श्रीशिवोपनिषत् - सप्तमः

उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.
Upanishad are highly philosophical and metaphysical part of Vedas.


अथ स्वर्गापवर्गार्थे प्रवक्ष्यामि समासतः ।
सर्वेषां शिवभक्तानां शिवाचारमनुत्तमम् ॥१॥

शिवः शिवाय भूतानां यस्माद्दानं प्रयच्छति ।
गुरुमूर्तिः स्थितस्तस्मात्पूजयेत्सततं गुरुम् ॥२॥

नालक्षणे यथा लिङ्गे सांनिध्यं कल्पयेच्छिवः ।
अल्पागमे गुरौ तद्वत्सांनिध्यं न प्रकल्पयेत् ॥३॥

शिवज्ञानार्थतत्त्वज्ञः प्रसन्नमनसं गुरुम् ।
शिवः शिवं समास्थाय ज्ञानं वक्ति न हीतरः ॥४॥

गुरुं च शिववद्भक्त्या नमस्कारेण पूजयेत् ।
कृताञ्जलिस्त्रिसंध्यं च भूमिविन्यस्तमस्तकः ॥५॥

न विविक्तमनाचान्तं चङ्क्रमन्तं तथाकुलम् ।
समाधिस्थं व्रजन्तं च नमस्कुर्याद्गुरुं बुधः ॥६॥

व्याख्याने तत्समाप्तौ च सम्प्रश्ने स्नानभोजने ।
भुक्त्वा च शयने स्वप्ने नमस्कुर्यात्सदा गुरुम् ॥७॥

ग्रामान्तरमभिप्रेप्सुर्गुरोः कुर्यात्प्रदक्षिणम् ।
सार्वाङ्गिकप्रणामं च पुनः कुर्यात्तदागतः ॥८॥

पर्वोत्सवेषु सर्वेषु दद्याद्गन्धपवित्रकम् ।
शिवज्ञानस्य चारम्भे प्रवासगमनागतौ ॥९॥

शिवधर्मव्रतारम्भे तत्समाप्तौ च कल्पयेत् ।
प्रसादनाय कुपितो विजित्य च रिपुं तथा ॥१०॥

पुण्याहे ग्रहशान्तौ च दीक्षायां च सदक्षिणम् ।
आवार्य पदसम्प्राप्तौ पवित्रे चोपविग्रहे ॥११॥

उपानच्छत्त्रशयनं वस्त्रमासनभूषणम् ।
पात्रदण्डाक्षसूत्रं वा गुरुसक्तं न धारयेत् ॥१२॥

हास्यनिष्ठीवनास्फोटमुच्चभाष्यविजृम्भणम् ।
पादप्रसारणं गतिं न कुर्याद्गुरुसंनिधौ ॥१३॥

हीनान्नपानवस्त्रः स्यान्नीचशय्यासनो गुरोः ।
न यथेष्टश्च संतिष्ठेत्कलहं च विवर्जयेत् ॥१४॥

प्रतिवाते ऽनुवाते वा न तिष्ठेद्गुरुणा सह ।
असंश्रये च सततं न किंचित्कीर्तयेद्गुरोः ॥१५॥

अन्यासक्तो न भुञ्जानो न तिष्ठन्नपराङ्मुखः ।
न शयनो न चासीनः संभास्येद्गुरुणा सह ॥१६॥

दृष्ट्वैव गुरुमायान्तमुत्तिष्ठेद्दूरतस्त्वरम् ।
अनुज्ञातश्च गुरुणा संविशेच्चानुपृष्ठतः ॥१७॥

न कण्ठं प्रावृतं कुर्यान्न च तत्रावसक्तिकाम् ।
न पादधावनस्नानं यत्र पश्येद्गुरुः स्थितः ॥१८॥

न दन्तधावनाभ्यङ्गमायामोद्वर्तनक्रियाः ।
उत्सर्गपरिधानं च गुरोः कुर्वीत पश्यतः ॥१९॥

गुरुर्यदर्पयेत्किंचिद्गृहासन्नं तदञ्जलौ ।
पात्रे वा पुरतः शिष्यस्तद्वक्त्रमभिवीक्षयन् ॥२०॥

यदर्पयेद्गुरुः किंचि तन्नम्रः पुरतः स्थितः ।
पाणिद्वयेन गृह्णीयत्स्थापयेत्तच्च सुस्थितम् ॥२१॥

न गुरोः कीर्तयेन्नाम परोऽक्षमपि केवलम् ।
समानसंज्ञमन्यं वा नाह्वयीत तदाख्यया ॥२२॥

स्वगुरुस्तद्गुरुश्चैव यदि स्यातां समं क्वचित् ।
गुरोर्गुरुस्तयोः पूज्यः स्वगुरुश्च तदाज्ञया ॥२३॥

अनिवेद्य न भुञ्जीत भुक्त्वा चास्य निवेदयेत् ।
नाविज्ञाप्य गुरुं गच्छेद्बहिः कार्येण केनचित् ॥२४॥

गुर्वाज्ञया कर्म कृत्वा तत्समाप्तौ निवेदयेत् ।
कृत्वा च नैत्यकं सर्वमधीयीताज्ञया गुरोः ॥२५॥

मृद्भस्मगोमयजलं पत्त्रपुष्पेन्धनं समित् ।
पर्याप्तमष्टकं ह्येतद्गुर्वर्थं तु समाहरेत् ॥२६॥

भैषज्याहारपात्राणि वस्त्रशय्यासनं गुरोः ।
आनयेत्सर्वयत्नेन प्रार्थयित्वा धनेश्वरान् ॥२७॥

गुरोर्न खण्डयेदाज्ञामपि प्राणान्परित्यजेत् ।
कृत्वाज्ञां प्राप्नुयान्मुक्तिं लङ्घयन्नरकं व्रजेत् ॥२८॥

पर्यटेत्पृथिवीं कृत्स्नां सशैलवनकाननाम् ।
गुरुभैषज्यसिद्ध्यर्थमपि गच्छेद्रसातलम् ॥२९॥

यदादिशेद्गुरुः किंचित्तत्कुर्यादविचारतः ।
अमीमांस्या हि गुरवः सर्वकार्येषु सर्वथा ॥३०॥

नोत्थापयेत्सुखासीनं शयानं न प्रबोधयेत् ।
आसीनो गुरुमासीनमभिगच्छेत्प्रतिष्ठितम् ॥३१॥

पथि प्रयान्तं यान्तं च यत्नाद्विश्रमयेद्गुरुम् ।
क्षित्पिपासातुरं स्नातं ज्ञात्वा शक्तं च भोजयेत् ॥३२॥

अभ्यङ्गोद्वर्तनं स्नानं भोजनष्ठीवमार्जनम् ।
गात्रसंवाहनं रात्रौ पादाभ्यङ्गं च यत्नतः ॥३३॥

प्रातः प्रसाधनं दत्त्वा कार्यं संमार्जनाञ्जनम् ।
नानापुष्पप्रकरणं श्रीमद्व्याख्यानमण्डपे ॥३४॥

स्थाप्यासनं गुरोः पूज्यं शिवज्ञानस्य पुस्तकम् ।
तत्र तिष्ठेत्प्रतीक्षंस्तद्गुरोरागमनं क्रमात् ॥३५॥

गुरोर्निन्दापवादं च श्रुत्वा कर्णौ पिधापयेत् ।
अन्यत्र चैव सर्पेत्तु निगृह्णीयादुपायतः ॥३६॥

न गुरोरप्रियं कुर्यात्पीडितस्तारितो ऽपि वा ।
नोच्चारयेच्च तद्वाक्यमुच्चार्य नरकं व्रजेत् ॥३७॥

गुरुरेव पिता माता गुरुरेव परः शिवः ।
यस्यैव निश्चितो भावस्तस्य मुक्तिर्न दूरतः ॥३८॥

आहाराचारधर्माणां यत्कुर्याद्गुरुरीश्वरः ।
तथैव चानुकुर्वीत नानुयुञ्जीत कारणम् ॥३९॥

यज्ञस्तपांसि नियमात्तानि वै विविधानि च ।
गुरुवाक्ये तु सर्वाणि सम्पद्यन्ते न संशयः ॥४०॥

अज्ञानपङ्कनिर्मग्नं यः समुद्धरते जनम् ।
शिवज्ञानात्महस्तेन कस्तं न प्रतिपूजयेत् ॥४१॥

इति यः पूजयेन्नित्यं गुरुमूर्तिस्थमीश्वरम् ।
सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम् ॥४२॥

स्नात्वाम्भसा भस्मना वा शुक्लवस्त्रोपवीतवान् ।
दूर्वागर्भस्थितं पुष्पं गुरुः शिरसि धारयेत् ॥४३॥

रोचनालभनं कुर्याद्धूययेदात्मनस्तनुम् ।
अङ्गुलीयाक्षसूत्रं च कर्णमात्रे च धारयेत् ॥४४॥

गुरुरेवंविधः श्रीमान्नित्यं तिष्ठेत्समाहितः ।
यस्माज्ज्ञानोपदेशार्थं गुरुरास्ते सदाशिवः ॥४५॥

धारयेत्पादुके नित्यं मृदुवर्मप्रकल्पिते ।
प्रगृह्य दण्डं छत्त्रं वा पर्यटेदाश्रमाद्बहिः ॥४६॥

न भूमौ विन्यसेत्पादमन्तर्धानं विना गुरुः ।
कुशपादकमाक्रम्य तर्पणार्थं प्रकल्पयेत् ॥४७॥

पादस्थानानि पत्त्राद्यैः कृत्वा देवगृहं विशेत् ।
पात्रास्तरितपादश्च नित्यं भुञ्जीत वाग्यतः ॥४८॥

न पादौ धावयेत्कांस्ये लोहे वा परिकल्पिते ।
शौचयेत्तृणगर्भायां द्वितीयायां तथाचमेत् ॥४९॥

न रक्तमुल्बणं वस्त्रं धारयेत्कुसुमानि च ।
न बहिर्गन्धमाल्यानि वासांसि मलिनानि च ॥५०॥

केशास्थीनि कपालानि कार्पासास्थितुषाणि च ।
अमेध्याङ्गारभस्मानि नाधितिष्ठेद्रजांसि च ॥५१॥

न च लोष्टं विमृद्नीयान्न च छिन्द्यान्नखैस्तृणम् ।
न पत्त्रपुष्पमूल्यानि वंशमङ्गलकाष्ठिताम् ॥५२॥

एवमादीनि चान्यानि पाणिभ्यां न च मर्दयेत् ।
न दन्तखादनं कुर्याद्रोमाण्युत्पाटयेन्न च ॥५३॥

न पद्भ्यामुल्लिखेद्भूमिं लोष्टकाष्ठैः करेण वा ।
न नखांश्च नखैर्विध्यान्न कण्डूयेन्नखैस्तनुम् ॥५४॥

मुहुर्मुहुः शिरः श्मश्रु न स्पृशेत्करजैर्बुधः ।
न लिक्षाकर्षणं कुर्यादात्मनो वा परस्य वा ॥५५॥

सौवर्ण्यरौप्यताम्रैश्च शृङ्गदन्तशलाकया ।
देहकण्डूयनं कार्यं वंशकाष्ठीकवीरणैः ॥५६॥

न विचित्तं प्रकुर्वीत दिशश्चैवावलोकयन् ।
न शोकार्तश्च संतिष्ठेद्धूत्वा पाणौ कपोलकम् ॥५७॥

न पाणिपादवाक्चक्षुः- श्रोत्रशिश्नगुदोदरैः ।
चापलानि न कुर्वीत स सर्वार्थमवाप्नुयात् ॥५८॥

न कुर्यात्केनचिद्वैरमध्रुवे जीविते सति ।
लोककौतूहलं पापं संध्यां च परिवर्जयेत् ॥५९॥

न कुद्वारेण वेश्मानि नगरं ग्राममाविशेत् ।
न दिवा प्रावृतशिरा रात्रौ प्रावृत्य पर्यटेत् ॥६०॥

नातिभ्रमणशीलः स्यान्न विशेच्च गृहाद्गृहम् ।
न चाज्ञानमधीयीत शिवज्ञानं समभ्यसेत् ॥६१॥

शिवज्ञानं परं ब्रह्म तदारभ्य न संत्यजेत् ।
ब्रह्मासाध्य च यो गच्छेद्ब्रह्महा स प्रकीर्तितः ॥६२॥

कृताञ्जलिः स्थितः शिष्यो लघुवस्त्रमुदङ्मुखः ।
शिवमन्त्रं समुच्चार्य प्राङ्मुखो ऽध्यापयेद्गुरुः ॥६३॥

नागदन्तादिसंभूतं चतुरश्रं सुशोभनम् ।
हेमरत्नचितं वापि गुरोरासनमुत्तमम् ॥६४॥

न शुश्रूषार्थकामाश्च न च धर्मः प्रदृश्यते ।
न भक्तिर्न यशः क्रौर्यं न तमध्यापयेद्गुरुः ॥६५॥

देवाग्निगुरुगोष्ठीषु व्याख्याध्ययनसंसदि ।
प्रश्ने वादे ऽनृते ऽशौचे दक्षिणं बाहुमुद्धरेत् ॥६६॥

वशे सततनम्रः स्यात्संहृत्याङ्गानि कूर्मवत् ।
तत्संमुखं च निर्गच्छेन्नमस्कारपुरस्सरः ॥६७॥

देवाग्निगुरुविप्राणां न व्रजेदन्तरेण तु ।
नार्पयेन्न च गृह्णीयात्किंचिद्वस्तु तदन्तरा ॥६८॥

न मुखेन धमेदग्निं नाधःकुर्यान्न लङ्घयेत् ।
न क्षिपेदशुचिं वह्नौ न च पादौ प्रतापयेत् ॥६९॥

तृणकाष्ठादिगहने जन्तुभिश्च समाकुले ।
स्थाने न दीपयेदग्निं दीप्तं चापि ततः क्षिपेत् ॥७०॥

अग्निं युगपदानीय धारयेत प्रयत्नतः ।
ज्वलन्तं न प्रदीपं च स्वयं निर्वापयेद्बुधः ॥७१॥

शिवव्रतधरं दृष्ट्वा समुत्थाय सदा द्रुतम् ।
शिवो ऽयमिति संकल्प्य हर्षितः प्रणमेत्ततः ॥७२॥

भोगान्ददाति विपुलान्लिङ्गे सम्पूजितः शिवः ।
अग्नौ च विविधां सिद्धिं गुरौ मुक्तिं प्रयच्छति ॥७३॥

मोक्षार्थं पूजयेत्तस्माद्गुरुमूर्तिस्थमीश्वरम् ।
गुरुभक्त्या लभेज्ज्ञानं ज्ञानान्मुक्तिमवाप्नुयात् ॥७४॥

सर्वपर्वसु यत्नेन ह्येषु सम्पूजयेच्छिवम् ।
कुर्यादायतने शोभां गुरुस्थानेषु सर्वतः ॥७५॥

नरद्वयोच्छ्रिते पीठे सर्वशोभासमन्विते ।
संस्थाप्य मणिजं लिङ्गं स्थाने कुर्याज्जगद्धितम् ॥७६॥

अन्नपानविशेषैश्च नैवेद्यमुपकल्पयेत् ।
भोजयेद्व्रतिनश्चात्र स्वगुरुं च विशेषतः ॥७७॥

पूजयेच्च शिवज्ञानं वाचयीत च पर्वसु ।
दर्शयेच्छिवभक्तेभ्यः सत्पूजां परिकल्पिताम् ॥७८॥

प्रियं ब्रूयात्सदा तेभ्यः प्रदेयं चापि शक्तितः ।
एवं कृते विशेषेण प्रसीदति महेश्वरः ॥७९॥

छिन्नं भिन्नं मृतं नष्टं वर्धते नास्ति केवलम् ।
इत्याद्यान्न वदेच्छब्दान्साक्षाद्ब्रूयात्तु मङ्गलम् ॥८०॥

अधेनुं धेनुमित्येव ब्रूयाद्भद्रमभद्रकम् ।
कपालं च भगालं स्यात्परमं मङ्गलं वदेत् ॥८१॥

ऐन्द्रं धनुर्मणिधनुर्दाहकाष्ठादि चन्दनम् ।
स्वर्यातं च मृतं ब्रूयाच्छिवीभूतं च योगिनम् ॥८२॥

द्विधाभूतं वदेच्छिन्नं भिन्नं च बहुधा स्थितम् ।
नष्टमन्वेषणीयं च रिक्तं पूर्णाभिवर्धितम् ॥८३॥

नास्तीति शोभनं सर्वमाद्यमङ्गाभिवर्धनम् ।
सिद्धिमद्ब्रूहि गच्छन्तं सुप्तं ब्रूयात्प्रवर्धितम् ॥८४॥

न म्लेच्छमूर्खपतितैः क्रूरैः संतापवेदिभिः ।
दुर्जनैरवलिप्तैश्च क्षुद्रैः सह न संवदेत् ॥८५॥

नाधार्मिकनृपाक्रान्ते न दंशमशकावृते ।
नातिशीतजलाकीर्णे देशे रोगप्रदे वसेत् ॥८६॥

नासनं शयनं पानं नमस्काराभिवादनम् ।
सोपानत्कः प्रकुर्वीत शिवपुस्तकवाचनम् ॥८७॥

आचार्यं दैवतं तीर्थमुद्धूतोदं मृदं दधि ।
वटमश्वत्थकपिलां दीक्षितोदधिसंगमम् ॥८८॥

यानि चैषां प्रकाराणि मङ्गलानीह कानिचित् ।
शिवायेति नमस्कृत्वा प्रोक्तमेतत्प्रदक्षिणम् ॥८९॥

उपानच्छत्त्रवस्त्राणि पवित्रं करकं स्रजम् ।
आसनं शयनं पानं धृतमन्यैर्न धारयेत् ॥९०॥

पालाशमासनं शय्यां पादुके दन्तधावनम् ।
वर्जयेच्चापि निर्यासं रक्तं न तु समुद्भवम् ॥९१॥

संध्यामुपास्य कुर्वीत नित्यं देहप्रसाधनम् ।
स्पृशेद्वन्देच्च कपिलां प्रदद्याच्च गवां हितम् ॥९२॥

यः प्रदद्याद्गवां सम्यक्फलानि च विशेषतः ।
क्षेत्रमुद्दामयेच्चापि तस्य पुण्यफलं शृणु ॥९३॥

यावत्तत्पत्त्रकुसुम- कन्दमूलफलानि च ।
तावद्वर्षसहस्राणि शिवलोके महीयते ॥९४॥

कृशरोगार्तवृद्धानां त्यक्तानां निर्जने वने ।
क्षुत्पिपासातुराणां च गवां विह्वलचेतसाम् ॥९५॥

नीत्वा यस्तृणतोयानि वने यत्नात्प्रयच्छति ।
करोति च परित्राणं तस्य पुण्यफलं शृणु ॥९६॥

कुलैकविंशकोपेतः पत्नीपुत्रादिसंयुतः ।
मित्रभृत्यैरुपेतश्च श्रीमच्छिवपुरं व्रजेत् ॥९७॥

तत्र भुक्त्वा महाभोगान्विमानैः सार्वकामिकैः ।
स महाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् ॥९८॥

गोब्राह्मणपरित्राणं सकृत्कृत्वा प्रयत्नतः ।
मुच्यते पञ्चभिर्घोरैर्महद्भिः पातकैर्द्रुतम् ॥९९॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ।
अक्रोधो गुरुशुश्रूषा शौचं संतोषमार्जवम् ॥१००॥

अहिंसाद्या यमाः पञ्च यतीनां परिकीर्तिताः ।
अक्रोधाद्याश्च नियमाः सिद्धिवृद्धिकराः स्मृताः ॥१०१॥

दशलाक्षणिको धर्मः शिवाचारः प्रकीर्तितः ।
योगीन्द्राणां विशेषेण शिवयोगप्रसिद्धये ॥१०२॥

न विन्दति नरो योगं पुत्रदारादिसंगतः ।
निबद्धः स्नेहपाशेन मोहस्तम्भबलीयसा ॥१०३॥

मोहात्कुटुम्बसंसक्तस्तृष्णया शृङ्खलीकृतः ।
बालैर्बद्धस्तु लोको ऽयं मुसलेनाभिहन्यते ॥१०४॥

इमे बालाः कथं त्याज्या जीविष्यन्ति मया विना ।
मोहाद्धि चिन्तयत्येवं परमार्थौ न पश्यति ॥१०५॥

सम्पर्कादुदरे न्यस्तः शुक्रबिन्दुरचेतनः ।
स पित्रा केन यत्नेन गर्भस्थः परिपालितः ॥१०६॥

कर्कशाः कठिना भक्षा जीर्यन्ते यत्र भक्षिताः ।
तस्मिन्नेवोदरे शुक्रं किं न जीर्यति भक्ष्यवत् ॥१०७॥

येनैतद्योजितं गर्भे येन चैव विवर्धितम् ।
तेनैव निर्गत्ं भूयः कर्मणा स्वेन पाल्यते ॥१०८॥

न कश्चित्कस्यचित्पुत्रः पिता माता न कस्यचित् ।
यत्स्वयं प्राक्तनं कर्म पिता मातेति तत्स्मृतम् ॥१०९॥

येन यत्र कृतं कर्म स तत्रैव प्रजायते ।
पितरौ चास्य दासत्वं कुरुतस्तत्प्रचोदितौ ॥११०॥

न कश्चित्कस्यचिच्छक्तः कर्तुं दुःखं सुखानि च ।
करोति प्राक्तनं कर्म मोहाल्लोकस्य केवलम् ॥१११॥

कर्मदायादसंबन्धादुपकारः परस्परम् ।
दृश्यते नापकारश्च मोहेनात्मनि मन्यते ॥११२॥

ईश्वराधिष्ठितं कर्म फलतीह शुभाशुभम् ।
ग्रामस्वामिप्रसादेन सुकृतं कर्षणं यथा ॥११३॥

द्वयं देवत्वमोक्षाय ममेति न ममेति च ।
ममेति बध्यते जन्तुर्न ममेति विमुच्यते ॥११४॥

द्व्यक्षरं च भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।
ममेति द्व्यक्षरं मृत्युस्त्र्यक्षरं न ममेति च ॥११५॥

तस्मादात्मन्यहंकारमुत्सृज्य प्रविचारतः ।
विधूयाशेषसङ्गांश्च मोक्षोपायं विचिन्तयेत् ॥११६॥

ज्ञानाद्योगपरिक्लेशं कुप्रावरणभोजनम् ।
कुचर्यां कुनिवासं च मोक्षार्थी न विचिन्तयेत् ॥११७॥

न दुःखेन विना सौख्यं दृश्यते सर्वदेहिनाम् ।
दुःखं तन्मात्रकं ज्ञेयं सुखमानन्त्यमुत्तमम् ॥११८॥

सेवायां पाशुपाल्ये च वानिज्ये कृषिकर्मणि ।
तुल्ये सति परिक्लेशे वरं क्लेशो विमुक्तये ॥११९॥

स्वर्गापवर्गयोरेकं यः शीघ्रं न प्रसाधयेत् ।
याति तेनैव देहेन स मृतस्तप्यते चिरम् ॥१२०॥

यदवश्यं पराधीनैस्त्यजनीयं शरीरकम् ।
कस्मात्तेन विमूढात्मा न साधयति शाश्वतम् ॥१२१॥

यौवनस्था गृहस्थाश्च प्रासादस्थाश्च ये नृपाः ।
सर्व एव विशीर्यन्ते शुष्कस्निग्धान्नभोजनाः ॥१२२॥

अनेकदोषदुष्टस्य देहस्यैको महान्गुणह् ।
यां यामवस्थामाप्नोति तां तामेवानुवर्तते ॥१२३॥

मन्दं परिहरन्कर्म स्वदेहमनुपालयेत् ।
वर्षासु जीर्णकटवत्तिष्ठन्नप्यवसीदति ॥१२४॥

न ते ऽत्र देहिनः सन्ति ये तिष्ठन्ति सुनिश्चलाः ।
सर्वे कुर्वन्ति कर्माणि विकृशाः पूर्वकर्मभिः ॥१२५॥

तुल्ये सत्यपि कर्तव्ये वरं कर्म कृतं परम् ।
यः कृत्वा न पुनः कुर्यान्नानाकर्म शुभाशुभम् ॥१२६॥

तस्मादन्तर्बहिश्चिन्तामनेकाकारसंस्थिताम् ।
संत्यज्यात्महितार्थाय स्वाध्यायध्यानमभ्यसेत् ॥१२७॥

विविक्ते विजने रम्ये पुष्पाश्रमविभूषिते ।
स्थानं कृत्वा शिवस्थाने ध्यायेच्छान्तं परं शिवम् ॥१२८॥

ये ऽतिरम्याण्यरण्यानि सुजलानि शिवानि तु ।
विहायाभिरता ग्रामे प्रायस्ते दैवमोहिताः ॥१२९॥

विवेकिनः प्रशान्तस्य यत्सुखं ध्यायतः शिवम् ।
न तत्सुखं महेन्द्रस्य ब्रह्मणः केशवस्य वा ॥१३०॥

इति नामामृतं दिव्यं महाकालादवाप्तवान् ।
विस्तरेणानुपूर्वाच्च ऋष्यात्रेयः सुनिश्चितम् ॥१३१॥

प्रज्ञामथा विनिर्मथ्य शिवज्ञानमहोदधिम् ।
ऋष्यात्रेयः समुद्धृत्य प्राहेदमणुमात्रकम् ॥१३२॥

शिवधर्मे महाशास्त्रे शिवधर्मस्य चोत्तरे ।
यदनुक्तं भवेत्किंचित्तदत्र परिकीर्तितम् ॥१३३॥

त्रिदैवत्यमिदं शास्त्रं मुनीन्द्रात्रेयभाषितम् ।
तिर्यङ्मनुजदेवानां सर्वेषां च विमुक्तिदम् ॥१३४॥

नन्दिस्कन्दमहाकालास्त्रयो देवाः प्रकीर्तिताः ।
चन्द्रात्रेयस्तथात्रिश्च ऋष्यात्रेयो मुनित्रयम् ॥१३५॥

एतैर्महात्मभिः प्रोक्ताः शिवधर्माः समासतः ।
सर्वलोकोपकारार्थं नमस्तेभ्यः सदा नमः ॥१३६॥

तेषां शिष्यप्रशिष्यैश्च शिवधर्मप्रवक्तृभिः ।
व्याप्तं ज्ञानसरः शार्वं विकचैरिव पङ्कजैः ॥१३७॥

ये श्रावयन्ति सततं शिवधर्मं शिवार्थिनाम् ।
ते रुद्रास्ते मुनीन्द्राश्च ते नमस्याः स्वभक्तितः ॥१३८॥

ये समुत्थाय शृण्वन्ति शिवधर्मं दिने दिने ।
ते रुद्रा रुद्रलोकेशा न ते प्रकृतिमानुषाः ॥१३९॥

शिवोपनिषदं ह्येतदध्यायैः सप्तभिः स्मृतम् ।
ऋष्यात्रेयसगोत्रेण मुनिना हितकाम्यया ॥१४०॥

॥ इति शिवोपनिषदि शिवाचाराध्यायः सप्तमः ॥

॥ इति शिवोपनिषत्समाप्ता ॥

N/A

References : N/A
Last Updated : March 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP