संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|अयोध्यामाहात्म्यम्| अध्याय १० अयोध्यामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० विषयानुक्रमणिका अयोध्यामाहात्म्यम् - अध्याय १० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १० Translation - भाषांतर ॥ अगस्त्य उवाच ॥निराहारो नरो भूत्वा क्षीराहारोऽपि वा पुनः ॥अजितं पूजयेद्विप्र तस्य सिद्धिः करे स्थिता ॥१॥महोत्सवस्तु कर्तव्यो गीतवादित्रसंयुतः ॥एवं यः कुरुते धीमान्सर्वान्कामानवाप्नुयात् ॥२॥एतस्मादुत्तरे विद्वन्वीरस्य शुभसूचकम् ॥स्थानं मत्तगजेन्द्रस्य वर्तते नियतव्रत ॥३॥तदग्रे सरसि स्नात्वा वसेत्तत्र सुनिश्चितम् ॥पूर्णा सिद्धिमवाप्नोति यामवाप्य न शोचति ॥४॥अयोध्यारक्षको वीरः सर्वकामार्थसिद्धिदः ॥नवरात्रिषु पंचम्यां यात्रा सांवत्सरी भवेत् ॥५॥गंधपुष्पादिधूपादि नैवेद्यादिविधानतः ॥पूजनीयः प्रयत्नेन सर्वकामार्थसिद्धिदः ॥यंयं काममिहेच्छेत तंतं काममवाप्नुयात् ॥६॥एतस्माद्द्क्षिणेभागे सुरसानाम राक्षसी ॥विष्णुभक्ता सदा विप्र वर्तते सिद्धिदायिका ॥७॥तां संपूज्य नरो भक्त्या सर्वान्कामानवाप्नुयात् ॥८॥लंकास्थानादिहानीता रामेणोत्कृष्टकर्मणा ॥अयोध्यायां स्थापिता सा रक्षार्थं नियतव्रतैः ॥९॥संपूज्य विधिवत्तस्या दर्शनं कार्यमादरात् ॥सर्वकामार्थसिद्ध्यर्थमुत्सवोऽपि शुभप्रदः ॥कर्त्तव्यः सुप्रयत्नेन गीतवादित्रसंयुतैः ॥१०॥नवरात्रे तृतीयायां यात्रा सांवत्सरी भवेत् ॥सर्वदा सुखसंतानसिद्धये परमार्थदा ॥नानासंगीतवादित्रनृत्योत्सवमनोहरा ॥११॥एवं कृते न संदेहः सर्वदा रक्षितो भवेत् ॥१२॥एतत्पश्चिमदिग्भागे वर्तते परमो मुने ॥पिंडारक इति ख्यातो वीरः परमपौरुषः ॥पूजनीयः प्रयत्नेन गंधपुष्पाक्षतादिभिः ॥१३॥यस्य पूजावशान्नॄणां सिद्धयः करसंश्रिताः ॥तस्य पूजाविधानेन कर्तव्यं पूजनं नरैः ॥१४॥सरयूसलिले स्नात्वा पिंडारकं च पूजयेत् ॥पापिनां मोहकर्त्तारं मतिदं कृतिनां सदा ॥१५॥तस्य यात्रा विधातव्या सपुष्या नवरात्रिषु ॥तत्पश्चिमदिशाभागे विघ्नेशं किल पूजयेत् ॥१६॥यस्य दर्शनतो नॄणां विघ्नलेशो न विद्यते ॥तस्माद्विघ्नेश्वरः पूज्यः सर्वकामफलप्रदः ॥१७॥तस्मात्स्थानत ऐशाने रामजन्म प्रवर्त्तते ॥जन्मस्थानमिदं प्रोक्तं मोक्षादिफलसाधनम् ॥१८॥विघ्नेश्वरात्पूर्वभागे वासिष्ठादुत्तरे तथा ॥लौमशात्पश्चिमे भागे जन्मस्थानं ततः स्मृतम् ॥१९॥यद्दृष्ट्वा च मनुष्यस्य गर्भवासजयो भवेत् ॥विना दानेन तपसा विना तीर्थैर्विना मखैः ॥२०॥नवमीदिवसे प्राप्ते व्रतधारी हि मानवः ॥स्नानदानप्रभावेण मुच्यते जन्मबन्धनात् ॥२१॥कपिलागोसहस्राणि यो ददाति दिनेदिने ॥तत्फलं समवाप्नोति जन्मभूमेः प्रदर्शनात् ॥२२॥आश्रमे वसतां पुंसां तापसानां च यत्फलम् ॥राजसूयसहस्राणि प्रतिवर्षाग्निहोत्रतः ॥२३॥नियमस्थं नरं दृष्ट्वा जन्मस्थाने विशेषतः ॥मातापित्रोर्गुरूणां च भक्तिमुद्वहतां सताम् ॥२४॥तत्फलं समवाप्नोति जन्मभूमेः प्रदर्शनात् ॥२५॥॥ अथ सरयूवर्णनम् ॥पितॄणामक्षया तृप्तिर्गयाश्राद्धाधिकं फलम् ॥२६॥मन्वंतरसहस्रैस्तु काशीवासेषु यत्फलम् .॥तत्फलं समवाप्नोति सरयूदर्शने कृते ॥२७॥गयाश्राद्धं च ये कृत्वा पुरुषोत्तम दर्शनम् ॥कुर्वंति तत्फलं प्रोक्तं कलौ दाशरथीं पुरीम् ॥२८॥मथुरायां कल्पमेकं वसते मानवो यदि ॥तत्फलं समवाप्नोति सरयूदर्शने कृते ॥२९॥पुष्करेषु प्रयागेषु माघे वा कार्त्तिके तथा ॥तत्फलं समवाप्नोति सरयूदर्शने कृते ॥३०॥कल्पकोटिसहस्राणि ह्यवन्तीवासतो हि यत् ॥तत्फलं समवाप्नोति सरयूदर्शने कृते ॥३१॥षष्टिवर्षसहस्राणि भागीरथ्यवगाहजम् ॥तत्फलं निमिषार्द्धेन कलौ दाशरथीं पुरीम् ॥३२॥निमिषं निमिषार्द्धं वा प्राणिनां रामचिन्तनम् ॥संसारकारणाज्ञाननाशकं जायते धुवम् ॥३३॥यत्र कुत्र स्थितो यस्तु ह्ययोध्यां मनसा स्मरेत्॥न तस्य पुनरावृत्तिः कल्पांतरशतैरपि ॥३४॥जलरूपेण ब्रह्मैव सरयूर्मोक्षदा सदा ॥नैवात्र कर्मणो भोगो रामरूपो भवेन्नरः ॥३५॥पशुपक्षिमृगाश्चैव ये चान्ये पापयोनयः ॥तेऽपि मुक्ता दिवं यांति श्रीरामवचनं यथा ॥३६॥इत्युक्त्वा विरते तस्मिन्मुनौ कलशजन्मनि ॥कृष्णद्वैपायनव्यासः पुनरूचे तपोधनः ॥३७॥दुर्लभा सर्वजन्तूनां कथा विस्तरतः क्रमात् ॥यात्राक्रमोऽपि च मया श्रुत आगच्छतां नृणाम्॥ ३८॥इदानीं श्रोतुमिच्छामि क्षेत्रस्थानं यथाविधि ॥यात्राक्रमं मुनिश्रेष्ठ सम्यक्त्वस्तपोधन ॥३९॥फलं ब्रूहि क्रमेणैव विस्तरात्पृच्छतो मम ॥यद्यस्ति मयि ते विद्वन्कृपा कारुणिकोत्तम ॥४०॥यथा श्रुत्वा क्रमेणैव यात्रां विश्वविदां वर ॥करोमि त्वत्प्रसादेन तथा कुरु यतव्रत ॥४१॥॥ अगस्त्य उवाच ॥शृणु वक्ष्यामि तत्त्वेन यात्राक्रममथादितः ॥अयोध्यां सप्ततीर्थानां यथावदनुपूर्वशः ॥४२॥मनोवाक्कायशुद्धेन निर्दोषेणांतरात्मना ॥मानसेषु सुतीर्थेषु स्नात्वा किल जितेंद्रियः ॥यः करोति विधिं सम्यक्स तीर्थफलमश्नुते ॥४३॥॥ व्यास उवाच ॥मानसान्येव तीर्थानि कथयस्व तपोधन ॥येषु स्नातवतां नॄणां विशुद्धिर्मनसो भवेत् ॥४४॥॥अगस्त्य उवाच ॥शृणु तीर्थानि गदतो मानसानि ममानघ ॥येषु सम्यङ्नरः स्नात्वा प्रयाति परमां गतिम् ॥४५॥सत्यतीर्थं क्षमातीर्थं तीर्थमिंद्रियनिग्रहः ॥सर्वभूतदयातीर्थं तीर्थानां सत्यवादिता ॥४६॥ज्ञानतीर्थं तपस्तीर्थं कथितं तीर्थसप्तकम् ॥सर्वभूतदयातीर्थे विशुद्धिर्मनसो भवेत् ॥४७॥न तोयपूतदेहस्य स्नानमित्यभिधीयते ॥स स्नातो यस्य वै पुंसः सुविशुद्धं मनो मतम् ॥भौमानामपि तीर्थानां पुण्यत्वे कारणं शृणु ॥४८॥यथा शरीरस्योद्देशाः केचिन्मध्योत्तमाः स्मृताः ॥तथा पृथिव्यामुद्देशाः केचित्पुण्यतमाः स्मृताः ॥४९॥तस्माद्भौमेषु तीर्थेषु मानसेषु च संवसेत्॥उभयेषु च यः स्नाति स याति परमां गतिम् ॥५०॥तस्मात्त्वमपि विप्रेंद्र विशुद्धेनांतरात्मना ॥यात्रां कुरु प्रयत्नेन यात्रा वै नोदिता मया ॥तं तु वक्ष्यामि विप्रेंद्र तीर्थयात्राविधिं क्रमात् ॥५१॥जायन्ते च जलेष्वेव म्रियंते च जलौकसः ॥न च गच्छंति ते स्वर्गमशुद्धमनसो मलाः ॥५२॥विषयेष्वनिशं रागो मनसो मल उच्यते ॥तेष्वेव हि न संगम्य नैर्मल्यं समुदाहृतम् ॥५३॥चित्तमन्तर्गतं दुष्टं तीर्थस्नानं न शुध्यति ॥शतशोऽपि जलैर्धौते सुराभाण्डमपावनम् ॥५४॥दानमिज्या तपः शौचं तीर्थसेवा श्रुतिस्तथा ॥सर्वाण्येतानि तीर्थानि यदि भावेन निर्मलः ॥५५॥निगृहीतेंद्रियग्रामो यत्रैव वसते नरः ॥तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्करं तथा ॥५६॥एतत्ते कथितं विप्र मानसं तीर्थलक्षणम् ॥स्नाते यस्मिन्क्रियाः सर्वाः सफलाः स्युः क्रियावताम् ॥५७॥प्रातरुत्थाय मतिमान्संगमे स्नानमाचरेत् ॥विभुं विष्णुहरिं दृष्ट्वा स्नायाद्वै ब्रह्मकुण्डके ॥५८॥चक्रतीर्थे नरः स्नात्वा दृष्ट्वा चक्रहरिं विभुम् ॥ततो धर्महरिं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥५९॥एकादश्यामेकादश्यामियं यात्रा शुभावहा ॥प्रातरुत्थाय मतिमान्स्वर्गद्वारजलप्लुतः ॥६०॥विधाय नित्यजं कर्म अयोध्यां च विलोकयेत् ॥सरयूं तु ततो दृष्ट्वा पश्येन्मत्तगजं ततः ॥६१॥बंदीं च शीतलां चैव वटुकं च विलोकयेत् ॥तदग्रसरसि स्नात्वा महाविद्यां विलोकयेत् ॥६२॥पिण्डारकं ततो दृष्ट्वा ततो भैरवदर्शनम्॥अष्टम्यां च चतुर्दश्यामेषा यात्रा फलप्रदा ॥६३॥अंगारकचतुर्थ्यां तु पूर्वोक्ता देवता अपि ॥विघ्नेशं च ततः पश्येत्सर्वकामार्थसिद्धये॥ ६४॥प्रातरुत्थाय मतिमान्ब्रह्मकुण्डजले प्लुतः ॥विष्णुं विष्णुहरिं दृष्ट्वा मनोवाक्कायशुद्धिमान्॥६५॥मंत्रेश्वरं ततो दृष्ट्वा महाविद्यां विलोकयेत् ॥अयोध्यां च ततो दृष्ट्वा सर्वकामार्थसिद्धये॥६६॥स्वर्गद्वारे नरः स्नात्वा सचैलो विजितेंद्रियः ॥नानाविधानि पापानि बहुजन्मकृतानि च ॥सचैलस्नानतो यांति तस्मात्सचैलमाचरेत् ॥६७॥एषा वै गदिता यात्रा सर्वपापहरा शुभा ॥६८॥य एवं कुरुते यात्रां नित्यं शुभफलप्रदाम् ॥न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ॥६९॥तस्मात्त्वमपि विप्रेंद्रः अयोध्यां व्रज मा चिरम् ॥तत्र गत्वा क्रमेणैव यात्रां कुरु यतेंद्रियः ॥७०॥अयोध्या परमं स्थानमयोध्या परमं महत् ॥अयोध्यायाः समा काचित्पुरी नैव प्रदृश्यते ॥७१॥अयोध्या परमं स्थानं विष्णुचक्रे प्रतिष्ठितम् ॥७२॥इत्येतत्कथितं विप्र मया पृष्टं हि यत्त्वया ॥समाश्रय मुने तां त्वमनुजानीहि मामतः ॥७३॥॥ सूत उवाच ॥इत्येतदुक्त्वा विरते मुनौ कलशजन्मनि ॥उवाच मधुरं वाक्यं व्यासः स तपसां निधिः ॥७४॥॥व्यास उवाच ॥धन्योऽस्म्यनुगृहीतोऽस्मि कृतकृत्योऽस्म्यहं मुने ॥सत्यं शौचं श्रुतं विप्र सुशीलं च क्षमार्जवम् ॥सर्वं च निष्फलं तस्य अयोध्यां नागतो यदि ॥७५॥यस्मिन्मयि प्रसन्नेन त्वयोक्तो धर्मनिर्णयः ॥इदानीमपि गच्छामि ह्ययोध्यां निर्मलां पुरीम्॥त्वमपि व्रज विप्रेंद्र स्वमाश्रमपदं निजम् ॥७६॥॥ सूत उवाच ॥इत्यैवमुक्त्वा क्रमशो यात्राविधिमनुत्तमम्॥जगाम तपसां राशिरगस्त्यः कुंभसंभवः ॥७७॥स्वमाश्रमपदं धीरो विस्मयोत्फुल्ललोचनः ॥व्यासोऽपि महसां राशिर्जगाम विजितेन्द्रियः ॥७८॥अयोध्यामागतो विप्रः सर्वकामार्थसिद्धये ॥आगत्यैतद्विधानेन कृत्वा यात्रां यथाक्रमम् ॥७९॥दृष्ट्वा महाश्चर्यकरं कारणं तीर्थमुत्तमम् ॥आनंदतुंदिलस्तत्र सम्यगाचम्य बुद्धिमान्॥८०॥ततो जगाम विप्रेंद्रः स्वमाश्रमपदं मुनिः ॥व्यासेन कथितं मह्यं माहात्म्यं क्रमशस्तदा ॥८१॥मया श्रुत्वा च माहात्म्यं यात्रां कृत्वा विधानतः ॥कुरुक्षेत्रे समागत्य भवदग्रे निरूपितम् ॥८२॥इदं माहात्म्यमतुलं यः पठेत्प्रयतो नरः ॥श्रद्धया यश्च शृणुयात्स याति परमां गतिम् ॥८३॥तस्मादेतत्प्रयत्नेन श्रोतव्यं च जनैः सदा ॥द्विजपूजा विष्णुपूजा विधातव्या प्रयत्नतः ॥८४॥दातव्यं च सुवर्णादि यथाशक्त्या द्विजन्मने ॥पुत्रार्थी लभते पुत्रान्धर्म्मार्थी धर्ममाप्नुयात् ॥८५॥अतिविपुलविधानैर्वर्णितं धर्म्यमाद्यं कलयति परभक्त्या क्षेत्रमाहात्म्यमेतत् ॥य इह मनुजवर्यः श्रीसनाथः स सम्यग्व्रजति हरिनिवासं सर्वभोगांश्च भुक्त्वा ॥८६॥यः पाठकस्यापि कदाचिदेव ददाति वित्तं च यथात्मशक्त्या ॥पात्राणि वस्त्राणि मनोहराणि रौप्यं सुवर्णं च गवीः स मुच्येत् ॥८७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्येऽगस्त्यव्याससंवादेऽयोध्यायात्राविधिक्रमवर्णनंनाम दशमोऽध्यायः ॥१०॥छ ॥इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्यं सम्पूर्णम् ॥( २-८) N/A References : N/A Last Updated : November 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP