चारायणीयशिक्षा - प्रथमोध्यायः
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
प्राक् प्रपद्ये विभुं भक्त्या सर्वलोकपितामहम्
शिक्षां साक्षात्प्रवक्ष्यामि तेनैवालं पितामहम्
चारायणीं महाशिक्षां प्रवक्ष्याम्यनुपूर्वशः
निबोधत बुधैर्जुष्टां नित्यं वाङ्मलशान्तये
वर्णानां चैव संख्यानं संज्ञास्थानं पृथग्विधम्
स्वराः सव्यञ्जनाश्चैव तेषां भेदमशेषतः
दशस्थानानि वर्णानां कीर्तयन्ति मनीषिणः
यतः प्रवृत्तिर्वर्णानां तानि मे गदतः शृणु
उरः कण्ठः शिरस्तालुदन्ता ओष्टौ तु नासिका
जिह्वामूलं तु सृक्वश्च दन्तमूलस्तथैव च
उरः कण्ठः शिरश्चैव स्थानानि त्रीणि वाङ्मये
सवनान्याहुरेतानि सावमात्यर्थतोऽन्तरम्
उदात्तस्तालुगर्भश्च स्वरितः प्रचयस्तथा
नीचः सार्वानुदातुश्च सन्नत्ते उरस्तथैव च
तरसा प्रयजयेन्नीचमुच्चं पृष्टादिवोन्नयेत्
नैष्यात्पञ्च भ्रुवोर्मध्ये स्वरितं शिक्षका विदुः
अकारप्रमुखैर्वर्णैर्हकाराः तैस्त्रिषष्टिभिः
विवद्धं वाङ्मयं सर्वमप्रमेयमपारगम्
अकारा औकारान्ताः स्वरा ज्ञेयाश्चतुर्दशम्
शिष्टानि व्यञ्जनान्येव प्रोक्तान्यक्षरचिन्तकैः
कादयो मावसानाश्च स्पर्शाः स्युः पञ्चविंशतिः
यादयाश्च तथान्तस्थाः ऊष्माणश्च शषसहाः
स्पर्शानां करणं स्पृष्टमन्तस्थानामतोऽन्यथा
यमानां संवृतं प्राहुर्विवृत्तं च स्वरोष्मणाम्
वर्गावसानगा वर्णाश्चतुः संज्ञाः प्रकीर्तिताः
नासिक्या आनुनासिक्याः पञ्चमाश्चान्त्यसंज्ञकाः
वर्गप्रथमद्वितीयाः शषसाश्च त्रयोदश
ज्ञेया अघोषा इत्येवं संज्ञयाक्षरचिन्तकैः
अघोषाणां तु करणं श्वासवत्समुदाहृतम्
नादवश्चैव सर्वेषां अकरस्तेति निश्चयः
अघोषे तु विसृष्टस्य परमं स्थानता भवेत्
अनुस्वारो विसृष्टश्च कलापाठः प्लुता यमाः
जिह्वामूलमुपध्मा च षोडशैते पराश्रयाः
अनुस्वारे तु नित्यं स्यात् द्वित्वं चारायणीयके
अलाबुवीणा निर्घोषा दन्त्यमूलस्वराननु
अनुस्वारस्तु कर्तव्यो नित्यं ह्रोः शषसेषु च
एकमात्रः स्वरो ह्रस्वो द्विमात्रो दीर्घ उच्यते
प्लुतस्त्रिमात्रो विज्ञेयो व्यञ्जनं त्वर्धमात्रकम्
ह्रस्वं द्विमात्रसंयुक्तं प्लुतमाहुर्मनीषिणः
वृद्धस्त्रिमात्रमेवापि व्यञ्जने त्वर्धमात्रकम्
ह्रस्वप्लुता प्रयुञ्जीत विरामेषु न नासिकान्
स्वर्लोकप्रभृतीनां तु न तु व्यञ्जनमस्तकान्
स्वरसन्धिस्तु सर्वेषां द्विमात्रेण विनिर्दिशेत्
ह्रस्वदीर्घप्लुतानां च यथा शास्त्रनिदर्शनम्
अनन्त्यश्च भवेत्पूर्वा अन्त्यश्च परतो यदि
तत्र मध्ये यमस्तिष्ठेत्सवर्णः पूर्ववर्णयोः
अपञ्चमस्त्वेकपदे संयुक्ता पञ्चमेऽक्षरे
यमो ज्ञेयो यथा रुक्मसंख्नग्ग्निर्ज्ञ्यन्ति चैव हि
पञ्चायुग्मा स्वरा ह्रस्वः शिष्टा दीर्घस्त्वशेषतः
तेषामेव प्लुताः स्सन्ति ॠ ॡ वर्णौ विवर्जितौ
विद्यादमित्यनुस्वारं जिह्वामूलं कखाश्रयम्
विसृष्टस्तु इति प्रोक्त उपध्मा स्यात्फलाश्रयः
अशरीरास्तु ये वर्णा विज्ञेयास्तु पराश्रयाः
अन्यं वर्णं समाश्रित्य दर्शयन्ति निजं वपुः
जायापत्योर्यथा योगाहुर्भं चैव प्रजायते
तथा पराश्रयो वर्णः संयोगश्च प्रजायते
प्राक् पदैः पर्यामाणस्तु पुरुषश्च यथा शुभम्
तथा पराश्रया वर्णा विज्ञेयास्ते पराश्रयाः
संश्रयन्ति परं तु तदिति द्वितीयः पादः
स्पर्शनासिक्यसंयुक्तास्तत्र मध्ये यमाः स्थिताः
अशरीराश्चतुर्भेदास्संज्ञाभिर्विहिताः पृथक्
प्रथमः पञ्चमैर्युक्ताः कयमं तत्र मध्यगम्
द्वितीयेष्वेव खयमं तृतीये गयमं स्मृतम्
चतुर्था यत्र दृश्यन्ते वर्गान्तैः सह संयुताः
घयमस्तत्र मध्यस्थो ज्ञेयश्चारायणीयके
नासा मूर्धनि संस्थानः प्रथमश्चयमः स्मृतः
द्वितीयं तालुजिह्वायां नासायां तु विनिर्दिशेत्
तृतीयः कर्णदन्तं च कर्णौ नासां च संस्पृशेत्
चतुर्थो हृदयं नासां सर्वे कण्ठ्या यमाः स्मृताः
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा
जिह्वामूलं च दन्ताश्च नासिकोष्टौ च तालु च
अंकुहविसृष्टाः कण्ट्यास्तालु नीचुयशाः स्मृताः
मूर्धन्यृटुरषा ज्ञेया दन्त्याऌतुलसाः स्मृताः
उपूपध्मानीया ओष्ट्या तुरस्यौ हविसृष्टकौ
कण्ठ्या तालु कण्ठ्योष्ट्याः संधिवर्णाः प्रकीर्तिताः
दक्स्वरः परतो यत्र हकारस्य तु दृश्यते
हकारं कण्ठ्यमित्याहुरौरस्यं व्यञ्जनेन तु
अवर्णश्च कवर्गश्च जिह्वामूलीय इत्यपि
नवैते कीर्तिता वर्णा जिह्वामूलसमुद्भवाः
इवर्णश्च चवर्गश्च यशकारौ तथैव च
एते वर्णापरा ज्ञेया दशतालुसमुद्भवाः
ऌवर्णश्च तवर्गश्च लसकारौ तथैव च
अष्टौदन्त्याः परिज्ञेया दन्तमूलसमुद्भवाः
उवर्णश्च पवर्गश्च वकारोष्टम एव च
उपध्मानीयसहिता ओष्ट्या वर्णा दशस्मृताः
हकारः स्वरसंयुक्तो लघुत्वं दृश्यते यदि
कण्ठ्यं तं तु विजानीयाद्धृदयेति निदर्शनम्
हकारं पञ्चमैर्युक्तमन्तस्थैर्वापि संयुतम्
तमुरस्यं विजानीयादाह्रियेति निदर्शनम्
यमानुस्वारनासिक्यानामामूलसमुद्भवाः
सर्वस्थानमवर्णस्य केचिदिच्छन्ति सूरयः
यस्य यस्य तु वर्णस्य करणं नोपपद्यते
प्रतिज्ञा तत्र बोद्धव्याकरणं हि तदात्मकम्
एते स्थानसमुत्पन्ना वर्णा षष्ठिस्त्रयस्तथा
यैरेवत्वखिलं विश्वं व्याप्तं वाङ्मयमण्डलम्
सुराचतुर्दश प्रोक्ताः स्पर्शाः स्युः पञ्चविंशतिः
यादयाश्च स्मृताश्चाष्टौ षोडशैव पराश्रयाः
एते वर्णास्त्रिषष्टिश्च विहिताक्षरचिन्तकैः
एतैरेवाखिलोव्याप्तो वाक्तमुद्रस्त्वपारगः
सितवर्णाः स्वरास्सर्वे ईकारं स्पर्शसन्निभम्
स्पर्शान्तःस्थास्तथोष्माणः श्यामपीतारुणास्मृताः
अयोगवाहाश्श्यामास्तु सिताः सर्वे स्मृताः स्वराः
अन्तःस्था हरिता ज्ञेया ऊष्माणश्चारुणप्रभाः
स्पर्शा ईकारसंहिताः कृत्स्नवर्णानसंशयः
सौम्योत्रतालव्यगणो जिह्वामूलस्तु नैनृताः
आग्नेयः कण्ठजश्चैव मूर्धन्यो वायुदैवतः
दन्त्यारौद्रास्तु विज्ञेया ओष्ट्याश्चैवाश्विनामताः
वैश्वदेवास्तु विज्ञेयाः शेषावर्णानसंशयः
एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः
सम्यग्वर्णप्रयोगेन ब्रह्मलोके महीयते
संहितायास्त्विमां लोकं जित्वान्तरिक्षमाप्नुयात्
अयं लोकोन्तरिक्षस्य तृतीयं दिवमेव तु
जित्वे मान्क्रमपाठस्तु ब्रह्मलोके महीयते
प्राक्कूलोपर्युपासीत पवित्रैश्चैव पावितः
प्राणायामैस्त्रिभिःपूतस्तत ओंकारमर्हति
प्रणवं प्राक् प्रयुञ्जीत व्याहृती तदनन्तरम्
सावित्रीं चानुवचनं ततो वृत्तान्तमारभेत्
वसिष्टः तपस्तप्यति योरण्ये मुनिर्मूलफलाशनः
ऋचमेकां तु यो धीते तच्च तानि च तत्समम्
वेदाभ्यासोन्वहं शक्त्या महायज्ञक्रियाक्षमाः
नाशयन्त्याशु पापानि महापातकजान्यपि
वेदो चितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः
तद्धि कुर्वन्यथाशक्तिप्राप्नोति परमां गतिम्
यज्ञानां तपसां चैव शुभानां चैव कर्मणां
वेदधर्मो द्विजातीनां निःश्रेयसकरावुभौ
निर्वृत्तपूर्णां पृथिवीं दत्त्वा यत्फलमश्नुते
तपसश्च परस्यैव तत्स्यात् वाध्यायिनि द्विजे
यजूंषि शक्तितोऽधीते योन्वहंसघृतामृतैः
प्रीणन्ति देवानाज्येन मधुना च पितॄंस्तथा
यः स्वाध्यायमधीते वृं विधिना नियतः शुचिः
तस्य नित्यं क्षरत्येष पयो दधिघृतं मधु
इति चारायणीयसंज्ञाध्यायः प्रथमः
N/A
References : N/A
Last Updated : September 21, 2026

TOP