चारायणीयशिक्षा - चतुर्थोऽध्यायः

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


मन्त्रो हीनः स्वरो तो वर्णो तो वामिथ्या प्रयोक्तोन स्वमर्थमाह
सवाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्
ऊतीर्थादागतं जग्धमपर्वणेषु भक्षितः
न तस्य परिमोक्षोऽस्नि पापाहेरिव दुर्द्विषां
सुतीर्थादागतं जग्धं स्वाम्नातं सुप्रतिष्टितम्
सुस्वरं च सुवक्त्रं च प्रयुक्तं ब्रह्मराजते
यथा व्याघ्री हरेत्पुत्रं दंष्ट्राभिर्न च पीडयेत्
भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत्
मधुरं च नचाव्यक्तं व्यक्तं च नच निष्टुरम्
सनाथस्ये वदेशस्य नवर्णाः संकरं गताः
माधुर्यमक्षरव्यक्तिः पदच्छेदस्तथात्वरः
धैर्यो गुरुलघुत्वं च षडेते पाठके गुणाः
प्रतर्वदे नित्यमुरः स्थिते न स्वरेण शार्दूलरुतोपमेन
मध्यन्दिनोकण्ठगतेन चैव चक्राह्वयाकूजितसन्निभेन
नारं तु विन्द्यात्सवनं तृतीयं
शिरोगतं तच्च सदा प्रयोज्यम्
वाचं स्वतन्त्री न पटेत्कदा चित्प्राज्ञोन्यथा तैर्विहितं वेदम्
समविक्रमसम्यत्रामदुतामविलम्बिताम्
उच्चारयेत कल्पाणीं वाचमांन्नायसारिणीम्
नवासरस्य पूर्वाह्णे तारमुच्चारयेत्स्वरम्
उत्साहो नश्यते तस्य रात्र्यं ते मैथुने यथा
पठेत्कैवल्यसोमानं सौम्येन परिवेष्टितम्
तु लाकोटिनिभं पाठं स्वराध्यं मध्यमं स्वरम्
स्वरात्स्वरं संक्रमयेत्स्वरे संधिमनुल्बणम्
अदिछिन्नं समं कुर्यात्सूक्ष्माच्छायोतपोरसम्
समं स्वरं पठेन्नित्यं मार्गं हस्ते प्रदर्शयेत्
यद्वाणी गच्छति स्थानं तद्धस्तेन प्रदर्शयेत्
यथा वाणी तथा पाणिर्विस्वरं परिवर्जयेत्
यत्रैवावस्थितावाणीपाणिस्तत्रैव गच्छति
स्वरस्यानुगतं हस्तं नॄणामिव शुभाशुभम्
हस्तस्यानुगता दृष्टिच्छाये वानुविधावति
हस्तं वागनुगं कृत्वा वाचं कृत्वा मनोनुगां
दृष्टिं हस्तगतां कृत्वा त्रैस्वर्यस्येति लक्षणम्
स्वरतश्च स्वरो नीचः स्वरः स्वरित उच्यते
स्वरं प्रधानं त्रैस्वर्ये प्राहुरक्षरचिन्तकाः
सुखोपविष्टश्च चिरेकचित्तो विवर्जितत्रासमदाश्रयस्तु
यथर्तु युक्त्याशनपानभोजी वेदं पठेद्वर्जितवर्णदोषम्
दक्षिणाक्षिनिपातेन दृष्टिं हन्यात्कनीयसीम्
नासागण्डभ्रुवोः संधिमुदात्तविषये विदुः
पुटिं ददुस्स्फुटिं वीणा मुष्टिको धनुराकृतिः
षडेते हस्तदोषास्तु परशुश्चेति सप्तमः
उत्तानं सोन्नतं किंचित्सुव्याक्तां गुलिरञ्जितं
स्वरं विद्धं करं कुर्यात्प्रादेशोद्देशगामिनम्
उदात्तस्तालुगर्भश्च तालुगर्भस्ततः परः
समाहारे तु स्वरितः प्रचयस्तस्य पृष्टतः
नीचस्थानोनुत्तुश्च सन्नतरस्ततोध्वगः
सर्वानुदात्तुयोर्मध्ये सप्तैते स्वरौत्तमाः
अन्तोदात्तं पदं पूर्वमुदात्तं वा भवेत्क्वचित्
उदात्तं परपदं स्यात्तालुगर्भः स उच्यते
स्वरितानन्तरं वर्णं यत्किंचित्तत्रविद्यते
प्रचयं तं विजानीयादेवमाहुर्मनीषिणः
उक्ष्यन्नाय
प्राहुस्सर्वानुदात्तुं तु नीचानीचरतस्तु यः
तत्परं चेद्भवेन्नीचमाहुः सन्नतरं बुधाः
स्वरितं अङ्गुलं विद्या सुच्चैर्यत्र परं पदम्
नीचं वापि पदं भूयादङ्गुले स्वरितं भवेत्
अग्ने सम्राडजैकपादाहवनीय
अमावस्यायां वा यजते कया शुभा
प्रचितं तालुगर्भं च सन्नतरं तथापि च
वाक्स्पृशति न पाणिश्च ज्ञेयं चारायणीयके
चारायणीयशिक्षायां चतुर्थोऽध्यायः

N/A

References : N/A
Last Updated : September 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP