चारायणीशिक्षा - तृतीयोऽध्यायः

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


दसंहिताकरणं चेदमथवक्ष्यान्यतो लघु
व्यञ्जनेन क्वचित्संधिः स्वरेण स्यात्क्वचित्तथा
तथा सनत्कुमारः
स्वरेऽक्षरमिति प्राहुराचार्याः शब्दचिन्तकाः
समुदायः पदं तेषां तच्चतुर्धा व्यवस्थितम्
नासिकाख्याभिके चोभे नैपातिकमनन्तरम्
उपसर्गश्च निष्पत्तिः पदमेवं चतुर्विधम्
नासिकं सविता व्योम व्यर्त्त्वित्याख्यातिकं स्मृतम्
पर्युपेत्युपसर्गश्च चवाहेति निदर्शनम्
नासवायव्यमैन्द्रं वा सौम्यमाख्यातमिष्यते
आग्नेयस्तूपसर्गः स्यान्निपातो वारुणः स्मृतः
भारद्वाजकमाख्यातं भार्गवं नाम गोत्रतः
वासिष्ठा उपसर्गास्तु निपाताः काश्यपाः स्मृताः
लोपसंधिसते लोकमुश्चन्द्रे त्यागमः स्मृतः
वज्यसीतिविकारस्तु प्रकृतिः किं स्विदित्यपि
वर्णस्याद्दर्शनं लोप आगमो वर्णदर्शनम्
वर्णान्यत्वं विकारस्यात्स्वभावः प्रकृतिः स्मृतः
वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ
तोस्तथार्थातिशयो नियोगस्तदुच्यते पञ्चविधं निरुक्तम्
ह्रस्वसंधिं तथा दीर्घं स्वरेण व्यञ्जनेन तु
चतुर्विधं यथा संधिं वक्ष्याम्य अग्निर्वै प्राङ्न चेतम्
द्वौ दीर्घौ ह्रस्वदीर्घौ वा दीर्घह्रस्वावनन्तरौ
ह्रस्वयोरुभयोर्वापि दीर्घमेकं समासतः
दक्षिणावर्तयति
एसंधिः स्यादकारान्तादिकारादे परे पदे
उकाराद्ये तथोभावनृवर्णे रेफसंयुतम्
ऋवर्णाद्यमकारान्ताद्रेफत्वं यातितत्स्वरः
परेण सह संयोज्यो यथर्त्त्विति निदर्शनम्
यत्र यत्र ह्यृकाराद्यमकारान्तं परं पदम्
तत्र तत्र भवेद्रेफः परेण सहसंयुतः
पुनर्ग्रहणं स्पष्टार्थं संधिवर्णेष्वकारांत्तात्परेष्वेव समासतः
प्रथमाद्ये द्वितीयत्वं तृतीयाद्ये चतुर्थता एवैषापरीति
एवकारकरणात्क्वचिद्विद्ब्रामो दृश्यते
अपान्ते सर्शादयामीत्येवमादयः
इकारान्तं पदं पूर्वं स्वराद्यं चेत्परं पदम्
समासे संधयेद्यत्वमुकारान्ते तु वागमम्
प्रत्यक्सवरुणः स्थावरः स्रवन्ति समासतो
विवृत्तिः स्यात्संधिवर्णात्स्वरे परे ह्रस्वपूर्वामयुरमां च
दीर्घपूर्वमतोत्यथा नविवृत्तिरकाराद्यमेकारान्तात्परं पदम्
एकसंधिं कंचिदिच्छन्ति केचिद्विवृत्तिसंहिताम्
अयुग्मेषु यथासंधिरकारान्तात्स्वरे परे
युग्मेप्याहुस्तथा संधिं दीर्घश्च तदनन्तरम्
कण्ठा द्विसृष्टस्योभावं परे घोषेऽथ तत्परे
प्राहुर्लोपं तथा दीर्घाद्विवृत्तिः स्यात्स्वरे परे
नास्य क्षरा द्विसृष्टस्य घोषाद्ये रेफतूपता
लोपमाहुः परे रेफे दीर्घः स्याद् इउवर्णयोः
विसृष्टस्त्विदुपूर्वाभ्यां परो रेफो यदा भवेत्
संधिकाले तु तौ दीर्घौ रेफसंधिमतोन्यथा
रेफत्वकण्ठपूर्वोऽप्यकारान्तादीनि शेषतः
समासतः परे घोषे स्वस्थानतमतोन्यथा
तालुमूर्धन्यदन्त्यानां वर्गाणां प्राग् द्विकं द्विकम्
यत्र चैकपदाद्यं चेद्विसृष्टात्त्सोष्मसंयुतम्
पञ्चमत्वं स्ववर्गाच्च प्रथमाः पञ्चमे परे
तृतीयत्वं परे घोषे प्रथमाद्यैः स्वतूपता
परे स्पर्शे मकारान्तात्यर्शं स्यात्स्वान्त्यसंयुतम्
सवर्णतापरेऽन्तस्थे अनुस्वारस्तथोष्मणि
यज्ञेषु कत उत्वोंय्य विष्टः
अनुस्वारे परे पूर्वे सय्योगे पुरतः स्थिते
तद्धि ह्रस्वं विजानीयात्संस्थाप्येति निदर्शनम्
अनुस्वारोपरिष्टाश्च संवृतं दृश्यते क्वचित्
सदीर्घमपि विज्ञेयाद्यज्ञं शृणोति दर्शनम्
ह्रस्वोपधास्तु द्रणनाः स्वरादेषु पदेषु च
प्रत्यङ्ङासीनः सर्वत्र गुरोवो ज्ञेया लघुदीर्घोपयास्तथा
यानावहनक्रमे तु समासाङ्गे व्यञ्जनं ऋत्स्वरे परे
संय्योगे क्रमते नित्यं व्यञ्जनं रेफवर्जितम्
नृषुयदन्ना व्यञ्जनान्तं पदं पूर्वं परव्यञ्जनमक्षरम्
ऋवर्णेन तु संयुक्तं तत्समासेन भारिकम्
अभीष्टकान्द्यृन्दन्ति प्रथमातूष्मणाद्ये तु द्वितीयत्वं परे पदे
संयुज्यं प्रथमं मध्ये नासिक्योष्मणयोस्तथा
तत्सावित्रोदयच्छत रङ्गसंधिर्नकारान्त
द्विसृष्टेव सरेफता मकारान्तादनुस्वारम्
परेष्वेव रफोष्यसु द्वे पदे तु संगसंषर्वम्
राट्परं यदि मागमः स्यात्तयोर्मध्ये नानुस्वारो विधीयते
सम्राट्दिशां समासे क्रमते ताल्व्यं तकारां तादनन्तरम्
सयकारं च्छकारं च लकारं तुल्य एव तु
यश्चरुर्भवति तच्छान्तं मिथुनं स्वर्गाल्लोकात्
पूर्वं कृत्वा पदच्छेदं समासं तदनन्तरम्
समासे तु कृते पश्चादर्थं ब्रूयाद्विचक्षणः
संहितायां विधिः प्रोक्तः कवीनामनुकम्पया
पुरासकृद्बुधैर्जुष्टः सैनिकैरिव केशवः
इति चारायणीशिक्षायां तृतीयोऽध्यायः

N/A

References : N/A
Last Updated : September 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP