संस्कृत सूची|संस्कृत साहित्य|उपनिषद|श्रीशिवोपनिषत्| चतुर्थः श्रीशिवोपनिषत् प्रथमः द्वितीयः तृतीयः चतुर्थः पञ्चमः षष्ठः सप्तमः विश्रामोपनिषत् श्रीशिवोपनिषत् - चतुर्थः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद चतुर्थः Translation - भाषांतर अथैकभिन्नाविच्छिन्नं पुरतः शान्तिमण्डपम् ।पूर्वापराष्टहस्तं स्याद्द्वादशोत्तरदक्षिणे ॥१॥तद्द्वारभित्तिसंबद्धं कपिच्छुकसमावृतम् ।पटद्वयं भवेत्स्थाप्य स्रुवाद्यावारहेतुना ॥२॥द्वारं त्रिशाखं विज्ञेयं नवत्यङ्गुलमुच्छ्रितम् ।तदर्धेन च विस्तीर्णं सत्कवाटं शिवालये ॥३॥दीर्घं पञ्चनवत्या च पञ्चशाखासुशोभितम् ।सत्कवाटद्वयोपेतं श्रीमद्वाहनमण्टपम् ॥४॥द्वारं पश्चान्मुखं ज्ञेयमशेषार्थप्रसाधकम् ।अभावे प्राङ्मुखं कार्यमुदग्दक्षिणतो न च ॥५॥गवाक्षकद्वयं कार्यमपिधानं सुशोभनम् ।धूमनिर्गमनार्थाय दक्षिणोत्तरकुड्ययोः ॥६॥आग्नेयभागात्परितः कार्या जालगवाक्षकाः ।ऊर्ध्वस्तूपिकया युक्ता ईषच्छिद्रपिधानया ॥७॥शिवाग्निहोत्रकुण्डं च वृत्तं हस्तप्रमाणतः ।चतुरश्रवेदिका श्रीमन्मेखलात्रयभूषितम् ॥८॥कुड्यं द्विहस्तविस्तीऋणं पञ्चहस्तसमुच्छ्रितम् ।शिवाग्निहोत्रशरणं कर्तव्यमतिशोभनम् ॥९॥जगतीस्तम्भपट्टाद्यं सप्तसंख्यं च कल्पयेत् ।बन्धयोगविनिर्मुक्तं तुल्यस्थानपदान्तरम् ॥१०॥ऐष्टकं कल्पयेद्यत्नाच्छिवाग्न्यायतनं महत् ।चतुःप्रेगीवकोपेतम् एकप्रेगीवकेन वा ॥११॥सुधाप्रलिप्तं कर्तव्यं पञ्चाण्डकबिभूषितम् ।शिवाग्निहोत्रशरणं चतुरण्डकसंयुतम् ॥१२॥बहिस्तदेव जगती त्रिहस्ता वा सुकुट्टिमा ।तावदेव च विस्तीर्णा मेखलादिविभूषिता ॥१३॥कर्तव्या चात्र जगती तस्याश्चाधः समन्ततः ।द्विहस्तमात्रविस्तीर्णा तदर्धार्धसमुच्छ्रिता ॥१४॥अन्या वृत्ता प्रकर्तव्या रुद्रवेदी सुशोभना ।दशहस्तप्रमाणा च चतुरङ्गुलमुच्छ्रिता ॥१५॥रुद्रमातृगणानां च दिक्पतीनां च सर्वदा ।सर्वाग्रपाकसंयुक्तं तासु नित्यबलिं हरेत् ॥१६॥वेद्यन्या सर्वभूतानां बहिः कार्या द्विहस्तिका ।वृषस्थानं च कर्तव्यं शिवालोकनसंमुखम् ॥१७॥अग्रार्षसवितुर्व्योम वृषः कार्यश्च पश्चिमे ।व्योम्नश्चाधस्त्रिगर्भं स्यात्पितृतर्पणवेदिका ॥१८॥प्राकारान्तर्बहिः कार्यं श्रीमद्गोपुरभूषितम् ।पुष्पारामजलोपेतं प्राकारान्तं च कारयेत् ॥१९॥मृद्दारुजं तृणच्छन्नं प्रकुर्वीत शिवालयम् ।भूमिकाद्वयविन्यासादुत्क्षिप्तं कल्पयेद्बुधः ॥२०॥शिवदक्षिणतः कार्यं तभुक्तेर्योग्यमालयम् ।शय्यासनसमायुक्तं वास्तुविद्याविनिर्मितम् ॥२१॥ध्वजसिंहौ वृषगजौ चत्वारः शोभनाः स्मृताः ।धूमश्वगर्दभध्वाङ्क्षाश्चत्वारश्चार्थनाशकाः ॥२२॥गृहस्यायामविस्तारं कृत्वा त्रिगुणमादितः ।अष्टभिः शोधयेदापैः शेषश्च गृहमादिशेत् ॥२३॥इति शान्तिगृहं कृत्वा रुद्राग्निं यः प्रवर्तयेत् ।अप्येकं दिवसं भक्त्या तस्य पुण्यफलं शृणु ॥२४॥कलत्रपुत्रमित्राद्यैः स भृत्यैः परिवारितः ।कुलैकविंशदुत्तार्य देवलोकमवाप्नुयात् ॥२५॥नीलोत्पलदलश्यामाः पीनवृत्तपयोधराः ।हेमवर्णाः स्त्रियश्चान्याः सुन्दर्यः प्रियदर्शनाः ॥२६॥ताभिः सार्धं महाभोगैर्विमानैः सार्वकामिकैः ।इच्छया क्रीडते तावद्यावदाभूतसम्प्लवम् ॥२७॥ततः कल्पाग्निना सार्धं दह्यमानं सुविह्वलम् ।दृष्ट्वा विरज्यते भूयो भवभोगमहार्णवात् ॥२८॥ततः सम्पृच्छते रुद्रांस्तत्रस्थान्ज्ञानपारगान् ।तेभ्यः प्राप्य शिवज्ञानं शान्तं निर्वाणमाप्नुयात् ॥२९॥अविरक्तश्च भोगेभ्यः सप्त जन्मानि जायते ।पृथिव्यधिपतिः श्रीमानिच्छया वा द्विजोत्तमः ॥३०॥सप्तमाज्जन्मनश्चान्ते शिवज्ञानमनाप्नुयात् ।ज्ञानाद्विरक्तः संसाराच्छुद्धः खान्यधितिष्ठति ॥३१॥इत्येतदखिलं कार्यं फलमुक्तं समासतः ।उत्सवे च पुनर्ब्रूमः प्रत्येकं द्रव्यजं फलम् ॥३२॥सद्गन्धगुटिकामेकां लाक्षां प्राण्यङ्गवर्जिताम् ।कर्पासास्थिप्रमाणं च हुत्वाग्नौ शृणुयात्फलम् ॥३३॥यावत्सत्गन्धगुटिका शिवाग्नौ संख्यया हुता ।तावत्कोट्यस्तु वर्षाणि भोगान्भुङ्क्ते शिवे पुरे ॥३४॥एकाङ्गुलप्रमाणेन हुत्वाग्नौ चन्दनाहुतिम् ।वर्षकोटिद्वयं भोगैर्दिव्यैः शिवपुरे वसेत् ॥३५॥यावत्केसरसंख्यानं कुसुमस्यानले हुतम् ।तावद्युगसहस्राणि शिवलोके महीयते ॥३६॥नागकेसरपुष्पं तु कुङ्कुमार्धेन कीर्तितम् ।यत्फलं चन्दनस्योक्तमुशीरस्य तदर्धकम् ॥३७॥यत्पुष्पधूपभष्यान्न- दधिक्षीरघृतादिभिः ।पुण्यलिङ्गार्चने प्रोक्तं तद्धोमस्य दशाधिकम् ॥३८॥हुत्वाग्नौ समिधस्तिस्रौ शिवोमास्कन्दनामभिः ।पश्चाद्दद्यात्तिलान्नानि होमयीत यथाक्रमम् ॥३९॥पलाशाअङ्कुरजारिष्ट- पालाल्यः समिधः शुभाः ।पृषदाज्यप्लुता हुत्वा शृणु यत्फलमाप्नुयात् ॥४०॥पलाशाङ्कुरसंख्यानां यावदग्नौ हुतं भवेत् ।तावत्कल्पान्महाभोगैः शिवलोके महीयते ॥४१॥तल्लक्ष्यमध्यसंभूतं हुत्वाग्नौ समिधः शुभाः ।कल्पार्धसंमितं कालं भोगान्भुङ्क्ते शिवे पुरे ॥४२॥शमीसमित्फलं देयमब्दानपि च लक्षकम् ।शम्यर्धफलवच्छेषाः समिधः क्षीरवृक्षजाः ॥४३॥तिलसंख्यांस्तिलान्हुत्वा ह्याज्याक्ता यावती भवेत् ।तावत्स वर्षलक्षांस्तु भोगान्भुङ्क्ते शिवे पुरे ॥४४॥यावत्सुरौषधीरज्ञस् तिलतुल्यफलं स्मृतम् ।इतरेभ्यस्तिलेभ्यश्च कृष्णानां द्विगुणं फलम् ॥४५॥लाजाक्षताः सगोधूमाः वर्षलक्षफलप्रदाः ।दशसाहस्रिका ज्ञेयाः शेषाः स्युर्बीजजातयः ॥४६॥पलाशेन्धनजे वह्नौ होमस्य द्विगुणं फलम् ।क्षीरवृक्षसमृद्धे ऽग्नौ फलं सार्धार्धिकं भवेत् ॥४७॥असमिद्धे सधूमे च होमकर्म निरर्थकम् ।अन्धश्च जायमानः स्याद्दारिद्र्योपहतस्तथा ॥४८॥न च कण्टकिभिर्वृक्षैरग्निं प्रज्वाल्य होमयेत् ।शुष्कैर्नवैः प्रशस्तैश्च काष्ठैरग्निं समिन्धयेत् ॥४९॥एवमाज्याहुतिं हुत्वा शिवलोकमवाप्नुयात् ।तत्र कल्पशतं भोगान्भुङ्क्ते दिव्यान्यथेप्सितान् ॥५०॥स्रुचैकाहितमात्रेण व्रतस्यापूरितेन च ।याहुतिर्दीयते वह्नौ सा पूर्णाहुतिरुच्यते ॥५१॥एकां पूर्णाहुतिं हुत्वा शिवेन शिवभावितः ।सर्वकाममवाप्नोति शिवलोके व्यवस्थितः ॥५२॥अशेषकुलजैर्सार्धं स भृत्यैः परिवारितः ।आभूतसम्प्लवं यावद्भोगान्भुङ्क्ते यथेप्सितान् ॥५३॥ततश्च प्रलये प्राप्ते सम्प्राप्य ज्ञानमुत्तमम् ।प्रसादादीश्वरस्यैव मुच्यते भवसागरात् ॥५४॥शिवपूर्णाहुतिं वह्नौ पतन्तीं यः प्रपश्यति ।सो ऽपि पापरि नरः सर्वैर्मुक्तः शिवपुरं व्रजेत् ॥५५॥शिवाग्निधूमसंस्पृष्टा जीवाः सर्वे चराचराः ।ते ऽपि पापविनिर्मुक्ताः स्वर्गं यान्ति न संशयः ॥५६॥शिवयज्ञमहावेद्या जायते ये न सन्ति वा ।ते ऽपि यान्ति शिवस्थानं जीवाः स्थावरजङ्गमाः ॥५७॥पूर्णाहुतिं घृताभावे क्षीरतैलेन कल्पयेत् ।होमयेदतसीतैलं तिलतैलं विना नरः ॥५८॥सर्षपेङ्गुडिकाशाम्र- करञ्जमधुकाक्षजम् ।प्रियङ्गुबिल्वपैप्पल्य- नालिकेरसमुद्भवम्(?) ॥५९॥इत्येवमादिकं तैलमाज्याभावे प्रकल्पयेत् ।दूर्वया बिल्वपत्त्रैर्वा समिधः सम्प्रकीर्तिताः ॥६०॥अन्नार्थं होमयेत्क्षीरं दधि मूलफलानि वा ।तिलार्थं तण्डुलैः कुर्याद्दर्भार्थं हरितैस्तृणैः ॥६१॥परिधीनामभावेन शरैर्वंशैश्च कल्पयेत् ।इन्धनानामभावेन दीपयेत्तृणगोमयैः ॥६२॥गोमयानामभावेन महत्यम्भसि होमयेत् ।अपामसंभवे होमं भूमिभागे मनोहरे ॥६३॥विप्रस्य दक्षिणे पाणावश्वत्थे तदभावतः ।छागस्य दक्षिणे कर्णे कुशमूले च होमयेत् ॥६४॥स्वात्माग्नौ होमयेत्प्राज्ञः सर्वाग्नीनामसंभवे ।अभावे न त्यजेत्कर्म कर्मयोगविधौ स्थितः ॥६५॥आपत्काले ऽपि यः कुर्याच्छिवाग्नेर्मनसार्चनम् ।स मोहकञ्चुकं त्यक्त्वा परां शान्तिमवाप्नुयात् ॥६६॥प्राणाग्निहोत्रं कुर्वन्ति परमं शिवयोगिनः ।बाह्यकर्मविनिर्मुक्ता ज्ञानध्यानसमाकुलाः ॥६७॥॥ इति शिवोपनिषदि शान्तिगृहाग्निकार्याध्यायश्चतुर्थः ॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP