अथ वैष्णवखण्डेऽष्टममयोध्यामाहात्म्यम् ॥
१ सूतकृतं मंगलार्थं व्यासादिविद्वद्वर्यस्तवनम्, सूतशौनकसंवादप्रसंगेन नानाद्रुमलतादिशोभितायोध्यामाहात्म्यवर्णनम्, अगस्तिमुनेरयोध्यागमनम्, अयोध्याप्रभावदर्शनेनागस्त्यस्यानन्दप्राप्तिवर्णनम्, त्रिगुणत्रिस्वरूपस्थितायोध्यावर्णनेनायोध्याशब्दस्य व्युत्पत्त्यर्थकथनम्, अयोध्यायामगस्तिव्याससंवादपूर्वकं विष्णुशर्मकृत पञ्चाग्निसाधनवर्णनम्, विष्णुशर्मणा भगवत्स्तोत्रकरणम्, विष्णुशर्मणो भमवद्दर्शनम्, भगवता विष्णुशर्मणे वरप्रदानम्, तस्मिन्नेव स्थले भगवता स्वचक्रेण जलप्रवाहानयनम्, चक्रतीर्थेति नाम्ना तत्तीर्थस्य प्रसिद्धिवर्णनम्, विष्णुनामपूर्वकविष्णुहरीतिमूर्तिस्थापनम्, विष्णुहरिमाहात्म्यवर्णनम् ॥
२ ब्रह्मणोऽयोध्यायामागमनम्, यात्रादिकं विधाय यज्ञकरणम्, स्वनाम्ना ब्रह्मकुण्डस्थापनम्, व्रह्मदेवेन ब्रह्मकुण्डमाहात्म्यवर्णनम्, सरयूतीरस्थर्णमोचनतीर्थमाहात्म्यम्, लोमशेन पापमोचनतीर्थमाहात्म्यवर्णनम्, अगस्त्येन सहस्रधारामाहात्म्यवर्णनम् ॥
३ अगस्त्येन स्वर्गद्वारतीर्थमाहात्म्यकथनम्, मुक्तिद्वारतीर्थमाहात्म्यम्, चंद्रहरिव्रतोद्यापनविधिकथनम्, चन्द्रसहस्रव्रतोद्यापनमाहात्म्यकथनम् ॥
४ धर्महरिमाहात्म्यम्, तत्र धर्मराजकृतनर्तनं दृष्ट्वा भगवत आगमनम्, धर्मेण भगवत्स्तुतिकरणम्, भगवता धर्मराजाय वरप्रदानम्, रघुसंज्ञकेन राज्ञा दिग्विजयं कृत्वा सूर्याज्ञया कृतस्य सर्वस्वदक्षिणनामकस्य यज्ञस्य परिसमाप्तेरनंतरं कौत्सऋषेरागमनम्, स्वपूजनार्थमानीतं संभारं दृष्ट्वा विस्मितेन कौत्सर्षिणा धनाभावाद्दात्रंतरं प्रति गन्तुं स्वेच्छाप्रकटनम्, कौत्साय द्रव्यं दातुं कौबेरीं संपत्तिमादातुं कुबेरजिगीषया रघोः प्रस्थानम्, रघुभिया कुबेरेण द्रव्यवृष्टिकरणम्, कौत्साय रघुणा सर्वद्रव्यदानवर्णनम्, कौत्सेन रघुराजायाशीर्वाददानवर्णनम्, कौत्सस्य स्वाश्रमगमनम्, स्वर्णखनिमाहात्म्यवर्णनम् ॥
५ कौत्सवृत्तान्तवर्णनम्, तत्र विश्वामित्रस्य तपश्चर्यां श्रुत्वा तद्दर्शनार्थं दुर्वासस आगमनम्, दुर्वासःकृतां भोजनयाञ्चां श्रुत्वा बिश्वामित्रदत्तस्य पायसादिकस्य वर्णनम्, कौत्साय चतुर्दशकोटिसुवर्णात्मकगुरुदक्षिणादानायाज्ञाकरणम्, तिलोदकीतीर्थमाहात्म्यवर्णनम्. ॥
६ सीताकुण्डमाहात्म्यवर्णनम्, देवासुरयुद्धेऽसुरैर्देवपराजये कृते देवैर्भगवत्स्तुतिकरणम्, देवस्तुतिं श्रुत्वा भगवदाविर्भावः, भगवद्वचनाद्गुप्तरीत्या देवाना-
मयोध्यागमनम्, गुप्तहरीतिनाम्ना तत्तीर्थप्रसिद्धिवर्णनम्, गुप्तहरिमाहात्म्यम्, चक्रहरिपीठे दानमाहात्म्यम्, सरयूघर्घरानद्योः संगमे स्नानमाहत्म्यम्, गोप्रतारतीर्थमाहात्म्यम्, रामचन्द्रस्य स्वधामगमनसमये वानरेभ्यो वरप्रदानवर्णनम्, रामचन्द्रस्य मार्गे सरयूदर्शनम, सर्वदेवानां तत्रागमनम् देवै रामचन्द्रस्य स्तोत्रकरणम्, रामचन्द्रेण सह देवानां स्वर्गगमनम्, स्वर्गद्वारगोप्रतारतीर्थस्नानदानादिमाहात्म्यम् ॥
७ क्षारोदकतीर्थमाहात्म्यम्, तत्र पुत्रप्राप्त्यर्थं दशरथकृतस्य पुत्रकामेष्टियज्ञस्य वर्णनम्, धनयक्षतीर्थमाहात्म्यम्, विश्वामित्रवचनाद्यक्षस्य धनयक्षतीर्थस्नानेन दुर्गंधितस्यांगस्य सुगंधित्वप्राप्तिवर्णनम्, विश्वामित्रेण यक्षं प्रति कथितस्य निधिलक्ष्मीपूजनविधानस्य वर्णनम्, वसिष्ठकुंडमाहात्म्यम्, चतुःषष्टियोगिनीपूजनमाहात्म्यम्, योगिनीकुण्डस्नानमाहात्म्यम्, उर्वशीकुण्डमाहात्म्यम्, घोषराज्ञाऽऽदित्यस्तुतिकरणम्, घोषार्ककुण्डमाहात्म्यम्, रुक्मिणीकुण्डबृहस्पतिकुण्डसागरकुण्डमाहात्म्यम् ॥
८ रतिकुण्डमाहात्म्यम्, कुसुमायुधकुण्डमाहात्म्यम्, रतिकंदर्पपूजाविधिकथनम्, मंत्रेश्वरक्षेत्रमाहात्म्यम्, महारत्नतीर्थमाहात्म्यम्, दुर्भराख्यतीर्थमाहात्म्यम्, महाभरतीर्थमाहात्म्यम्, महाविद्यातीर्थमाहात्म्यम्, सिद्धपीठतीर्थमाहात्म्यम्, दुग्धेश्वरमाहात्म्यम्, हनुमत्कुण्डमाहात्म्यम् ,वसिष्ठरामसंवादप्रसंगेनायोध्यामाहात्म्यवर्णनम्, क्षीरेश्वरमाहात्म्यम्, सीताकुण्डमाहात्म्यम्, सुग्रीवतीर्थमाहात्म्यम्, विभीषणसरोमाहात्म्यम्, अयोध्यायात्राविधिक्रमवर्णनम् ॥
९ गयाकूपमाहात्म्यम्, पिशाचमोचनतीर्थमाहात्म्यम्, माण्डव्यतीर्थमाहात्म्यम, भरतकुण्डमाहात्म्यम्, मानसतीर्थमाहात्म्यम्, गौतम्याद्याश्रमवर्णनम्, सीताकुण्ड दुग्धेश्वरमाहात्म्यम्, भैरवकुण्डमाहात्म्यम, जटाकुण्डमाहात्म्यम् ॥
१० मत्तगजेन्द्रस्थानमाहात्म्यवर्णनम्, अयोध्यायात्राविधिक्रमवर्णनम्, सरयूवर्णनम्, विघ्नेश्वरस्थानमाहात्म्यम्, रामजन्मस्थानमाहात्म्यम्, अयोध्यामाहात्म्यश्रवणफलम ॥२
इति वैष्णवखण्डेऽष्टममयोध्यामाहात्म्यम् ॥