विश्रामोपनिषत्

उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.
Upanishad are highly philosophical and metaphysical part of Vedas.


ॐ पूर्वदले श्वेतवर्णे यदा विश्राम्यते मनः ॥
तदा धैर्यमुदारं च धर्मकीर्तिमतिर्भवेत् ॥१॥
अग्निदले रक्तवर्णे यदा विश्राम्यते मनः ।
तदा क्रोधश्च कामश्च मन्दं बुद्धिर्मतिर्भवेत् ॥२॥
कृष्णवर्णे दक्षिणदले यदा विश्राम्यते मनः ।
निद्रालस्यभयं देवि मत्सरे च मतिर्भवेत् ॥३॥
नैर्ऋतदले नीलवर्णे यदा विश्राम्यते मनः ।
तदा क्रोधश्च कामश्च मनोभिन्नमतिर्भवेत् ॥४॥
पश्चिमदले कपिलवर्णे यदा विश्राम्यते मनः ।
तदा हास्यविनोदौ च उत्साहे च मतिर्भवेत् ॥५॥
श्यामवर्णे वायुदले यदा विश्राम्यते मनः ।
तदा चिन्तोच्चाटनं च वैराग्ये च मतिर्भवेत् ॥६॥
पीतवर्णोत्तरदले यदा विश्राम्यते मनः ।
तदा शृंगारभोगौ च कल्पनायां मतिर्भवेत् ॥७॥
गौरवर्णेशानदले यदा विश्राम्यते मनः ।
तदा कृमात्मानं धर्मकीर्तिमतिर्भवेत् ॥८॥
सन्धौ सन्धौ मिश्रितानां यदा विश्राम्यते मनः ।
तदा देहो गृहं राज्यं निर्दोषा च मतिर्भवेत् ॥९॥
श्यामवर्णे मध्यदले यदा विश्राम्यते मनः ।
तदा सर्वगुणं ज्ञानं चैतन्यं च मतिर्भवेत् ॥१०॥
यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ।
ये पठन्ति सदा भक्त्या सायुज्यपदमाप्नुयुः ॥११॥
इति विश्रामोपनिषत् संपूर्णा

N/A

References : N/A
Last Updated : July 14, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP