TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

ग्रहलाघवः - पञ्चतारास्पष्टीकरणाधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


अथ पञ्चतारास्पष्टीकरणाधिकारो व्याख्यायते ।

तहां प्रथम पञ्चतारा अर्थात् मङ्गल बुध गुरु शुक्र और शनिके शीघ्राङ्क कहते हैं --

खमष्टमरुतोऽद्रिभूभुव उदघ्यगोर्व्योष्टदृग्दृशो नवनगाश्र्विनोऽक्षदशनाः शराङ्गाग्नयः ।

गुणाङ्कदहनाः खखाब्धय इभाङ्गरामाः क्रमान्नवाम्बुधिदृशो नभः क्षितिभुवश्र्चलाङ्का इमे ॥१॥

खम् , अष्टमरुतः , अद्रिभूभुवः , उदघ्यगोर्त्यः , अदृग्दृशः , नवनगाश्र्विनः , अश्र्शदशनाः , शराङ्गाग्नयः , गुणाङ्कदहनाः , खखाब्धयः , इभाङ्गरामाः , नवाम्बुधिदृशः , नभः , इमे , क्रमात् , क्षितिभुवः , चलाङ्काः , (सन्ति ) ॥१॥

खं भूकृताः कुवसवोऽद्रिभवाः खतिथ्योऽष्टाद्रीन्दवो नवनवक्षितयोऽर्कपक्षाः ॥

अर्काश्र्विनः शरखगक्षितयोऽक्षतिथ्यो गोष्टौ खमाशुफलजाः स्युरिमे विदोऽङ्काः ॥२॥

खम् , भूकृताः , कुवसवः , अद्रिभवाः , खतिथ्यः , अष्टाद्रीन्दवः , नवनवक्षितयः , अर्कपक्षाः , अर्काश्र्विनः , शरखगक्षितयः , अक्षतिथ्यः , गोष्टौ , खम् , इमे , विदः , आशुफलजाः , अङ्काः स्युः ॥२॥

खं तत्त्वानि नगाब्धयोऽष्टषट्काः पञ्चेभा गजखेचरा रसाशाः ॥

नागाशा द्विदिशो नवाहयः षट्षष्टिः षट्कगुणा नभो गुरोः स्युः ॥३॥

खम् तत्त्वानि , नगाब्धयः , अष्टषट्काः , पञ्चेभाः , गजखेचराः , रसाशाः , नागाशाः द्विदिशः , नवाहयः , षट्षष्टिः , षटूकगुणाः , नभः , (इभे ) गुरौः , आशुफलजाः , (अङकाः ) स्युः

खमग्न्यङ्गैस्तुल्या रसयमभुवः षट्कधृतयोऽरिसिद्धाः पक्षाभ्राग्नय उदधिनाराचदहनाः ॥

द्विशून्योदन्वन्तः खजलधिकृता भूरसकृतास्त्रिवेदोदन्वन्तो रसयमगुणाः खं भृगुजनेः ॥४॥

खम् , अग्न्यङ्गैः , तुल्याः (अङ्का ) रसयमभुवः , षट्कधृतयः , अरिसिद्धाः , पक्षाभ्राग्नयः , उदधिनाराचदहनाः , द्विशून्योदन्वःतः , खजलधिकृताः , भूरसकृताः , त्रिवेदोदन्वन्तः , रसयमगुणाः ,खम् , (इमे ) भृगुजनेः (अङकाः , स्युः )

खमिषुक्षितयो गजाश्र्विनो गोदहना नागकृताः पयोधिबाणाः ॥

द्विरगेषुमिता हुताशबाणाः शरवेदास्त्रिगुणा धृतिः खमार्केः ॥५॥

खम् , इषुक्षितयः , गजाश्र्विनः , गोदहनाः , नागकृताः , पयोधिबाणाः , द्विः , अगेषुमिताः , हुताशबाणाः , शरवेदाः , त्रिगुणाः , धृतिः , खम् , (इमे ), आर्केः (अङ्काः , स्युः )

नाम

१०

११

१२

मंगळ

५८

११७

१७४

२२८

१७९

३२५

३६५

३९३

४००

३६८

२४९

बुध

४१

८९

११७

१५०

१७८

१९९

२१२

२१२

१९५

१५५

८९

गुरू

२५

४७

६८

८१

९८

१०६

१०८

१०२

८९

६६

३६

शुक्र

६०

१२६

१८६

१४६

३०२

३५४

४०२

४४०

४६१

४४३

३२६

शनि

१५

२८

३९

४८

५४

५७

५७

५३

४५

३३

१८

भौमार्कीज्यविहीनमध्यमरविः स्यात्स्वाशुकेन्द्रन्तुविद्भृग्वोरुक्तमिदं रसोर्घ्वमिनभाच्छुद्धं तदंशा दिनैः ॥

भक्ताः खादिफलं क्रमादिह गताङ्काऽसौ क्षयद्धर्‌य़ा हताच्छेषाद्बाणकुलब्धिहीनयुगयं दिग्त्दृल्लवाद्यं फलम् ॥६॥

भौमार्कीज्यविहीनमध्यरविः , स्वाशुकेन्द्रम् , स्यात् , विद्भृग्वोः , तु , उक्तम् , इदम् , रसोर्ध्वम् , (चेत् ) इनभात् , शुद्धम् , (कार्यम् ) तदंशाः , दिनैः , दिनैः भक्ताः (सन्तः ) इह , क्रमात् , खादिफलम् , राताङ्कः , (भवेत् ) असौ , क्षयद्धर्‌य़ा , हतात् , शेषात् , बाणकुलब्धिहीनयुक् , (कार्य्यः ) असौ , दिग्हृत् लवाद्यम् , फलम् , (भवति )

खं गोऽश्र्विनोऽद्रिमरुतोऽक्षगजा नवाशाः सिद्धेन्दवः खदहनक्षितयोऽसृजोऽङ्काः ॥

मान्दा बुधस्य खमिनाः कुदृशोऽष्टपक्षा देवाः शरानलमिता रसवह्नयः स्युः ॥७॥

खेन्द्रर्क्षाणि नवाग्नयोऽहूयुदधयोऽक्षाक्षा नवाक्षा गुरोः शुक्रस्याभ्ररसेशविश्र्वमनवो द्विर्बाणचन्द्राः क्रमात् ॥

खं गोऽब्जाः खकृताः खषण्नगनगा गोष्टौ त्रिनन्दाः शनैः शुद्धोऽब्ध्यद्रिषडग्निनागगृहतः स्यान्मन्दकेन्द्रं कुजात् ॥८॥

खम् , गोश्विनः , अद्रिमरुतः , अक्षगजाः , नवाशाः , सिद्धन्देवः खदहनक्षितयः , एते , असृजः , मान्दाः , अंकाः स्युः । खम् , इनाः कुदृशः , अष्टपक्षाः , देवाः , शरानलमिताः , रसवह्नयः , (एते ) बुधस्य , (मान्दाः , अंकाः , स्युः ) । ख -इन्द्र , ऋक्षाणि , नवाग्नयः , अह्य़ुदधयः , अंक्षाक्षाः , नवाक्षाः , (एते ) गुरोः , (मान्दाः , अंकाः , स्युः ) । अभ्ररस -ईश -विश्र्व -मनवः , द्विः बाणचन्द्राः , (एते ) क्रमात् , गुरोः - (मान्दा अंकाः , स्युः ) । खम् , गोब्जाः , खकृताः , खषट् , नगनगाः , गोष्टौ , त्रिनन्दाः , (एते ) शनेः , (मान्दाः अङ्काः , स्युः ,) । अब्ध्यद्रि , षडग्निनागगृहतः , शुद्धः , कुजात् , मन्दकेन्द्रम् , स्यात् ॥७॥८॥

नाम

मंगलकेमेदांक

२९

५७

८५

१०९

१२४

१३०

बुधकेमेदांक

१२

२१

२८

३३

३५

३६

गुरूकेमेदांक

१४

२७

३९

४८

५५

५७

शुक्रकेमेदांक

११

१३

१४

१५

१५

शनिकेमेदांक

१९

४०

६०

७७

८९

९३

मृदुकेन्द्रभुजांशका दिनाप्ताः फलमङ्कः प्रगतस्तदूनितैष्यः ।

परिशेषहतो दिनाप्तियुक्तो दशभक्तः फलमंशकादि मान्दम् ॥९॥

मृदुकेन्द्रभुजांशकाः , दिनाप्ताः (कार्य्याः , तदा , यत् ,) फलम् (तन्मितः ), प्रगतः अङ्कः (स्यात् ), तदूनितैष्यः , परिशेषहतः (तस्मात् ), दिनाप्तियुक्तः , (ततः ), दशभक्तः , (कार्यः तदा ) अंशकादि , मान्दम् , फलम् , (भवति ) ॥९॥

प्राङ्मध्यमे चलफलस्य दलं विदध्यात्तस्माच्च मान्दमखिलं विदधीत मध्ये ।

द्राक्केन्द्रकेऽपि च विलोममतश्र्च शीघ्रं सर्वं च तत्र विदधीत भवेत्स्फुटोऽसौ ॥१०॥

प्राक् , चलफलस्य , दलम , मध्यमे , विदघ्यात् , तस्मात् , मान्दम् , (फलम् , साध्यम् ,) (तत् , अखिलम् , मध्ये , विधघीत । अपि च , (तत् ) द्राक्केन्द्रके विलोमम् , (विदघ्यात् ) । अतः शीघ्रम् , (साघ्यम् .) विदधीत , असौ ,

स्फुट , भवेत् ॥१

मान्दाङ्कान्तरमार्क्यसृग्गुरूणां भक्त बाणनगैः शरैः खरामैः ॥

विद्भृग्वोर्द्विहतेषु भाजितं तद्दद्यात्प्राग्वदितौ मृदुस्फुटा सा ॥११॥

आर्क्यसृग्गुरूणाम् , मान्दाङ्कान्तरम् , (क्रमेण ), बाणनगैः , शरैः , खरामैः , भक्तम् , विद्भृग्वोः , (मान्दाङ्कान्तरम् ,) द्विहतेषु भाजितम् , (कलाद्यम् ) तत् , प्राग्वत् , इतौ , दद्यात् , (तदा ), सा , मृदुस्फुटा , (गताः , भवति ) ॥११॥

मंगळ

बुध

गुरू

शुक्र

शनि

३०

७५

यह मन्दांकान्तरोंके भाजकांक है

भौमाच्चलाङ्कविवरं शरत्दृत्स्वबाणांशाढ्यं त्रित्दृत्कृतत्दृतं द्विगुणाक्षभक्तम् ॥

तद्धीनयुक्क्षयचये तु मृदुस्फुटा स्यात्स्पष्टाऽथ चेद्बहु ऋणात्पतिता तु वक्रा ॥१२॥

भौमात् चलाङ्कविवरम् (क्रमेण ), शरहृत् , स्वबाणांशाढ्यम् , त्रिहृत् , कृतहृतम् , द्विगुणाक्षभक्तम् , (कार्यम् ) (लब्धिः गतेः , शीघ्रफलम् , स्यात् ) क्षयचये , तद्धीनयुक् , मृदुस्फुटा , स्पष्टा , स्यात् अथ , चेत् , (ऋणफलम् ), बहु , (तदा ), ऋणात् , पतिता (कार्य्या ), (शेषम् ) वक्रा (स्यात् ) ॥१२॥

मंगलका

बुधका

गुरूका

शुक्रका

शनिका

+५

यह शीघ्रकोंके अन्तरके भाजकांक है

शुक्रारयोश्र्चलभवोऽन्त्यगतो यदाङ्कः शेषांशकाश्र्च पतिताः पृथगक्षभूभ्यः ॥

येऽल्पा भृगोस्त्रित्दृता असृजोऽक्षभक्ता देयाः स्वशीघ्रफलवत्स्फुटयोः स्फुटौ तौ ॥१३॥

यदा , शुकारयोः , चलभवः , अंकः , अन्त्यगतः , (स्यात् तदा ) शेषांशकाः , पृथक , स्थाप्याः , (एकत्र ), अक्षभूभ्यः , पतितः , च , (कार्याः ), तयोः , ये अल्पाः , (ते ), भृगोः , त्रिविहृताः , असृजः , अक्षभक्ताः , स्वशीघ्रफलवत् , स्फुटयोः , देयाः , (तदा ), तौ , स्फुटौ (स्तः ) ॥१३॥

कुजबुधभृगुजानां चेच्चलाङ्कोऽन्तिमः स्याद् दशहतपरिशेषांशा नगाद्र्य़ग्निभक्ताः ॥

फलमिषुदहनैर्युक्सप्तगोभिस्त्रिबाणैर्भवति गतिफलं तत्स्यात्तदा नैव पूर्वम् ॥१४॥

चेत् , कुजबुधभृगुजानाम् , चलांकः , अन्तिमः , स्यात् , तदा , दशहतपरिशेषांशाः , (क्रमेण ) नगाद्र्य़ग्निभक्ताः , फलम् , (क्रमेण ) हषुदहनैः , सप्तगोभिः , त्रिबाणैः , युक् (कार्यम् ) तत् , गतिफलं , स्यात् , पूर्वम् नैव १४

त्रिनृपैः शरजिष्णुभिः शरार्र्कैं र्नगभूपैस्त्रिभवैः क्रमात्कुजाद्याः ।

चलकेन्द्रलवैः प्रयान्ति वक्रं भगणात्तैः पतितैर्व्रजन्ति मार्गम् ॥१५॥

कुजाद्याः , क्रमात् , त्रिनृपैः , शरजिष्णुभिः , शरार्केः , नगभूपैः , त्रिमवैः , चलकेन्द्रलवः , वक्रम् प्रयान्ति , (तथा ), भगणात् , पतितैः , तैः , मार्गम् , व्रजन्ति ॥१५॥

क्षितिजोऽष्टयमैरुदेति पूर्वे गुरुरिन्द्र रविजस्तु सप्तचन्द्रैः ।

स्वस्वोदयभागसंविहीनैर्भगणांशैरपरत्र यांति चास्तम् ॥१६॥

क्षितिजः , अष्टयमैः , गुरुः , इन्दै , रविजः , तु , सप्तचन्द्रैः , पूर्वे , उदेति । च , स्वस्वोदयभागसंविहीनैः , भगणांशैः , अपरत्र , अस्तम् यांति ॥१६॥

खशरैश्र्च जिनैः परे ज्ञभृग्वोरुदयोऽस्तोऽक्षदिनैर्नगाद्रिभूभिः ॥

उदयोऽक्षनखस्त्र्यहीन्दुभिः प्रागस्तो दिग्दहनैश्र्च षट्सुरैः स्यात् ॥१७॥

खशरैः , जिनैः , परे , ज्ञभृग्वोः , उदयः , च , अक्षदिनैः , नगाद्रिभूमिः , (परे ,) अस्तः , स्यात् । (तथा ) अक्षनखैः , त्र्यहीन्दुमिः , प्राक् , उदयः , (च ), दिग्दहनैः , षट्सुरैः , (प्राक् ), अस्तः (स्यात् ) ॥१७॥

वक्रोदयदिगदितांशकतोऽधिकाल्पाः केन्द्रांशकाः क्षितिसुताद्द्विगुणास्त्रिभक्ताः ।

सांकांशका दशहतांगत्दृताः कुभक्ता वक्राद्यमाप्तदिवसैः क्रमशौ गतैष्यम् ॥१८॥

वक्रोदयादिगदितांशकतः , (यदि ) केंद्रांशकाः , अधिकाल्पाः , (स्युः , तदा ,) क्षितिसुतात् , द्विगुणाः , त्रिभक्ताः , सांकांशकाः , दश , हताङ्गत्दृताः , कुभक्ताः , (कार्य्याः ) आप्तदिवसैः , क्रमशः , वक्राद्यम् , गतैष्यम् , (स्यात् ) ॥१८॥

पूर्वास्तादुदयः परेऽनृजुगतिस्तोयास्तमैन्द्र्य़ुद्रमो मार्गोऽस्तोऽत्र च दन्तदन्तदहनाष्ट्याज्याशदन्तैर्दिनैः ॥

चान्द्रेस्तत्परतत्परं त्वथ भृगोस्तद्वद्द्विमाः स्यात्ततोऽष्टाभिर्व्यंघ्रिभुवांघ्रिणा विचरणैकेनाष्टमासैः क्रमात् ॥१९॥

दन्तदन्तदहनाष्ट्याज्याशदन्तैः , दिनैः , चांद्रेः , क्रमात् , पूर्वास्तात् , परे , उदयः , अनृजुगतिः , तोयास्तम् , ऐन्द्र्य़ुद्रमः मार्गः , अस्तः , स्यात् , तत्परम् , तत्परम् , अथ , (क्रमात् ) द्विमाः , ततः , अष्टाभिः , ब्यंघ्रिभुवा , अंघिणा , विचरणैकेन , च , अष्टमासैः , भृगोः , तद्वत् , (स्यात् ) ॥१९॥

भौमस्यास्तादुदयकुटिलर्जुत्वमौढ्यं क्रमात्स्यान्मासैर्वेदैरथ दशमितैर्लोचनाभ्यां च दिग्भिः ॥

जीवस्योर्व्या सचरणयुगैः सागरैः सांघ्रिवेदैः साङ्घ्रयेकेन त्रियुगदहनैरर्धयुक्तैस्तथाऽऽर्केः ॥२

भौमस्य , अस्तात् , वेदैः , अथ , दशमितैः , लोचनाभ्याम् , दिग्मिः , च , मासैः , क्रमात् , उदयकुटिलर्जुत्वमौढ्यम् , स्यात् । जीवस्य , (अस्तात् ), ऊर्व्या , सचरणयुगैः , सांघ्रिवेदैः , (मासैः , क्रमात् , उदयकुटिलर्जुत्वमौढ्यम् , स्यात् ) । तथा , आर्केः (अस्तात् ), सांघ्रयेकेन , अर्द्धयुक्तैः , त्रियुगदहनैः , (मासैः , क्रमात् , उदयकुटिलर्जुत्वमौढ्यम् , स्यात् ) ॥२

इति श्रीगणकवर्यपणिडतगणेशदैवज्ञकृतौ ग्रहलाघवकरणग्रन्थे पश्र्चिमोत्तरदेशीयमुरादाबादवास्तव्यगौडवंशावतंसश्रीयुतभोलानाथतनूजपण्डितरामस्वरूपशर्म्मणा विरचितया विस्तृतोदाहरणसनाथीकृतयाऽन्वयसमन्वितया भाषाव्याख्यया सहितः पंचतारास्पष्टीकरणाधिकारः समाप्तिमितः ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-10-23T22:53:36.8430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

डहुळ

  • वि. गढूळ . आकाश जाले डहुळ । - वेसीस्व १ . ११९ . [ ढवळणे ] डहुळणे - उक्रि . १ गढुळणे ; ढवळणे पहा . २ गडबडणे ; खवळणे . जे थिते हे डहुळले । मानस माझे । - ज्ञा ३ . १४ . धैर्य समुद्र डहुळला . - भाब ८४ . [ ढवळणे ] 
RANDOM WORD

Did you know?

why treeepad veedhee ? narrate
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site