चारायणीयशिक्षा - द्वितीयोध्यायः

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


इदानीं सन्धिप्राप्तानां वर्णानां लक्षणमाह
सन्धिप्राप्तास्तु ये वर्णास्तेषां द्विर्भाव इष्यते
अभावे सन्धिना चैव लघुत्वं चैव निर्दिशेत्
दीर्घं विसर्जनीयां तं पदान्तं बिन्दुसंयुतम्
संयोगस्य शृणोति दर्शनम्
एकबिन्दुरनुस्वारो विसृष्टस्तु द्वयोः स्मृतः
नतूपङ्कलपाठस्य मूर्धन्या इव दृश्यते
ह्रस्वपूर्वस्त्वनुस्वारो विज्ञेयो द्व्यर्धमात्रकः
अर्धमात्रस्तु पूर्वः स्याद्विपरीतो विपर्ययः
अनुस्वारे तु नित्यं स्यात् द्वित्वं चारायणीयके
तर्जयित्वा तु पुंश्चल्पास्तथा वै संस्कृतादिषु
ब्रह्मचारी च पुंश्चली तन्नौ संस्कृतम्
नरे द्वे वा हकारे वा द्विर्भावं विद्यते क्वचित्
न चैव जिह्वामूलीये नोपध्मानीय एव च
सूर्मीं  वर्णवतीं  यथायर्हिधिर्रूपायः कामयते
न चैवास्वरपूर्वे तु नान्तस्थैः स्पर्शसयुतैः
न च वर्गद्वितीये तु न चतुर्थो कदा चन
आद्यमन्तं च मध्यं च स्ववर्णेनैव पीडयेत्
यदवघ्रापयति हराभ्यां तु परं नित्यं क्रामयन्ति विचक्षणाः
तथैव जिह्वामूलीयां तथोपध्मानि निर्दिशेत्
स्वरपूचात्तु रेफात्स्याद्द्विर्भावो व्यञ्जनस्य तु
हकारात्तु परं नित्यं क्रमते ह्यस्वरादपि
रेफपूर्वो हपूर्वो वा यः संयोगो भवेत्क्वचित्
द्विरुच्यते परं तस्य घर्म्मौ ब्रह्मनिदर्शनम्
हरौ यत्र नियुज्येते हकारः क्रमते तदा
अह्ह्रतं ह्ह्रियते ह्ह्रादिनीं ह्ह्रदं च निदर्शनम्
रयावुभयतो यत्र हकारो मध्यतः स्थितः
उभयोः क्रमणं विद्यादेतर्ह्ह्यग्निर्निदर्शनम्
लवरेफहकाराणां जिह्वामूलमुपध्मयोः
तु यत्पूर्वं तद्द्विमात्रं गुरुः स्मृतम्
ह्रस्वपूर्वस्त्वनुस्वारो द्विमात्र इति मे मतिः
द्विमात्र परो ह्रस्वश्च मन्यन्ते क्षरचिन्तकाः
तैलवत्पीडयेद्वर्णान्सन्धिप्राप्तांस्तु सर्वदा
संधिना रहितांश्चैव पर्णवच्च समाचरेत्
स्वरात्क्रामति संयोगे व्यञ्जनं व्यञ्जने परे
केचित्पूर्वं परं केचिदुभयोर्नोभयोरपि
संयोगो द्विविधो ज्ञेयः कृतः कृत्त्रिम एव च
कृतस्त्वेकपदे जातः कृत्त्रिमः सन्धिसंभवः
तत्रयस्स्यात्स्वरपरकृतो वो कृत्त्रिमोऽपिवा
तस्य पूर्वाक्षरं द्विःस्याद्यथा श्श्वोश्श्चोश्श्वमित्यपि
व्यञ्जनान्तं पदं पूर्वं तद्वर्णं चापरं भवेत्
द्विर्भावं तं विजानीयात्संधिकाले तु नित्यशः
तेषु स्वरावनन्तरौ यत्र संयोगसंज्ञिकौ
तत्र द्विष्करणं स्यात्सकृत्करणमतोन्यथा
ओष्ट्यौ वर्णौ यदि स्यातामसंयोगपरौ यदि
द्विरोष्टितामतैः कार्या जिह्वां पुपूष दर्शनम्
वर्णाविंशतिरेकश्च येषां द्विर्भाव इष्यते
प्रथमान्त्यास्तृतीयाश्च यलवाश्च षसैः सह
अन्तस्था सन्निपाते तु प्रथमं क्रामयेद्बुधः
अनुस्वारो विसृष्टस्तु द्वावेतावशरीरिणौ
द्विर्भावमेतयोश्चैव ज्ञेयं चारायणीयके
शषसहानदृश्यन्ते परस्थस्य तु नित्यशः
दीर्घानुस्वारमित्येके संयोगे ह्रस्व एव तु
अनस्वारस्योपरिष्टात्संवृतं दृश्यते यदि
दीर्घानुस्वारो विज्ञेयो यज्ञे
एते वामेव वर्णानां परं क्रामेन्नसंशयः
अन्तस्थास्पर्शसंयोगे स्पर्शस्य क्रान्तिर्दृश्यते
अन्तस्था सन्निपाते तु प्रथमं क्रमयेद्बुधः
यथा खल्वाश्चमे अवेव्व्लीयन्ते जल्म्मा उदरम्
अन्तस्थोष्म परस्पर्शसंयोगो यत्र दृश्यते
द्वित्वं स्पर्शे वदेत्तस्मिन् कल्म्माशीविश्य्यती तथा
यत्र चोभयतः स्पर्शाः संयुक्ताः शषसैस्सह
आद्यस्तत्र क्रमो ज्ञेयो नापरो बोधितो बुधैः
स्पर्शाः पञ्चमसंयुक्ता यत्र पञ्चममन्तगाः
संयोगसंज्ञा दृश्यन्ते तत्र मध्ये यमास्स्थिताः
अपञ्चमस्त्वेकपदे संयुक्तः पञ्चमेक्षरे
यमो ज्ञेयो यथा रुक्क्म स इढ्ढग्न्निग्घ्घन्ति चैव हि
शषस्तथा संयोगमनौ तु परतो यदि
यमं तत्र विजानीयात्स्स्नात्स्स्नानेति दर्शनम्
वर्गवर्गचतुर्भिः स्युःपरस्मिन्पञ्चमे यमाः
शविकारच्छकारादिर्त्रयसंनतु संज्ञितम्
स्पर्शा यत्र न दृश्यन्ते वर्गान्तैः सह संयुताः
यमास्तत्रनिवर्तन्ते श्मशानादिववान्धवाः
वर्ग्यान्त्याछोषसैः सार्धमन्तस्थैर्वापि संयुतम्
दृष्ट्वा यमानि वर्तन्ते आदेशगमिवाधुगः
उभयोरन्त्यसंयुक्तः पुमान्कुण्डलयोरिव
अयसन्तं विजानीयात्संज्ञानेति निदर्शनम्
संज्ञातनोपधा दीर्घं न चानुस्वारमादिशेत्
संनियस्य ञकारेण परिक्रामे ङञौ लघु
अनुस्वारं तथैकारमुपदामनुनासिकम्
विक्रोशमनुकूजं च संज्ञाने परिवर्जयेत्
समा श्लक्ष्णा न संधिरधान्वर्णानुश्चारयेद्बुधः
नवैयाकरणैश्शक्यं सम्यग्वक्तुमशिक्षकैः
हकारः पञ्चमैर्यत्र संयुज्येत यथा विधि
तयोर्मध्ये तु नासिक्यं पह्णोर्ह्णे ब्राह्मणो यथा
न वायुं हससंयोगे नासिकाभ्यां समुत्सृजेत्
नाभ्यन्तमुरसानादं तथाहयवनेषु च
हकारं स्वरसंयुक्तं लघुत्वं दृश्यते यदि
कण्ठ्यं न तु विजानीयाद्धृदयेति निदर्शनम्
हकारव्यञ्जनैर्युक्तं गुरुत्वे दृश्यते यदि
तमुरस्यं विजानीयादाह्रियेति निदर्शनम्
नासिकेष्वपि वर्णेषु यो यत्र भजते स्वरम्
तं तमेवोपजीवन्ति नासादोषांश्च वर्जयेत्
ऋकाररेफसन्देहे यत्पूर्वव्यञ्जनं परम्
रेफं तद्भारिकं विद्यादृकारे लघु तद्भवेत्
ङणनाः पूर्वपदान्तशषसेषु परेषु च
कटतैर्व्यवधीयेत्तु वर्जयेत्तच्च संयुतम्
प्रथमा ऊष्मसंयुक्तापदस्थावापदादिगाः
नचैनात्प्रतिजानीयाद्यथामत्स्याः क्षरोप्सरः
टशौ पशौ च संयोगे तथा स्यात्कशकारयोः
दर्शयेत्स्वतूपं तेषां द्वितीयं तु विसर्जयेत्
षट्पात्रक्षराणिविरिपूशिर्नु उदयः
अनुक्शातिपदं यत्र विरिप्सिन्तु तथैव च
स्वतूपे तु कपौ तत्र द्वितीयं तु विसर्जयेत्
अन्यत्र यदाद्यादृग्येकपादूष्मसंयुतम्
द्वितीयेत्वतु तं ज्ञात्वानुष्टुप्शारद्युदाहृतम्
तृतीयश्च चतुर्थश्च चतुर्थादिपरं पदम्
त्रिषुग्घर्मः
न विकारा ञककारात्तुशकारे छागमः स्मृतः
शकारा तु छकारस्य ह्यन्येषामपिशालिनाम्
अघोषे तु विसृष्टस्य परसंस्थानता भवेत्
क्षसादिच्छ परे चैव प्रकृत्यातेषु नित्यशः
नक्रमेत्संस्कृतादीनां पूर्वं चैव तथा परम्
ऋगर्धर्चानुवाकादौ स्वरभंतौ तथैव च
पुंश्चल्पा तु तथैवास्यातूष्मा चैवोष्मणिस्थितः
वर्णेषूक्तः क्रमविधिरेतच्चारायणेर्मतम्
सर्वेषां क्रमशास्त्राणां स्वरोधिष्टानमुच्यते
नास्वरत्क्रमते वर्णो बहु प्राप्तोऽपि कारणात्
द्वितीयोध्यायः

N/A

References : N/A
Last Updated : September 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP