्तम् , (स्यात् ) ऽऽ

स्वार्धान्विता दिनमुखं मनुतष्टमासा

मासौघतो दशगुणाद्भगुणाप्तियुक्तम् ॥६॥

मनुतष्टमासाः , स्वार्द्धान्विताः (सन्तः ), दशगुणात् , मासौवतः भगुणाप्तियुक्तम् , दिनमुखम् , (स्यात् ) ॥६॥

रवौ पाक्षिकं चालनं खेन्द्रदेवा विपाते नभोबाणचन्द्रा नखाश्र्च ॥

षडर्का युगाक्षा गृहाद्यं च वृत्ते दिनाद्येनभोक्षाब्धयो बाणबाणाः ॥७॥

खेन्द्रदेवाः , रवौ , नभः , बाणचन्द्राः , नखाः , च , विपाते षट् , अर्काः , युगाक्षाः , वृत्ते , गृहाद्यम् , पाक्षिकम् , चालनम् , (स्यात् ), नभः , अक्षाब्धयः , बाणबाणाः , दिनाद्यै , (चालनम् , भवति ) ॥७॥

पाक्षिकचालन

नाम

रवि

व्यगु

वृत्त

वारादि

राशि

अंश

१४

१५

१२

० वार

कला

३३

२०

५४

४५ घटी

विकला

५५ प .

शरा वेदपक्षा भुजङ्गाग्नयोऽर्के व्यगौ षट् कृताः कुश्र्च षाण्मासिकं स्यात् ॥

शरा वार्धयस्त्रीषवो भादि वृत्ते दिनाद्ये तिथेद्वौ भवा भूर्दिनाद्यम् ॥८॥

शराः , वेदपक्षाः भुजङ्गाग्नयः , अर्के , षट् , कृताः , कुः , च , व्यगौ शराः , वार्धयः , त्रीषवः , वृत्ते . भादि षाण्मासिकम् . (चालनम् ) स्यात् द्वौ भवाः भूः तिथेः दिनाद्ये दिनाद्यम् , (स्यात् ) ॥८॥

षाण्मासिकचालन

नाम

रवि

व्यगु

वृत्त

वारादि

राशि

अंश

२४

२ वार

कला

३८

५३

११ घटी

विकला

१ प .

अभिंमततिथिसिद्ध्य़ै प्राक्परे यास्तु तिथ्यः

स्वयुगरसलवोनाश्र्चालनं स्याद् दिनाद्ये ॥

स्वयुगगुणलवोनाः स्याल्लवाद्ये दिनेशे स्वगुणनवलवोनाः विश्र्वनिघ्नाश्र्च वृत्ते ॥९॥

याः , प्राक् , परे , तिथ्यः , (स्युः ), (ताः ), अभिमततिथिसिद्ध्य़ै , स्वयुगरसलवोनाः , दिनाद्ये , चालनम् , स्यात् । स्वयुगगुणलवोमाः , (ताः ), दिनेशे , लवाद्यम् , (चालनम् , स्यात् ) स्वगुणनवलवोनाः , विश्र्वनिघ्नाः , च , (ताः ), वृत्ते , (चालनम् ), स्यात् ॥९॥

अत्यष्ट्यष्टिवृषार्कगोशरदृशः खण्डानि तैर्वृत्तदोर्भागत्रीन्दुलवप्रमेक्यमगतघ्नोच्छिष्टविश्र्वांशयुक् ॥

प्राग्वत्स्यात्स्वमृणं फलं त्विति रवेः केन्दाद्यदन्यच्च तद् व्याप्तं स्वाङ्गलवोनितं कुरु तयोः कार्य्या पुनः संस्कृतिः ॥१०॥

अत्यष्ट्यष्टिवृषार्कगोशरदृशः , खण्डानि , स्युः , तैः , वृत्तदोर्भागत्रीन्दुलवप्रमैक्यम् , (कृत्वा ), अगतघ्नोच्छिष्टविश्र्वांशयुक् , प्राग्वत् , स्वम् , ऋृणम् , फलम् , स्याम् । इति , तु , अन्यत् , च , केन्द्रात् , रवेः , यत् , फलम् , (तत् ), (साध्यम् ) । तद्य्वाप्तम् , स्वांगलवोनितम् , कुरु , पुनः , तयोः , संस्कृतिः , कार्य्या ॥१

१७

१६

१४

१२

वृत्तैष्यदलाद्रसाप्तियुक्ता रहिताः कर्किमृगादिके च वृत्ते ॥

सगुणांशखवह्नयो हरः स्यादथ सूर्याच्चरमुक्तपूर्ववत्स्यात् ॥११॥

सगुणांशखवह्नयः , कर्किमृगादिके , वृत्ते , वृत्तैष्यदलात् , रसाप्तियुक्ताः , रहिताः , च , हः , स्यात् अथ , सूर्य्यात् , उक्तपूर्ववत् चरम् , स्यात् ॥११॥

नाड्यः स्युः फलसंस्कृतिदर्शहता हारोद्धताऽथो चरं सायंलक्षणकं त्वथो विघटिकाः पश्र्चादृणं प्राग्धनम् ॥

स्वांघ्रयूनान्तरयोजनान्यथ तिथिःस्पष्टा त्रिभिः संस्कृता तत्संस्कारघटीसमाश्र्च कलिका देया व्यगौ चोष्णगौ ॥१२॥

फलसंस्कृतिः , दशहता , (ततः ), हारोद्धृता (सती ), नाड्यः स्युः । अथो , चरम् , सायंलक्षणकम् , (स्यात् ), अथो , तु , स्वांध्यूनान्तरयोजनानि , विघटिकाः , पश्र्चात् ऋणम् , प्राक् , धनम् , (स्यात् ) अथ , च , त्रिभिः , सस्कृता , तिथिः , स्पष्टा , (स्यात् ) तत्संस्कारघटीसमाः , कलिकाः व्यगौ , उष्णगौ च देयाः ॥१२॥

स्वस्वार्हल्लवमिनजं फलं युगघ्नं

लिप्तास्ताः कुरु च तयोः स्फुटौ च तौ स्तः ॥ऽऽ॥

इनजम् , फलम् , स्वस्वार्हल्लवम् , युगघ्नम् , लिप्ताः (स्युः ) ताः , च , तयोः , कुरु , (तदा ), च , तौ , स्फुटौ , स्तः ऽऽ

वित्र्यंशद्वियुतहरः कृशानुभक्तश्र्चन्द्रस्य प्रभवति बिम्बमंगुलाद्यम् ॥१३॥

वित्र्यंशद्वियुतहरः , कृशानुभक्तः , चन्द्रस्य , अंगुलाद्यम् , बिम्बम् , प्रभवति ॥१३॥

खाब्ध्याप्तार्कागतदलयुतोनाः स्वकेन्द्रे कुलीरनक्राद्ये स्याद्य्वरिलवभवा अंगुलाद्यर्कविम्बम् ॥

हारो वीषुः स्वतिथिलवयुक्स्यात्कुभाऽस्यां धनर्णं खाक्षाप्तार्कागतदलमथो नक्रकर्कादिकेंद्रे ॥१४॥

स्वकेन्द्रे , कुलीरनकाद्ये , (सति ), व्यरिलभवाः , खाब्ध्याप्तार्कागतदलयुतोनाः , (सन्तः ), अंगुलादि , अर्कबिम्बम् , स्यात् , अथो , वीषुः , हारः , स्वतिथिलवयुक् , कुभा , स्यात् ।

अस्याम् , खाक्षाप्तार्कागतदलम् , नक्राकर्कादिकेन्द्रे धनर्णम् , (कार्य्यम् , तत् , भूभाबिम्बम् भवति ) ॥१४॥

ज्ञत्वैवं तिथिपूर्वकं ग्रहणजं शेषं भवेत्पूर्ववत् षण्मासैरुत पक्षवर्जितयुतैः पक्षेऽथवालोकयेत् ॥

अर्केन्दुग्रहणं व्यगोर्भुजलवैस्तिथ्यल्पकैरुष्णगो र्याम्यैर्वस्वधरैर्द्युरात्रिगतिथौ चाहर्निशामाश्रिते ॥१५॥

एवम , तिथिपूर्वकम् , ज्ञात्वा , शेषम् , ग्रहणजम् , पूर्ववत् , भवेत् , अर्केन्दुग्रहणम् , षण्मासैः , उत , पक्षघर्जितयुतैः अथवा , पक्षे , आलोकयेत् । व्यगोः , भुजलवैः , तिथ्यल्पकैः , (सद्भिः , अर्केन्दुग्रहणम् , स्यात् ) उष्णगोः , याग्यैः , (व्यगुभुजांशैः ,) वस्वधरैः , (सद्भिः ), अर्कग्रहणम् , (स्यात् ) द्युरात्रिगतियौ , (अर्थात् ) दिनमानात्तिथौ , न्यूने सति , सूर्य्यग्रहणम् , स्यात् , अधिके , सति , चन्द्रग्रहणम् , स्यात् अहर्निशम् , आश्रिते , (सति ), च , (ग्रहणम् , ग्रस्तोदिते , ग्रस्तास्ते , वा स्यात् ) ॥१५॥

सत्र्यंशगुणोनितो हरोऽयं वेदघ्नोऽङ्कत्दृतो व्यगोर्भुजांशैः ॥

हीनो भवताडितोऽद्रित्दृत्स्याच्छन्नं शीतरुचोऽङ्गुलादिकं वा ॥१६॥

सत्र्यंशगुणौनितः , अयम् , हरः , वेदघ्नः , अंकहृतः , व्यगोः , भुजाशैः , हीनः , भवताडितः , अद्रिहृत् , शीतरुचः , अंगुलादिकम् छन्नम् , स्यात् ॥१६॥

अमान्तनतनाडिकांघ्रिरहिताद्युतात्प्राक्परे गुहादिकरवेर्नतांशकरसांशसंस्कारिताः ॥

व्यगोर्भुजलवाः स्फुटाः स्युरथ सप्तशुद्धाश्र्च ते निजार्द्धसहिता रवेः स्थगितमंगुलाद्यं स्फुटम् ॥१७॥

अमान्तनतनाडिकांघ्रिरहितात् , प्राक् , गृहादिकरवेः , परे , युतात् , नतांशकरसांशसंस्कारिताः , व्यगोः , भुजलवाः स्फुटाः , स्युः । अथ , ते , सप्तशुद्धाः , निजार्द्धसहिताः , रवेः , स्फुटम् , अंगुलाद्यम् , स्थगितम् , (स्यात् ) ॥१७॥

व्यगुमध्यपर्य्ययगणो द्विगुणो वणिगादिगे व्यगुगृहे कुयुतः ॥

स्मृत चक्रसंज्ञकयुतो विधितो गतपर्वपो मुनत्दृतोर्वरितः ॥१८॥

व्यगुमध्यपर्ययगणः , (कार्य्यः ,) व्यगुगृहै , वणिगादिगे , (सति ) कुयुतः , (कार्य्यः ,), (ततः ), स्मृतचक्रसंज्ञकयुतः , (ततः ) मुनिहृतोर्वारितः , (सन् ) विधितः , गतपर्वपः , (स्यात् ) ॥१८॥

‘‘ षण्मासोत्तरवृद्ध्य़ा पर्वेशाः सप्त देवताः क्रमशः ।

ब्रह्मशशीन्द्रकुबेरा वरुणाग्नियमाश्र्च विज्ञेयाः ’’ इति

तिथिरविहतिरंशास्तद्युतोऽर्को विधुः स्यादथ जिनगुणहारो द्य्वङ्गयुक् तद्रतिः स्यात् ॥

खचरशरकलाः स्यात्सूर्यभुक्तिस्ततः स्युर्भयुतिजगतगम्या नाडिकास्तिथ्यपायात् ॥१९॥

तिथिरविहतिः , अंशाः , (स्युः ), तद्युतः , अर्कः , विधुः , स्यात् । अथ जिनगुणहारः , द्य्वङ्गयुक् , तद्रतिः , स्यात् । खचरशरकलाः , सूर्य्यभुक्तिः , स्यात् । ततः , भयुतिजगतगम्याः , नाडिकाः , तिथ्यपायात् , स्युः ॥१९॥

इति मासगणाद्ग्रहणद्बयसाधनाधिकारः समाप्तिमितः ॥७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-10-23T22:59:45.9700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ravelling

  • = fretting 
RANDOM WORD

Did you know?

कोणतेही कार्य करतांना मुहूर्त कां पहावा? त्यामागची संकल्पना काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.