संस्कृत सूची|संस्कृत साहित्य|उपनिषद|श्रीशिवोपनिषत्| प्रथमः श्रीशिवोपनिषत् प्रथमः द्वितीयः तृतीयः चतुर्थः पञ्चमः षष्ठः सप्तमः विश्रामोपनिषत् श्रीशिवोपनिषत् - प्रथमः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद प्रथमः Translation - भाषांतर कैलासशिखरासीनमशेषामरपूजितम् ।कालघ्नं श्रीमहाकालमीश्वरं ज्ञानपारगम् ॥१॥सम्पूज्य विधिवद्भक्त्या ऋष्यात्रेयः सुसंयतः ।सर्वभूतहितार्थाय पप्रच्छेदं महामुनिः ॥२॥ज्ञानयोगं न विन्दन्ति ये नरा मन्दबुद्धयः ।ते मुच्यन्ते कथं घोराद्भगवन्भवसागरात् ॥३॥एवं पृष्टः प्रसन्नात्मा ऋष्यात्रेयेण धीमता ।मन्दबुद्धिविमुक्त्यर्थं महाकालः प्रभाषते ॥४॥महादेव उवाचपुरा रुद्रेण गदिताः शिवधर्माः सनातनाः ।देव्याः सर्वगणानां च संक्षेपाद्ग्रन्थकोटिभिः ॥५॥आयुः प्रज्ञां तथा शक्तिं प्रसमीक्ष्य नॄणामिह ।तापत्रयप्रपीडां च भोगतृष्णाविमोहिनीम् ॥६॥ते धर्माः स्कन्दनन्दिभ्यामन्यैश्च मुनिसत्तमैः ।सारमादाय निर्दिष्टाः सम्यक्प्रकरणान्तरैः ॥७॥सारादपि महासारं शिवोपनिषदं परम् ।अल्पग्रन्थं महार्थं च प्रवक्ष्यामि जगद्धितम् ॥८॥शिवः शिव इमे शान्त- नाम चाद्यं मुहुर्मुहुः ।उच्चारयन्ति तद्भक्त्या ते शिवा नात्र संशयः ॥९॥अशिवाः पाशसंयुक्ताः पशवः सर्वचेतनाः ।यस्माद्विलक्षणास्तेभ्यस्तस्मादीशः शिवः स्मृतः ॥१०॥गुणो बुद्धिरहंकारस्तन्मात्राणीन्द्रियानि च ।भूतानि च चतुर्विंशदिति पाशाः प्रकीर्तिताः ॥११॥पञ्चविंशकमज्ञानं सहजं सर्वदेहिनाम् ।पाशाजालस्य तन्मूलं प्रकृतिः कारणाय नः ॥१२॥सत्यज्ञाने निबध्यन्ते पुरुषाः पाशबन्धनैः ।मद्भावाच्च विमुच्यन्ते ज्ञानिनः पाशपञ्जरात् ॥१३॥षड्विंशकश्च पुरुषः पशुरज्ञः शिवागमे ।सप्तविंश इति प्रोक्तः शिवः सर्वजगत्पतिः ॥१४॥यस्माच्छिवः सुसम्पूर्णः सर्वज्ञः सर्वगः प्रभुः ।तस्मात्स पाशहरितः स विशुद्धः स्वभावतः ॥१५॥पशुपाशपरः शान्तः परमज्ञानदेशिकः ।शिवः शिवाय भूतानां तं विज्ञाय विमुच्यते ॥१६॥एतदेव परं ज्ञानं शिव इत्यक्षरद्वयम् ।विचाराद्याति विस्तारं तैलबिन्दुरिवाम्भसि ॥१७॥सकृदुच्चारितं येन शिव इत्यक्षरद्वयम् ।बद्धः परिकरस्तेन मोक्षोपगमनं प्रति ॥१८॥द्व्यक्षरः शिवमन्त्रो ऽयं शिवोपनिषदि स्मृतः ।एकाक्षरः पुनश्चायमोमित्येवं व्यवस्थितः ॥१९॥नामसंकीर्तणादेव शिवस्याशेषपातकैः ।यतः प्रमुच्यते क्षिप्रं मन्त्रो ऽयं द्व्यक्षरः परः ॥२०॥यः शिवं शिवमित्येवं द्व्यक्षरं मन्त्रमभ्यसेत् ।एकाक्षरं वा सततं स याति परमं पदम् ॥२१॥मित्रस्वजनबन्धूनां कुर्यान्नाम शिवात्मकम् ।अपि तत्कीर्तनाद्याति पापमुक्तः शिवं पुरम् ॥२२॥विज्ञेयः स शिवः शान्तो नरस्तद्भावभावितः ।आस्ते सदा निरुद्विग्नः स देहान्ते विमुच्यते ॥२३॥हृद्यन्तःकरणं ज्ञेयं शिवस्य आयतनं परम् ।हृत्पद्मं वेदिका तत्र लिङ्गमोंकारमिष्यते ॥२४॥पुरुषः स्थापको ज्ञेयः सत्यं संमार्जनं स्मृतम् ।अहिंसा गोमयं प्रोक्तं शान्तिश्च सलिलं परम् ॥२५॥कुर्यात्संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम् ।पूजयेद्ध्यानयोगेन संतोषैः कुसुमैः सितैः ॥२६॥धूपश्च गुग्गुलुर्देयः प्राणायामसमुद्भवः ।प्रत्याहारश्च नैवेद्यमस्तेयं च प्रदक्षिणम् ॥२७॥इति दिव्योपचारैश्च सम्पूज्य परमं शिवम् ।जपेद्ध्यायेच्च मुक्त्यर्थं सर्वसङ्गविवर्जितः ॥२८॥ज्ञानयोगविनिर्मुक्तः कर्मयोगसमावृत्तः ।मृतः शिवपुरं गच्छेत्स तेन शिवकर्मणा ॥२९॥तत्र भुक्त्वा महाभोगान्प्रलये सर्वदेहिनाम् ।शिवधर्माच्छिवज्ञानं प्राप्य मुक्तिमवाप्नुयात् ॥३०॥ज्ञानयोगेन मुच्यन्ते देहपातादनन्तरम् ।भोगान्भुक्त्वा च मुच्यन्ते प्रलये कर्मयोगिनः ॥३१॥तस्माज्ज्ञानविदो योगात्तथाज्ञाः कर्मयोगिनः ।सर्व एव विमुच्यन्ते ये नराः शिवमाश्रिताः ॥३२॥स भोगः शिवविद्यार्थं येषां कर्मास्ति निर्मलम् ।ते भोगान्प्राप्य मुच्यन्ते प्रलये शिवविद्यया ॥३३॥विद्या संकीर्तनीया हि येषां कर्म न विद्यते ।ते चावर्त्य विमुच्यन्ते यावत्कर्म न तद्भवेत् ॥३४॥शिवज्ञानविदं तस्मात्पूजयेद्विभवैर्गुरुम् ।विद्यादानं च कुर्वीत भोगमोक्षजिगीषया ॥३५॥शिवयोगी शिवज्ञानी शिवजापी तपोऽधिकः ।क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः ॥३६॥कर्मयोगस्य यन्मूलं तद्वक्ष्यामि समासतः ।लिङ्गमायतनं चेति तत्र कर्म प्रवर्तते ॥३७॥॥ इति शिवोपनिषदि मुक्तिनिर्देशाध्यायः प्रथमः ॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP