संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|अयोध्यामाहात्म्यम्| अध्याय ४ अयोध्यामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० विषयानुक्रमणिका अयोध्यामाहात्म्यम् - अध्याय ४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ४ Translation - भाषांतर ॥ अगस्त्य उवाच ॥तस्माच्चंद्रहरिस्थानादाग्नेय्यां दिशि संस्थितः ॥देवो धर्महरिर्न्नाम कलिकल्मषनाशकः ॥१॥वेदवेदाङ्गतत्त्वज्ञः स्वकर्मपरिनिष्ठितः ॥पुरा समागतो धर्मस्तीर्थयात्राचिकीर्षया ॥२॥आगत्य च चकारोच्चैर्यात्रां तत्रादरेण सः ॥दृष्ट्वा माहात्म्यमतुलमयोध्यायाः सविस्मयः ॥३॥विधाय स्वभुजावूर्ध्वौ विप्रोऽवोचन्मुदान्वितः ॥अहो रम्यमिदं तीर्थमहो माहात्म्यमुत्तमम् ॥४॥अयोध्यासदृशी कापि दृश्यते नापरा पुरी ॥या न स्पृशति वसुधां विष्णुचक्रस्थिताऽनिशम् ॥५॥यस्यां स्थितो हरिः साक्षात्सेयं केनोपमीयते ॥अहो तीर्थानि सर्वाणि विष्णुलोकप्रदानि वै ॥६॥अहो विष्णुरहो तीर्थमयोध्याऽहो महापुरी ॥अहो माहात्म्यमतुलं किं न श्लाघ्यमिहास्थितम् ॥७॥इत्युक्त्वा तत्र बहुशो ननर्त प्रमदाकुलः ॥धर्मो माहात्म्यमालोक्य अयोध्याया विशेषतः ॥८॥तं तथा नर्तमानं वै धर्मं दृष्ट्वा कृपान्वितः ॥आविर्बभूव भगवान्पीतवासा हरिः स्वयम् ॥तं प्रणम्य च धर्मोऽथ तुष्टाव हरिमादरात् ॥९॥॥ धर्म उवाच ॥नमः क्षीराब्धिवासाय नमः पर्यंकशायिने ॥नमः शंकरसंस्पृष्टदिव्यपादाय विष्णवे ॥१०॥भक्त्यार्च्चितसुपादाय नमोऽजादिप्रियाय ते ॥शुभांगाय सुनेत्राय माधवाय नमो नमः ॥११॥नमोऽरविन्दपादाय पद्मनाभाय वै नमः ॥नमः क्षीराब्धिकल्लोलस्पृष्टगात्राय शार्ङ्गिणे ॥१२॥ॐ नमो योगनिद्राय योगर्क्षैर्भावितात्मने ॥तार्क्ष्यासनाय देवाय गोविन्दाय नमोनमः ॥१३॥सुकेशाय सुनासाय सुललाटाय चक्रिणे ॥सुवस्त्राय सुवर्णाय श्रीधराय नमोनमः ॥१४॥सुबाहवे नमस्तुभ्यं चारुजंघाय ते नमः ॥सुवासाय सुदिव्याय सुविद्याय गदाभृते ॥१५॥केशवाय च शांताय वामनाय नमोनमः ॥धर्मप्रियाय देवाय नमस्ते पीतवाससे ॥१६॥॥ अगस्त्य उवाच ॥इति स्तुतो जगन्नाथो धर्मेण श्रीपतिर्मुदा ॥उवाच स हृषीकेशः प्रीतो धर्ममुदारधीः ॥१७॥॥ श्रीभगवानुवाच ॥तुष्टोऽहं भवतो धर्म स्तोत्रेणानेन सुव्रत ॥वरं वरय धर्मज्ञ यस्ते स्यान्मनसः प्रियः ॥१८॥स्तोत्रेणानेन यः स्तौति मानवो मामतन्द्रितः ॥सर्वान्कामानवाप्नोति पूजितः श्रीयुतःसदा ॥१९॥॥ धर्म उवाच ॥यदि तुष्टोसि भगवन्देवदेव जगत्पते ॥त्वामहं स्थापयाम्यत्र निजनाम्ना जगद्गुरो ॥२०॥॥ अगस्त्य उवाच ॥एवमस्त्विति संप्रोच्याभवद्धर्महरिर्विभुः ॥स्मरणादेव मुच्येत नरो धर्महरेर्विभोः ॥२१॥सरयूसलिले स्नात्वा सुचिंताकुलमानसः ॥देवं धर्महरिं पश्येत्सर्वपापैः प्रमुच्यते ॥२२॥अत्र दानं तथा होमं जपो ब्राह्मणभोजनम् ॥सर्वमक्षयतां याति विष्णुलोके निवासकृत् ॥२३॥अज्ञानाज्ज्ञानतो वापि यत्किंचिद्दुष्कृतं भवेत् ॥प्रायश्चित्तं विधातव्यं तन्नाशाय प्रयत्नतः ॥२४॥प्रायश्चित्तेन विधिना पापं तस्य प्रणश्यति॥तस्मादत्र प्रकर्त्तव्यं प्रायश्चित्तं विधानतः ॥२५॥अज्ञानाज्ज्ञानतो वापि राजादेर्निग्रहात्तथा ॥नित्यकर्मनिवृत्तिः स्याद्यस्य पुंसोऽवशात्मनः ॥तेनाप्यत्र विधातव्यं प्रायश्चित्तं प्रयत्नतः ॥२६॥अत्र साक्षात्स्वयं देवो विष्णुर्वसति सादरः ॥तस्माद्वर्णयितुं शक्यो महिमा न हि मानवैः ॥२७॥आषाढे शुक्ल पक्षस्य एकादश्यां द्विजोत्तम ॥तस्य सांवत्सरी यात्रा कर्तव्या तु विधानतः ॥२८॥स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा धर्महरिं विभुम् ॥सर्वपापविशुद्धात्मा विष्णुलोके वसेत्सदा ॥२९॥तस्माद्दक्षिणदिग्भागे स्वर्णस्य खनिरुत्तमा ॥यत्र चक्रे स्वर्णवृष्टिं कुबेरो रघुजाद्भयात् ॥३०॥॥ व्यास उवाच ॥भगवन्ब्रूहि तत्त्वज्ञ स्वर्णवृष्टिरभूत्कथम् ॥कुबेरस्य कथं भीतिरुत्पन्ना रघुभूपतेः ॥३१॥एतत्सर्वं समाचक्ष्व विस्तरान्मम सुव्रत ॥श्रुत्वा कथारहस्यानि न तृप्यति मनो मम ॥३२॥॥ अगस्त्य उवाच ॥शृणु विप्र प्रवक्ष्यामि स्वर्णस्योत्पत्तिमुत्तमाम् ॥यस्य श्रवणतो नृणां जायते विस्मयो महान् ॥३३॥आसीत्पुरा रघुपतिरिक्ष्वाकुकुलवर्द्धनः ॥रघुर्निजभुजोदारवीर्यशासितभूतलः ॥३४॥प्रतापतापितारातिवर्गव्याख्यातसद्यशाः ॥प्रजाः पालयता सम्यक्तेननीतिमता सता ॥३५॥यशःपूरेण समलिप्ता दिशो दश सितत्विषा ॥स चक्रे प्रौढविभवसाधनां विजयक्रमात् ॥३६॥नानादेशान्समाक्रम्य चतुरंगबलान्वितः ॥भूतानि वशमानीय वसु जग्राह दण्डतः॥३७॥उत्कृष्टान्नृपतीन्वीरो दंडयित्वा बलाधिकान् ॥रत्नानि विविधान्याशु जग्राहातिबलस्तदा ॥३८॥स विजित्य दिशः सर्वा गृहीत्वा रत्नसंचयम्॥अयोध्यामागतो राजा राजधानीं च तां शुभाम्॥ ३९॥तत्रागत्य च काकुत्स्थो यज्ञायोत्सुकमानसः ॥चकार निर्मलां बुद्धिं निजवंशोचितक्रियाम॥४०॥वसिष्ठं मुनिमाज्ञाय वामदेवं च कश्यपम् ॥४१॥अन्यानपि मुनिश्रेष्ठान्नानातीर्थसमाश्रितान् ॥समानयद्विनीतेन द्विजवर्येण भूपतिः ॥४२॥दृष्ट्वा स्थितान्स तान्सर्वान्प्रदीप्तानिव पावकान् ॥तानागतान्विदित्वाथ रघुः परपुरंजयः ॥निश्चक्राम यथान्यायं स्वयमेव महायशाः ॥४३॥ततो विनीतवत्सर्वान्काकुत्स्थो द्विजसत्तमान् ॥उवाच धर्मयुक्तं च वचनं यज्ञसिद्धये ॥४४॥॥ रविरुवाच ॥मुनयः सर्व एवैते यूयं शृणुत मद्वचः ॥यज्ञं विधातुमिच्छामि तत्राज्ञां दातुमर्हथ ॥४५॥सांप्रतं मामको यज्ञो युक्तः स्यान्मुनिसत्तमाः ॥एतद्विचार्य्य तत्त्वेन ब्रूत यूयं मुनीश्वराः ॥४६॥॥ मुनय ऊचुः ॥राजन्विश्वजिदाख्यातो यज्ञानां यज्ञ उत्तमः ॥सांप्रतं कुरु तं यत्नान्मा विलंबं वृथा कृथाः ॥४७॥॥ अगस्त्य उवाच ॥नृपश्चक्रे ततो यज्ञं विश्वदिग्जयसंज्ञितम् ॥नानासंभारमधुरं कृतसर्वस्वदक्षिणम् ॥४८॥नानाविधेन दानेन मुनिसंतोषहर्षकृत् ॥सर्वस्वमेव प्रददौ द्विजेभ्यो बहुमानतः ॥४९॥तेषु विश्वेषु यातेषु पूजितेषु गृहान्स्वकान् ॥बन्धुष्वपि च तुष्टेषु मुनिषु प्रणतेषु च ॥५०॥तेन यज्ञेन विधिवद्विहितेन नरेश्वरः ॥शुशुभे शोभनाचारः स्वर्गे देवेंद्रवत्क्षणात् ॥५१॥तत्रांतरे समभ्यायान्मुनिर्यमवतां वरः ॥विश्वामित्रमुनेरंतेवासी कौत्स इति स्मृतः ॥५२॥दक्षिणार्थं गुरोर्द्धीमान्पावितुं तं नरेश्वरम् ॥चतुर्दशसुवर्णानां कोटीराहर सत्वरम् ॥५३॥मद्दक्षिणेति गुरुणा निर्बन्धाद्याचितो रुषा ॥आगतः स मुनिः कौत्सस्ततो याचितुमादरात् ॥रघुं भूपालतिलकं दत्तसर्वस्वदक्षिणम् ॥५४॥तमागतमभिप्रेत्य रघुरादरतस्तदा ॥उत्थाय पूजयामास विधिवत्स परंतपः ॥सपर्य्यासीत्तस्य सर्वा मृत्पात्रविहितक्रिया ॥५५॥पूजासंभारमालोक्य तादृशं तं मुनीश्वरः ॥विस्मितोऽभून्निरानन्दो दक्षिणाऽऽशां परित्यजन् ॥उवाच मधुरं वाक्यं वाक्यज्ञानविशारदः ॥५६॥॥ कौत्स उवाच ॥राजन्नभ्युदयस्तेऽस्तु गच्छाम्यन्यत्र सांप्रतम् ॥५७॥गुर्वर्थाहरणायैव दत्तसर्वस्वदक्षिणम् ॥त्वां न याचे धनाभावादतोऽन्यत्र व्रजाम्यहम् ॥५८॥॥ अगस्त्य उवाच ॥इत्युक्तस्तेन मुनिना रघुः परपुरंजयः ॥क्षणं ध्यात्वाऽब्रवीदेनं विनयाद्विहितांजलिः ॥५९॥॥ रघुरुवाच ॥भगवंस्तिष्ठ मे हर्म्ये दिनमेकं मुनिव्रत ॥यावद्यतिष्ये भगवन्भवदर्थार्थमुच्चकैः ॥६०॥॥ अगस्त्य उवाच ॥इत्युक्त्वा परमोदारवचो मुनिमुदारधीः ॥प्रतस्थे च रघुस्तत्र कुबेरविजिगीषया ॥६१॥तमायांतं कुबेरोऽथ विज्ञाप्य वचनोदितैः ॥प्रसन्नमनसं चक्रे वृष्टिं स्वर्णस्य चाक्षयाम् ॥६२॥स्वर्णवृष्टिरभूद्यत्र सा स्वर्णखनिरुत्तमा ॥स मुनिं दर्शयामास खनिं तेन निवेदिताम्॥ ६३॥तस्मै समर्पयामास तां रघुः खनिमुत्तमाम् ॥मुनीन्द्रोऽपि गृहीत्वाशु ततो गुर्वर्थमादरात् ॥६४॥राज्ञे निवेदयामास सर्वमन्यद्गुणाधिकः ॥वरानथ ददौ तुष्टः कौत्सो मतिमतां वरः ॥६५॥॥ कौत्स उवाच ॥राजँल्लभस्व सत्पुत्रं निजवंशगुणान्वितम् ॥इयं स्वर्णखनिस्तूर्णं मनोभीष्टफलप्रदा ॥६६॥भूयादत्र परं तीर्थं सर्वपापहरं सदा ॥अत्र स्नानेन दानेन नृणां लक्ष्मीः प्रजायते ॥६७॥वैशाखे शुक्लद्वादश्यां यात्रा सांवत्सरी स्मृता ॥नानाभीष्टफलप्राप्तिर्भूयान्मद्वचसा नृणाम् ॥६८॥॥ अगस्त्य उवाच ॥इति दत्त्वा वरान्राज्ञे कौत्सः संतुष्टमानसः ॥प्रतस्थे निजकार्यार्थे गुरोराश्रममुत्सुकः ॥६९॥राजा स कृतकृत्योऽथ शेषं संगृह्य तद्धनम्॥द्विजेभ्यो विधिवद्दत्त्वा पालयामास वै प्रजाः ॥७०॥एवं स्वर्णखनेर्जातं माहात्म्यं च मुनीश्वरात् ॥७१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये धर्महरिस्वर्णखनिमाहात्म्यवर्णनंनाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : November 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP