ग्रहलाघवः - रविचन्द्रस्पष्टीकरणपञ्चाङ्गानयनाधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


दोस्त्रिभोनं त्रिभोर्ध्वं विशेष्यं रसैश्र्चक्रतोऽङ्काधिकं स्याद्भुजोनं त्रिभम् ॥

कोटिरेकैककं त्रित्रिभैः स्यात्पदं सूर्य्यमन्दोच्चमष्टाद्रयोंऽशा भवेत् ॥१७॥

मन्दोच्चं ग्रहवर्जितं निगदितं केन्द्रं तदाख्यं बुधैः केन्द्रे स्यात्स्वमृणं फलं क्रियतुलाद्येऽथो विधेयं रवेः ॥

केन्द्रे स्यात्स्वमृणं फलं क्रियतुलाद्येऽथो विधेयं रवेः ॥

केन्द्रे तद्भुजभागखेचरलवोनघ्ना नखास्ते पृथक् तद्रोंऽशोननगेषुभिः परित्दृतास्तेंऽशादिकं स्यात्फलम् ॥१८॥

त्रिभोनम् , ( केन्द्रम् ) दोः (भवति )। त्रिभोर्घ्वम् , रसैः , विशेष्यम् , (तदा , दोः , स्यात् ) । अंकाधिकम् , चक्रतः , (विशोध्यम् , तदा , दोः ) स्यात् । भुजोनम् , त्रिभम् , कोटिः (स्यात् ) त्रित्रिभैः , एकैकम् , पदम् , स्यात् । अष्टाद्रयः अंशाः , सूर्य्यमन्दोच्चम् , भवेत् । ग्रहवर्जितम् , मन्दोच्चम् , बुधैः , तदाख्यं केन्द्रम , निगदितम् । क्रियतुलाद्ये , केन्द्रे , स्वम् , ऋणम् , फलम् स्यात् । अथ , रवेः , केन्द्रम् विधेयम् । तदृभुजभागखेचरलवोनघ्नाः , नखाः , (कार्य्याः ), ते , पृथक् (स्थाप्याः ) तद्रोऽशोननगेषुभि , परिहृताः , ते , अंशादिकम् , फलम् स्यात् ॥१७॥१८॥

मेषादिगे सायनभागसूर्य्ये दिनार्द्धजा भा पलभा भवेत्सा ॥

त्रिस्था हता स्युर्दशभिर्भुजङ्गैर्दिग्भिश्र्चरार्द्धानि गुणोद्धृताऽन्त्या ॥१९॥

सायनभागसूर्य्ये , मेषादिग (सति , या ) दिनार्द्धजा , भा , सा , पळभा भवेत् , । (सा ), त्रिस्था , दशभिः , भुजङ्गै , दिग्भिः , हता , ततः , अन्त्या गुणोद्घृता , ( कार्य्या ) तदा चरार्द्धानि , स्युः ॥१९॥

स्यात्सायनोष्णांशुभुजर्क्षसंख्यचरार्धयोगो लवभोग्यघातात् ॥

खाग्न्याप्तियुक्तस्तु चर धनर्णं तुलाजषड्भे तपनेऽन्यथाऽस्ते ॥२

सायनोष्णांशुभुजर्क्षंसंख्यचराद्धयोगः , लवभोग्यघातात् , खाग्न्याप्तियुक्तः , चरम् स्यात् । (तत् ) तु , तपने तुलाजषट्के , धनर्णम् , (स्यात् ) । अस्ते , अन्यथा ॥२

देयं तच्चरमरुणे विलिप्तिकासु मध्येन्दौ द्विगुणनवोद्धृतं कलासु ॥

भाप्तं तद्द्युमणिफलं लवेऽथ वेदाब्ध्यब्ध्यूनःखरसत्दृतःशकोऽयनांशाः ॥२१॥

तत् चरम् अरुणे , घिलिप्ताकासु , देयम् । (तत् एव ) द्विगुणनवोद्धृततम् , मध्येन्दौ , कलासु , देयम् , भाप्तम् । (यत् ) द्युमणिफलम् , तत् , (अपि ) लवे (देयम् ) अथ , शकः , वेदाब्घ्यब्घ्यूनः , ( ततः ) खरसहृतः , अयनांशाः (स्युः ) ॥२१॥

गोलौ स्तः सौम्ययाम्यौ क्रियधटरसभे खेचरेऽथायने ते नक्रात्कर्काच्च षड्भेऽथ चरपलयुतोनास्तु पंचेन्दुनाड्यः ॥

घस्त्रार्द्धं गोलयोः स्यात्तदयुतखगुणाः स्यान्निशार्द्धन्त्वथाक्षच्छायेषुघ्न्यक्षभायाः कृतिदशमलवोना यामाशापलांशाः ॥२२॥

खचरे , क्रियघटरसभे , सौम्ययाम्यौ , गोलौ , स्तः । अथ . नक्रात् , कर्कात् , च , षडभे , ते . अयने , (स्तः ) । अथ , तु पञ्चेन्दुनाड्यः , चरपलयुतोनाः - (कार्य्याः ) । (तदा ), घस्रार्द्धम् , स्यात् । तदयुतखगुणाः , निशार्द्धम् , स्यात् । अथ , तु , इषुघ्नी , अक्षच्छाया , अक्षभायाः , कृतिदशमलवोना , (कार्या ) । इयम् , यमाशापलांशाः , (स्युः ) ॥२२॥

विधोः केन्द्रदोर्भागषष्ठोननिघ्नाः खरामाः पृथक् तन्नखांशोनितैश्र्च ॥

रसाक्षर्त्दृतास्ते लवाद्यं फलं स्याद्रवीन्दृ स्फुटौ संस्कृतौ स्तश्र्च ताभ्याम् ॥२३॥

विधोः , केन्द्रदोभागषष्ठोननिघ्नाः , खरामाः , पृथक् , (स्थाप्याः ), तन्नखंशोनितेः , रसाक्षैः , हृताः , ते , च , लवाद्यम् , फलम स्यात् । ताभ्याम् , च , संस्कृतौ , स्फुटौ , रवीन्दू , स्तः ॥२३॥

केन्द्रस्य कोटिलवखाश्र्विलवोननिघ्ना रुद्रा रवेस्त्रिकुत्दृताः शशिनो द्विनिघ्नाः ॥

स्वांगांशकेन सहिताश्र्च गतौ धनर्णं केन्द्रे कुलीरमृगषट्कगते स्फुटा सा ॥२४॥

रुद्राः , केन्द्रस्य , कोटिलवखाश्र्विलवोननिघ्नाः , (कार्याः ) (ते ), रवेः (चेत् , तर्हि ), त्रिकुहृताः , कार्य्याः , (तदा रवेः , कलाद्यम् , गतिफलम् , स्यात् ,) (चेत् ) शशिनः (तर्हि ,) द्विनिघ्नाः , (कार्य्याः , ततः ), स्वाङ्गंशकेन , सहिताः , च (कार्याः , तदा , चन्द्रगतेः कलाद्यम् , फलम् , स्यात् ) कुलीरमृगषट्कगते , केन्द्रे , गतौ , धनर्णम् , (भवतः ), सा , स्फुटा , (गतिः , भवति ) ॥२४॥

भक्ता व्यर्कविधोर्लवा यमकुभिर्याता तिथिः स्यात्फलं शेषं यातमिदं हरात्प्रपतितं भोग्यं विलिप्तास्तयोः ॥

भुक्त्योरन्तरभाजिताश्र्च घटिकां यातैष्यिकाः स्युः क्रमात्पूर्वार्द्धे करणं बवाद्रततिथिर्द्विघ्नाऽद्रितष्टा भवेत् ॥२५॥

तत्सैकं त्वपरे दलेऽथ शकुनेः स्युः कृष्णभूतोत्तरादर्धोच्चाथ विधोश्र्च सार्कसितगोर्लिप्ताःखखाष्टोद्धृताः ॥

याते स्तो भयुती क्रमाद्रगनषण्निघ्ने गतैष्ये तयोरिन्दोर्भुक्तित्दृते जवैक्यावित्दृते यातैष्यनाड्यः क्रमात् ॥२६॥

व्यर्कविधोः , लवाः , (कार्य्याः , ते ,) यमकुभिः , भक्ताः , (कार्य्याः ), फलम् , याता , तिथिः , स्यात्। शेषम् , (अपि ), यातम् । इदम् हरात् प्रपतितम् , भोग्यम् , स्यात्। तयोः विलिप्ताः , भुक्त्योः - अन्तरभाजिताः , (कार्य्याः , तदा , लब्धिः ), क्रमात् यातैष्यिकाः , घटिकाः , स्युः , द्विघ्नी , (ततः ), अद्रितष्टा , गततिथिः , बवात् , तिथेः , पूर्वोर्द्धे , करणम् , भवेत् । सैंकम् , तु , तत् , अपरे दले , करणम् , (स्यात् )। अथ , कृष्णभूतोत्तरार्द्धात , च , शकुनेः , स्युः ,। अथ , विधोः , सार्कसितगोः , च , लिप्ताः , खखाष्टोद्धृताः , (कार्य्याः ) (फलम् ), क्रमात् , याते , भयुती , स्तः , तयोः , गतैष्ये , गगनषण्निघ्ने , इन्दोः , भुक्तिहृते , (ततः ), जवैक्यवित्दृते (तदा ) क्रमात् , गतैष्यनाड्यः (स्युः ) २५२६

इति श्रीगणकवर्यपण्डितगणेशदेवज्ञकृतौ ग्रहलाघवकरणग्रन्थे पश्र्चिमोत्तरदेशीयमुरादाबाद वास्तव्यगौडवंशावतंसश्रीयुत भोलानाथनूजपण्डितरामस्वरूपशर्म्मणा विरचितया विस्तृततोदाहरणसनाथीकृतयाऽन्वयसमन्वितया सहितः रविचन्द्रभाषाव्याख्यया सहितः रवि चन्द्रस्पष्टीकरणाधिकारः समाप्तिमितः ॥२॥

N/A

References : N/A
Last Updated : October 23, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP