चारायणीयशिक्षा - दशमोऽध्यायः

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


दवेष्टापरिग्रहश्चैव संहारश्च विवर्ततः
आदरः परिहारश्च शब्दाः पर्यायवाचकाः
अवग्रहं समापाद्यं प्रग्रह्यं नैधनानि च
संयोज्य पुनरावृत्तिः परिहार्याणि शास्त्रतः
सुषुपुषी उर्वी इति
परिहारे विधिं विद्यात्संयोज्यभ्यास्यते
पुनः इत्यन्तां संहितां कृत्वा पदवत्पुनरारभेत्
प्रप्रायमग्निः प्रप्रेति प्रप्र
अकारान्तं पदं यत्र दीर्घं वा यदि वाप्लुतम्
एसन्धिस्तत्र कर्तव्यः परिहारेषु नित्यशः
प्रदातारं सुगावाः उपयाम इति
सन्धिवर्णेषु शेशेषु विवृत्तिः स्यात्स्वरे परे
उकारान्तं वकारः स्यादिकारे ईत्वमादिशेत्
अंहोमुचे अनुमत्या अष्टाकयलः
न त्यक्षराद्विमृष्टस्तु रेफं कुर्याद्विवर्तने
आवर्वरितिरे ह्येते कण्ठ्यपूवास्तु नित्यशः
मयो भूर्वातः वेन आवः
यत्त्वा ह्येते भुवो ह्येको ज्ञेयो रेफविवर्जितः
अन्ये सरेफः कर्तव्या भुवशब्दाः प्रयत्नतः
ऋतावायज्ञियो भुवः अकारात्तु पुनः रौयातः
स्वर्भुस्त्वहरहर्कः
दोषावस्तरजीगर्तः प्रणे तस्सन्नतस्तथा
उद्गातः प्रातरुन्नेतर्होतनेष्टस्तथैव च
द्वारविभरजागश्च द्वारभाः सन्नतस्तथा
एते पदा विशेषाः स्युः पृथक् तेन समुद्भूताः
रेफतः परिहार्याः स्युः नित्यं चारायणीयके
अवग्रहं समापाद्यं प्रगृह्यं नैयनानि च
आदरं पदवर्णैस्तु ऋते दुरोहणाकैदिति
अश्ववन्तं वर्धनतत् दूरोहणम्
विनते षत्वणत्वे तु कण्ठ्यव्यवहितौ यदि
पृथगेकपदे तौ तु न तत्रादरमादिशेत्
शुक्तं विषजन्ति अयः प्रणयते
स्वपन्तौ रेफलोपः स्यादुपद्या स्यात्परिग्रहे
स्वर्षायन्तु सकारेण गुरुणाश्वविनिर्दिशेत्
ऋते दूरोहणादेव निवृत्तानामतः परम्
नैधनावग्रहे स्यातां तौ तु ज्ञेयौ यथापदम्
दुन्दुभः प्रथमान्तं पदं यत्र तृतीयत्वं परिग्रहे
पञ्चमा अविकाराः स्युरेवमाहुर्मणीषिणः
यज्ञमानुषक्
सर्वेषां तु स्वरादीनां यकारे स्याद्विवर्तनम्
इकारे ह्रस्वदीर्घेन सवर्णे नैव निर्दिशेत्
ऋतवत्पृतवा इहो इतौ
इतिकारपरान्सर्वान्संयुक्तान्क्रामयेद्बुधः
असंयुक्तमिकारेण नक्रमन्ति छवर्जिता इति
कारपरा स्वसामितिस्वसां छायमिव
मोक्षपूर्वेऽनुवाकान्ते प्रक्रमान्ते तु सारणां
तौ तु नीचावसानौ चेत्पूर्वे चैव विनिर्दिशेत्
यदक्षरं त्यजेत्मोक्षं पदकाले तु नित्यशः
तदेवादर्शयेत्पाठं नीचस्थे ग्रहणे पदे
इति कारपदं मोक्षं स्वराद्यं ग्रहणं पदं
अन्त्यवर्णं पुरस्कृत्य पूर्ववर्णे विनिर्दिशेत्
हन्यमाने पदे नीचे पूर्वाङ्गे विनिहन्यते
पदवन्नीचपूर्वे स्यान्नीचः स्यादुच्चपूर्वके
मोक्षान्ते स्वरिते त्यर्थे वर्णशेषाद्विमोक्षणम्
अनुसंधाने पराङ्गे पदववच्च निहन्यते
मोक्षान्ते द्विपदं वर्णं साधारत्वे स्थितं यदि
ग्रहणं तं विजानीयात्तत्पूर्वे मोक्षणं भवेत्
मोक्षग्रहणसंधाने स्यन्दनं दृश्यते यदि
स्यन्दनं सारणं कुर्यात्तत्पूर्वे मोक्षणं भवेत्
स्वरिताद्ग्रहणं नीचं पादशेषाद्विमोक्षणम्
पदवन्नीचपूर्वः स्यान्नीचे स्यादुछपूर्वके
मोक्षान्ते स्वरिते वोच्चं सुराद्यं ग्रहणं पदम्
उच्चस्थं वापि नीच्चस्थं वर्णशेषाद्विमोक्षणम्
एकारान्तं पदं मोक्षं स्वराद्यं ग्रहणं पदम्
एकारे मोक्षणं कुर्यादकारे ग्रहणं तथा
सविसृष्टभुवो मोक्षामकाराद्यं परं पदम्
विसृष्टे मोक्षणं कुर्याद्वर्णो वर्णशेषं विवर्जयेत्
मोक्षणादुश्चकं गच्छेर्द्व्णमाद्ये परे पदे
द्वितीयं ग्राहयेद्वर्णं मोक्षकाले तु नित्यशः
पुनरुक्तावसानं तु स्वरिते दृश्यते यदि
ग्रहणमनुदात्ते चेदुदात्ते मोक्षणं भवेत्
अन्तोदात्तादिसर्वेषां वर्णादिस्मरणं भवेत्
द्विरुदात्तुं तथाद्यं च द्वितीये चैव निर्दिशेत्
ब्रह्मचारी स्वचरिते मेधावे कर्मकृत्तथा
प्रियश्च धनदश्चैव यश्च विद्यां प्रयछति
श्रोत्रियः शुशृषणश्च श्रद्धावान्प्रश्नकृत्तथा
दमशमसमायुक्तस्तीर्थान्येतानि ब्रह्मणः
पृथिवीं वित्तपूर्णां त्रिर्दत्त्वा यत्फलमश्नुते
परस्य तमसश्चैव ततवाध्यायिनिद्विजे
केचित्सांख्ये नगच्छन्ति केचिद्योगेन योगिनः
केचिदेव महात्मानः क्रमस्याध्ययनेन तु
सर्वशास्त्रविदो ये च ये च क्रमविदो जनाः
एकार्थभावोपगतास्ते हरिं प्रविशंति वै
षट् पञ्चाशत्प्रथमे वै त्रिंशच्छ्लोकाद्वितीयके
तृतीये श्शिंश्चैवोक्ता एकेनोनाश्चतुर्थके
षट्त्रिंशत्पञ्चमे प्रोक्ताः सप्तचत्वारमेव हि
चत्वारिंशत्त्वष्टमे वै नवमे तु त्रयोदश
चत्वारिंशत्तु दशमे श्लोका वै परिकीर्तिताः
एकत्रैव तु विख्यातं श्लोकानां तु शतत्रयम्
चत्वारिंशदधिकं वै शास्त्रं चारायणीयकम्
अमत्सर इदं देयं मत्सरे न कदा चन
मत्सरे तु भवेद्दत्तं त्युप्तं बीजमिवोषरे
य इदं पठते नित्यं यश्चाध्यापयेद्द्विजम्
अस्यार्थं बुद्ध्यते यो वै ब्रह्मलोकं स गच्छति
इति चारायणीयशिक्षायां दशमोऽध्यायः

N/A

References : N/A
Last Updated : September 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP