संस्कृत सूची|संस्कृत साहित्य|उपनिषद|श्रीशिवोपनिषत्| तृतीयः श्रीशिवोपनिषत् प्रथमः द्वितीयः तृतीयः चतुर्थः पञ्चमः षष्ठः सप्तमः विश्रामोपनिषत् श्रीशिवोपनिषत् - तृतीयः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद तृतीयः Translation - भाषांतर अथान्यैरल्पवित्तैश्च नृपैश्च शिवभावितैः ।शक्तितः स्वाश्रमे कार्यं शिवशान्तिगृहद्वयम् ॥१॥गृहस्येशानदिग्भागे कार्यमुत्तरतो ऽपि वा ।खात्वा भूमिं समुद्धृत्य शल्यानाकोट्य यत्नतः ॥२॥शिवदेवगृहं कार्यमष्टहस्तप्रमाणतः ।दक्षिणोत्तरदिग्भागे किंचिच्दीर्घं प्रकल्पयेत् ॥३॥हस्तमात्रप्रमाणं च दृढपट्टचतुष्टयम् ।चतुष्कोणेषु संयोज्यमर्घ्यपात्रादिसंश्रयम् ॥४॥गर्भमध्ये प्रकुर्वीत शिववेदिं सुशोभनाम् ।उदगर्वाक्च्छ्रितां किंचिच्चतुःशीर्षकसंयुताम् ॥५॥त्रिहस्तायामविस्ताराम्षोडशाङ्गुलमुच्छ्रिताम् ।तच्छीर्षाणीव हस्तार्धमायामाद्विस्तरेण च ॥६॥शिवस्थण्डिलमित्येतच्चतुर्हस्तं समं शिरः ।मूर्तिनैवेद्यदीपानां विन्यासार्थं प्रकल्पयेत् ॥७॥शैवलिङ्गेन कार्यं स्यात्कार्यं मणिजपार्थिवैः ।स्थण्डिलार्धे च कुर्वन्ति वेदिमन्यां सवर्तुलाम् ॥८॥षोडशाङ्गुलमुत्सेधां विस्तीर्णां द्विगुणेन च ।गृहे न स्थापयेच्छैलं लिङ्गं मणिजमर्चयेत् ॥९॥त्रिसंध्यं पार्थिवं वापि कुर्यादन्यद्दिनेदिने ।सर्वेषामेव वर्णानां स्फाटिकं सर्वकामदम् ॥१०॥सर्वदोषविनिर्मुक्तमन्यथा दोषमावहेत् ।आयुष्मान्बलवाञ्श्रीमान्पुत्रवान्धनवान्सुखी ॥११॥वरमिष्टं च लभते लिङ्गं पार्थिवमर्चयन् ।तस्माद्धि पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम् ॥१२॥निर्दोषं सुलभं चैव पूजयेत्सततं बुधः ।यथा यथा महालिङ्गं पूजा श्रद्धा यथा यथा ॥१३॥तथा तथा महत्पुण्यं विज्ञेयमनुरूपतः ।प्रतिमालिङ्गवेदीषु यावन्तः परमाणवः ।तावत्कल्पान्महाभोगस्तत्कर्तास्ते शिवे पुरे ॥१४॥॥ इति शिवोपनिषदि शिवगृहाध्यायस्तृतीयः ॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP