चारायणीयशिक्षा - नवमोऽध्यायः

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


दद्विपदां संहितां कृत्वा विरमेत्तु पदापदं
पूर्वमुत्सृज्यसंयोज्यमुत्तरेणोत्तरं पदम्
असितस्य तस्य ते
त्रिपदान्यवसानानि यथास्थात्त्रिपदः क्रमः
पूर्वमुत्सृज्यमेधावी प्रक्रमेत्पुनरेव तु
देवते योजयामि
चतुष्क्रमस्तथैव स्यात्त्रिपदेन विधिः स्मृतः
पदं पदं त्यजेत्पूर्वं प्रक्रमेत्पुनरेव च
देवेभ्य एमेनत्
स्वरान्तानि दुदादींस्रान्स्वरसन्धिसमीरितान्
त्रिक्रमां जनयन्त्येते उभयोषत्वणत्वयोः
उपेपेत्रु ब्रह्मणोद्धरति ऋतस्यादिच्छयथेम पाचीन्
सोषूणः
उकारः पदयोर्मध्ये पत्रापृक्तः परं भवेत्
सत्रिकस्त्रिक्रमो ज्ञेयस्तथैवाकारमादिशेत्
उदुत्यं यत्र त्वेव समेयातां हेतूत्रिक्रमकारकौ
अन्ययोः पदयोर्मध्ये सचतुष्कचतुष्क्रमः
सपुनरैमीत्येद्वृक्षस्य पदात्तेषु प्रग्रह्याणामित्यकारो निदर्शनम्
न क्रमस्यावसाने तु न च स्यात्सहितां प्रति
उर्वीरोदसी ऋगर्धर्चानुवाकां तास्तथाप्येकपदं च यत्
विसंहितमसन्धेयं संहारः केवलाः स्मृतः
अनुदृश्यामजंतकवयः
अनुदात्तं पदं पूर्वं सुरायुश्चैः परं पदम्
प्रक्रमे संध्यमानानां उच्चैः करणमादिशेत्
जात्यादीनामशेषाणां तिर्यक्प्रक्रमणं स्मृतं
अनन्यपूर्वमेतेषां उदातादेवनिर्दिशेत्
स्वरितं परैर्फलैर्पदं स्याटृजुः प्रक्रामयेद्बुधः
परमे व्योमन् पत्नीसरोह्वाव
स इत्येतत्तथापूर्वमित्यदंततः परम्
स्वरादिना तृतीयेन क्रमं तत्र विनिर्दिशेत्
सेच्चैव तु तथा स्यातामुपदे परतः स्थितः
सन्धिना तु यथोक्तेन तं चतुष्क्रममादिशेत्
द्विपदं प्रक्रमात्पूर्वं परयोंऽगिरसः परम्
त्रिक्रमं वालखिल्या वै माषकुम्भ्यां चतुष्क्रमम्
पुनरुक्तपदे पूर्वे परिहारं तु वै भवेत्
कृत्वा प्रक्रमसन्धिं तु संहरेत्विचक्षणः
देवावास्तोस्वाहेति
अतोन्यत्र तु संधायपुनरुक्तपरे पदे
द्विपदं त्रिपदं कुर्यादुक्तप्रक्रमलक्षणम्
सवितोन्नयतु
प्रक्रमेषु यथाशास्त्रं लक्षणं विहितं क्रमात्
वेष्टेष्वेव तु संधीनामत ऊर्ध्वनिगद्यते
षत्वणत्वमुपारो दीर्घत्वं तश्चतुष्टयम्
पदे यस्मिन्निवर्तेत तत्समायाद्यलक्षणम्
नवमोऽध्यायः

N/A

References : N/A
Last Updated : September 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP