चारायणीयशिक्षा - सप्तमोऽध्यायः

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


पद्रचितावलगातारा केशिनी धात्रिरेव च
स्वमतिपिपीलकान्वष्ट्रा वायव्यानवषृत्तयः
तिस्रस्तिस्रः क्रमेणासां पूर्वे मध्ये तथोत्तरे
सवनेषु प्रशस्यन्ते दुतमध्यविलम्बिताः
अभ्यासार्थे द्रुतिं वृत्तिं प्रयोगार्थे तु मध्यमाम्
शिष्याणामुपदेशार्थे वृत्तिं कुर्याद्विलम्बिताम्
पदक्रमेण सन्धाय यज्ञुर्धर्मेण संस्थितं
स्थानपाणिस्वरश्लिष्टं द्रुतमाहुर्मणीषिणः
लघ्वादिगुरुसन्धिं च स्वोछ्वासन्नं पदे पदे
मात्राकालं समं कुर्यान्मध्यमां तां प्रचक्षते
पदं पदं पृथक्पृथक् प्रक्रमं प्रक्रमं तु यत्
प्राणप्रमाणप्रश्लिष्टां न्यासे वृत्तिं विलम्बिताम्
वाद्यं चताण्डवादीनां मात्रार्थमनुवर्तते
क्रमं चैव तिरस्कृत्यशिष्याभ्यासनहेतवे
क्रुद्धो गुरुर्वदति यानि यदा निशिष्ये दावाग्निसूर्यसदृशानि
दहन्ति तानि चून्येव शिक्षितपदानि सुखादहानि पश्चाद्भवन्ति कुमुदा करशीतलानि
इति सप्तमोऽध्यायः

N/A

References : N/A
Last Updated : September 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP