संस्कृत सूची|संस्कृत साहित्य|उपनिषद|श्रीशिवोपनिषत्| द्वितीयः श्रीशिवोपनिषत् प्रथमः द्वितीयः तृतीयः चतुर्थः पञ्चमः षष्ठः सप्तमः विश्रामोपनिषत् श्रीशिवोपनिषत् - द्वितीयः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद द्वितीयः Translation - भाषांतर अथ पूर्वस्थितो लिङ्गे गर्भः स त्रिगुणो भवेत् ।गर्भाद्वापि विभागेन स्थाप्य लिङ्गं शिवालये ॥१॥यावल्लिङ्गस्य दैर्घ्यं स्यात्तावद्वेद्याश्च विस्तरः ।लिङ्गतृतीयभागेन भवेद्वेद्याः समुच्छ्रयः ॥२॥भागमेकं न्यसेद्भूमौ द्वितीयं वेदिमध्यतः ।तृतीयभागे पूजा स्वादिति लिङ्गं त्रिधा स्थितम् ॥३॥भूमिस्थं चतुरश्रं स्वादष्टाश्रं वेदिमध्यतः ।पूजार्थं वर्तुलं कार्यं दैर्घ्यात्त्रिगुणविस्तरम् ॥४॥अधोभागे स्थितः स्कन्दः स्थिता देवी च मध्यतः ।ऊर्ध्वं रुद्रः क्रमाद्वापि ब्रह्मविष्णुमहेश्वराः ॥५॥एत एव त्रयो लोका एत एव त्रयो गुणाः ।एत एव त्रयो वेदा एतच्चान्यत्स्थितं त्रिधा ॥६॥नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश्चापि मध्यमः ।विद्यात्कनीयस्त्रैहस्तं लिङ्गमानमिदं स्मृतम् ॥७॥गर्भस्यानतः प्रविस्तारस्तदूनश्च न शस्यते ।गर्भस्यानतः प्रविस्ताराद्तदुपर्यपि संस्थितम् ॥८॥प्रासादं कल्पयेच्छ्रीमान्विभजेत त्रिधा पुनः ।भाग एको भवेज्जङ्घा द्वौ भागौ मञ्जरी स्मृता ॥९॥मञ्जर्या अर्धभागस्थं शुकनासं प्रकल्पयेत् ।गर्भादर्धेन विस्तारमायामं च सुशोभनम् ॥१०॥गर्भाद्वापि त्रिभागेन शुकनासं प्रकल्पयेत् ।गर्भादर्धेन विस्तीर्णा गर्भाच्च द्विगुणायता ॥११॥जङ्घाभिश्च भवेत्कार्या मञ्जर्यङ्गुलराशिना ।प्रासादार्धेन विज्ञेयो मण्डपस्तस्य वामतः ॥१२॥मण्डपात्पादविस्तीर्णा जगती तावदुच्छ्रिता ।प्रासादस्य प्रमाणेन जगत्या सार्धमङ्गणम् ॥१३॥प्राकारं तत्समन्ताच्च गुपुरादालभूषितम् ।प्राकारान्तः स्थितं कार्यं वृषस्थानं समुच्छ्रितम् ॥१४॥नन्दीश्वरमहाकालौ द्वारशाखाव्यवस्थितौ ।प्राकाराद्दक्षिणे कार्यं सर्वोपकरणान्वितम् ॥१५॥पञ्चभौमं त्रिभौमं वा योगीन्द्रावसथं महत् ।प्राकारगुप्तं तत्कार्यं मैत्रस्थानसमन्वितम् ॥१६॥स्थानाद्दशसमायुक्तं भव्यवृक्षजलान्वितम् ।तन्महानसमाग्नेय्यां पूर्वतः सत्त्रमण्डपम् ॥१७॥स्थानं चण्डेशमैशान्यां पुष्पारामं तथोत्तरम् ।कोष्ठागारं च वायव्यां वारुण्यां वरुणालयम् ॥१८॥शमीन्धनकुशस्थानमायुधानां च नैरृतम् ।सर्वलोकोपकाराय नगरस्थं प्रकल्पयेत् ॥१९॥श्रीमदायतनं शम्भोर्योगिनां विजने वने ।शिवस्यायतने यावत्समेताः परमाणवः ॥२०॥मन्वन्तराणि तावन्ति कर्तुर्भोगाः शिवे पुरे ।महाप्रतिमलिङ्गानि महान्त्यायतनानि च ॥२१॥कृत्वाप्नोति महाभोगानन्ते मुक्तिं च शाश्वतीम् ।लिङ्गप्रतिष्ठां कुर्वीत यदा तल्लक्षणं कृती ॥२२॥पञ्चगव्येन संशोध्य पूजयित्वाधिवासयेत् ।पालाशोदुम्बराश्वत्थ- पृषदाज्यतिलैर्यवैः ॥२३॥अग्निकार्यं प्रकुर्वीत दद्यात्पूर्णाहुतित्रयम् ।शिवस्याष्टशतं हुत्वा लिङ्गमूलं स्पृशेद्बुधः ॥२४॥एवं मध्ये ऽवसाने तन्मूर्तिमन्त्रैश्च मूर्तिषु ।अष्टौ मूर्तीश्वराः कार्याः नवमः स्थापकः स्मृतः ॥२५॥प्रातः संस्थापयेल्लिङ्गं मन्त्रैस्तु नवभिः क्रमात् ।महास्नापनपूजां च स्थाप्य लिङ्गं प्रपूजयेत् ॥२६॥गुरोर्मूर्तिधराणां च दद्यादुत्तमदक्षिणाम् ।यतीनां च समस्तानां दद्यान्मध्यमदक्षिणाम् ॥२७॥दीनान्धकृपणेभ्यश्च सर्वासामुपकल्पयेत् ।सर्वभक्ष्यान्नपानाद्यैरनिषिद्धं च भोजनम् ॥२८॥कल्पयेदागतानां च भूतेभ्यश्च बलिं हरेत् ।रात्रौ मातृगणानां च बलिं दद्याद्विशेषतः ॥२९॥एवं यः स्थापयेल्लिङ्गं तस्य पुण्यफलं शृणु ।कुलत्रिंशकमुद्धृत्य भृत्यैश्च परिवारितः ॥३०॥कलत्रपुत्रमित्राद्यैः सहितः सर्वबान्धवैः ।विमुच्य पापकलिलं शिवलोकं व्रजेन्नरः ।तत्र भुक्त्वा महाभोगान्प्रलये मुक्तिमाप्नुयात् ॥३१॥॥ इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः ॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP