संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|अयोध्यामाहात्म्यम्| अध्याय १ अयोध्यामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० विषयानुक्रमणिका अयोध्यामाहात्म्यम् - अध्याय १ अयोध्यामाहात्म्यम् Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १ Translation - भाषांतर ॥ अयोध्यामाहात्म्यं प्रारभ्यते ॥जयति पराशरसूनुः सत्यवतीहृदयनंदनो व्यासः ॥यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति ॥१॥नारायणं नमस्कृत्य नरं चैव नरोत्तमम्॥देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥२॥॥ व्यास उवाच ॥हिमवद्वासिनः सर्वे मुनयो वेदपारगाः ॥त्रिकालज्ञा महात्मानो नैमिषारण्यवासिनः ॥३॥येऽर्बुदारण्यनिरता दण्डकारण्यवासिनः ॥महेन्द्राद्रिरता ये वै ये च विन्ध्यनिवासिनः ॥४॥जंबूवनरता ये च ये गोदावरिवासिनः ॥वाराणसीश्रिता ये च मथुरावासिनस्तथा ॥५॥उज्जयिन्यां रता ये च प्रथमाश्रमवासिनः ॥द्वारावतीश्रिता ये च बदर्य्याश्रयिणस्तथा॥ ६॥मायापुरीश्रिता ये च ये च कान्तीनिवासिनः ॥एते चान्ये च मुनयः सशिष्या बहवोऽमलाः ॥७॥कुरुक्षेत्रे महाक्षेत्रे सत्रे द्वादशवार्षिके ॥वर्तमाने च रामस्य क्षितीशस्य महात्मनः ॥समागताः समाहूताः सर्वे ते मुनयोऽमलाः ॥८॥सर्वे ते शुद्धमनसो वेदवेदांगपारगाः ॥तत्र स्नात्वा यथान्यायं कृत्वा कर्म जपादिकम् ॥९॥भारद्वाजं पुरस्कृत्य वेदवेदांगपारगम् ॥आसनेषु विचित्रेषु बृष्यादिषु ह्यनुक्रमात् ॥१०॥उपविष्टाः कथाश्चक्रुर्नानातीर्थाश्रितास्तदा ॥कर्मांतरेषु सत्रस्य सुखासीनाः परस्परम् ॥११॥कथांतेषु ततस्तेषां मुनीनां भावितात्मनाम् ॥आजगाम महातेजास्तत्र सूतो महामतिः ॥१२॥व्यासशिष्यः पुराणज्ञो समः हर्षणसंज्ञकः ॥तान्प्रणम्य यथान्यायं मुनीनुपविवेश सः ॥उपविष्टो यथान्यायं मुनीनां वचनेन सः ॥१३॥व्यासशिष्यं मुनिवरं सूतं वै रोमहर्षणम् ॥तं पप्रच्छुर्मुनिवरा भारद्वाजादयोऽमलाः ॥१४॥॥ ऋषय ऊचुः ॥त्वत्तः श्रुता महाभाग नानातीर्थाश्रिताः कथाः ॥सरहस्यानि सर्वाणि पुराणानि महामते ॥१५॥सांप्रतं श्रोतुमिच्छामः सरहस्यं सनातनम् ॥अयोध्याया महापुर्या महिमानं गुणोज्ज्वलम् ॥१६॥कीदृशी सा सदा मेध्याऽयोध्या विष्णुप्रियापुरी ॥आद्या सा गीयते वेदे पुरीणां मुक्तिदायिका ॥१७॥संस्थानं कीदृशं तस्यास्तस्यां के च महीभुजः ॥कानि तीर्थानि पुण्यानि माहात्म्यं तेषु कीदृशम् ॥१८॥अयोध्यासेवनान्नृणां फलं स्यात्सूत कीदृशम् ॥किं चरित्रं सूत तस्याः का नद्यः के च संगमाः ॥१९॥तत्र स्नानेन किं पुण्यं दानेन च महामते ॥तत्सर्वं श्रोतुमिच्छामस्त्वत्तः सूत गुणाधिक॥२०॥एतत्सर्वं क्रमेणैव तथ्यं त्वं वेत्थ सांप्रतम्॥अयोध्याया महापुर्य्या माहात्म्यं वक्तुमर्हसि ॥२१॥॥ सूत उवाच ॥व्यासप्रसादाज्जानामि पुराणानि तपोधनाः ॥सेतिहासानि सर्वाणि सरहस्यानि तत्त्वतः ॥२२॥तं प्रणम्य प्रवक्ष्यामि माहात्म्यं भवदग्रतः ॥अयोध्याया महापुर्या यथावत्सरहस्यकम् ॥२३॥विद्यावन्तं विपुलमतिदं वेदवेदांगवेद्यं श्रेष्ठं शान्तं शमितविषयं शुद्धतेजोविशालम् ॥वेदव्यासं सततविनतं विश्ववेद्यैकयोनिं पाराशर्य्यं परमपुरुषं सर्वदाऽहं नमामि ॥२४॥ॐ नमो भगवते तस्मै व्यासायामिततेजसे ॥यस्य प्रसादाज्जानामि ह्ययोध्यामहिमामहम् ॥२५॥शृण्वन्तु मुनयः सर्वे सावधानाः सशिष्यकाः ॥माहात्म्यं कथयिष्यामि अयोध्याया महोदयम् ॥२६॥उदीरितमगस्त्याय स्कन्देनाश्रावि नारदात् ॥अगस्त्येन पुरा प्रोक्तं कृष्णद्वैपायनाय तत् ॥२७॥कृष्णद्वैपायनाच्चैतन्मया प्राप्तं तपोधनाः ॥तदहं वच्मि युष्मभ्यं श्रोतुकामेभ्य आदरात् ॥२८॥नमामि परमात्मानं रामं राजीवलोचनम्॥अतसीकुसुमश्यामं रावणांतकमव्ययम् ॥२९॥अयोध्या सा परा मेध्या पुरी दुष्कृतिदुर्ल्लभा ॥कस्य सेव्या च नाऽयोध्या यस्यां साक्षाद्धरिः स्वयम् ॥३०॥सरयूतीरमासाद्य दिव्या परमशोभना ॥अमरावतीनिभा प्रायः श्रिता बहुतपोधनैः ॥३१॥हस्त्यश्वरथपत्त्याढ्या संपदुच्चा च संस्थिता ॥प्राकाराढ्यप्रतोलीभिस्तोरणैः कांचनप्रभैः ॥३२॥सानूपवेषैः सर्वत्र सुविभक्तचतुष्टया ॥अनेकभूमिप्रासादा बहुभित्तिसुविक्रिया ॥३३॥पद्मोत्फुल्लशुभोदाभिर्वापीभिरुपशोभिता॥देवतायतनैर्दिव्यैर्वेदघोषैश्च मण्डिता ॥३४॥वीणावेणुमृदंगादिशब्दैरुत्कृष्टतां गताशालैस्तालैर्नालिकेरैः पनसामलकैस्तथा॥ ३५॥तथैवाम्रकपित्थाद्यैरशोकैरुपशोभिता ॥आरामैर्विविधैर्युक्ता सर्वर्तुफलपादपैः॥ ३६॥मालतीजातिबकुलपाटलीनागचंपकैः ॥करवीरैः कर्णिकारैः केतकीभिरलंकृता ॥३७॥निम्बजंवीरकदलीमातुलिंगमहाफलैः ॥लसच्चंदनगंधाढ्यैर्नागरैरुपशोभिता ॥३८॥देवतुल्यप्रभायुक्तैर्नृपपुत्रैश्च संयुता ॥सुरूपाभिर्वरस्त्रीभिर्देवस्त्रीभिरिवावृता॥ ३९॥श्रेष्ठैः सत्कविभिर्युक्ता बृहस्पतिसमैर्द्विजैः॥वणिग्जनैस्तथा पौरैः कल्पवृक्षैरिवावृता॥४०॥अश्वैरुच्चैःश्रवस्तुल्यैर्दंतिभिर्दिग्गजैरिव॥इति नानाविधैर्भावैरुपेतेन्द्रपुरी समा॥४१॥यस्यां जाता महीपालाः सूर्यवंशसमुद्भवाः॥इक्ष्वाकुप्रमुखाः सर्वे प्रजापालनतत्पराः ॥४२॥यस्यास्तीरे पुण्यतोया कूजद्भृंगविहंगमा ॥सरयूर्नाम तटिनी मानसप्रभवोल्लसा ॥४३॥धर्मद्रवपरीता सा घर्घरोत्तमसंगमा ॥मुनीश्वराश्रिततटा जागर्ति जगदुच्छ्रिता ॥४४॥दक्षिणाच्चरणांगुष्ठान्निःसृता जाह्नवी हरेः ॥वामांगुष्ठान्मुनिवराः सरयूर्निर्गता शुभा ॥४५॥तस्मादिमे पुण्यतमे नद्यौ देवनमस्कृते ॥एतयोः स्नानमात्रेण ब्रह्महत्यां व्यपोहति ॥४६॥तामयोध्यामथ प्राप्तोऽगस्त्यः कुम्भोद्भवो मुनिः ॥यात्रार्थं तीर्थमाहात्म्यं ज्ञात्वा स्कन्दप्रसादतः ॥४७॥आगत्य तु इतः सोऽपि कृऽत्वा यात्रां क्रमेण च ॥यथोक्तेन विधानेन स्नात्वा संतर्प्य तान्पितॄन् ॥४८॥पूजयित्वा यथान्यायं देवताः सकला अपि ॥सर्वाण्यपि च तीर्थानि नमस्कृत्य यथाविधि ॥४९॥कृतकृत्योर्ज्जितानन्दस्तीर्थमाहात्म्यदर्शनात् ॥अभूदगस्त्यो रूपेण पुलकां चितविग्रहः ॥५०॥स त्रिरात्रं स्थितस्तत्र यात्रां कृत्वा यथाविधि ॥स्तुवन्नयोध्यामाहात्म्यं प्रतस्थे मुनिसत्तमः ॥५१॥तमायांतं विलोक्याशु बहुलानन्दसुन्दरम् ॥कृष्णद्वैपायनो व्यासः पप्रच्छानंदकारणम् ॥५२॥॥ व्यास उवाच ॥कुतः समागतो ब्रह्मन्सांप्रतं मुनिसत्तमः ॥परमानंदसंदोहः समभूत्सांप्रतं तव ॥५३॥कस्मादानंदपोषोऽभूत्तव ब्रह्मन्वदस्व मे ॥ममापि भवदानंदात्प्रमोदो हृदि जायते ॥५४॥॥ अगस्त्य उवाच ॥अहो महदथाश्चर्य्यं विस्मयो मुनिसत्तम ॥दृष्ट्वा प्रभावं मेऽद्याभूदयोध्यायास्तपोधन ॥५५॥तस्मादानंदसंदोहः समभून्मम सांप्रतम् ॥तच्छ्रुत्वागस्त्यवचनं व्यासः प्रोवाच तं मुनिम् ॥५६॥॥ व्यास उवाच ॥भगवन्ब्रूहि तत्त्वेन विस्तरात्सरहस्यकम् ॥अयोध्याया महापुर्या महिमानं गुणाधिकम् ॥५७॥कः क्रमस्तीर्थयात्रायाः कानि तीर्थानि को विधिः ॥कि फलं स्नानतस्तत्र दानस्य च महामुने ॥एतत्सर्वं समाचक्ष्व विस्तराद्वदतां वर ॥५८॥॥ अगस्त्य उवाच ॥अहो धन्यतमा बुद्धिस्तव जाता तपोधन ॥दृश्यते येन पृच्छा ते ह्ययोध्यामहिमाश्रिता ॥५९॥अकारो ब्रह्म च प्रोक्तं यकारो विष्णुरुच्यते ॥धकारो रुद्ररूपश्च अयोध्यानाम राजते ॥६०॥सर्वोपपातकैर्युक्तैर्ब्रह्महत्यादिपातकैः ॥नायोध्या शक्यते यस्मात्तामयोध्यां ततो विदुः ॥६१॥विष्णोराद्या पुरी येयं क्षितिं न स्पृशति द्विज ॥विष्णोः सुदर्शने चक्रे स्थिता पुण्यकरी क्षितौ ॥६२॥केन वर्णयितुं शक्यो महिमाऽस्यास्तपोधन ॥यत्र साक्षात्स्वयं देवो विष्णुर्वसति सादरः ॥६३॥सहस्रधारामारभ्य योजनं पूर्वतो दिशि ॥प्रतीचि दिशि तथैव योजनं समतोवधिः ॥६४॥दक्षिणोत्तरभागे तु सरयूतमसावधिः ॥एतत्क्षेत्रस्य संस्थानं हरेरन्तर्गृहं स्थितम् ॥मत्स्याकृतिरियं विप्र पुरी विष्णोरुदीरिता ॥६५॥पश्चिमे तस्य मूर्द्धा तु गोप्रतारासिता द्विज ॥६६॥पूर्वतः पृष्ठभागो हि दक्षिणोत्तरमध्यमः ॥तस्यां पुर्य्यां महाभाग नाम्ना विष्णुर्हरिः स्वयम् ॥पूर्वंदृष्टप्रभावोऽसौ प्राधान्येन वसत्यपि ॥६७॥॥ व्यास उवाच ॥भगवन्किं प्रभावोऽसौ योऽयं विष्णुहरिस्त्वया ॥कीर्तितो मुनिशार्दूल प्रसिद्धिं गतवान्कथम् ॥एतत्सर्वं समाचक्ष्व विस्तरेण ममाग्रतः ॥६८॥॥अगस्त्य उवाच ॥विष्णुशर्मेति विख्यातः पुराभूद्ब्राह्मणोत्तमः ॥वेदवेदांगतत्त्वज्ञो धर्मकर्मसमाश्रितः ॥६९॥योगध्यानरतो नित्यं विष्णुभक्तिपरायणः ॥स कदाचित्तीर्थयात्रां कुर्वन्वैष्णवसत्तमः ॥अयोध्यामागतो विष्णुर्विष्णुःसाक्षाद्वसेदिति ॥७०॥चिंतयन्मनसा वीरस्तपः कर्तुं समुद्यतः ॥स वै तत्र तपस्तेपे शाकमूलफलाशनः ॥७१॥ग्रीष्मे पंचाग्निमध्यस्थो ह्यतपत्स महातपाः ॥वार्षिके च निरालम्बो हेमन्ते च सरोवरे ॥७२॥स्नात्वा यथोक्तविधिना कृत्वा विष्णोस्तथार्चनम् ॥वशीकृत्येन्द्रियग्रामं विशुद्धेनांतरात्मना ॥७३॥मनो विष्णौ समावेश्य विधाय प्राणसंयमम् ॥ॐकारोच्चारणाद्धीमान्हृदि पद्मं विकासयन् ॥७४॥तन्मध्ये रविसोमाग्निमण्डलानि यथाविधि ॥कल्पयित्वा हरिं मूर्तं यस्मिन्देशे सनातनम् ॥७५॥पीतांबरधरं विष्णुं शंखचक्रगदाधरम् ॥तं च पुष्पैः समभ्यर्च्य मनस्तस्मिन्निवेश्य च ॥७६॥ब्रह्मरूपं हरिं ध्यायञ्जपन्वै द्वादशाक्षरम् ॥वायुभक्षः स्थितस्तत्र विप्रस्त्रीन्वत्सरान्वसन् ॥७७॥ततो द्विजवरो ध्यात्वा स्तुतिं चक्रे हरेरिमाम् ॥प्रणिपत्य जगन्नाथं चराचरगुरुं हरिम् ॥विष्णुशर्माथ तुष्टाव नारायणमतंद्रितः ॥७८॥॥ विष्णुशर्म्मोवाच ॥प्रसीद भगवन्विष्णो प्रसीद पुरुषोत्तम ॥प्रसीद देवदेवेश प्रसीद कमलेक्षण ॥७९॥जय कृष्ण जयाचिंत्य जय विष्णो जयाव्यय ॥जय यज्ञपते नाथ जय विष्णो पते विभो ॥८०॥जय पापहरानंत जय जन्मज्वरापह ॥नमः कमलनाभाय नमः कमलमालिने ॥८१॥नमः सर्वेश भूतेश नमः कैटभसूदन ॥नमस्त्रैलोक्यनाथाय जगन्मूल जगत्पते ॥८२॥नमो देवाधिदेवाय नमो नारायणाय वै ॥नमः कृष्णाय रामाय नमश्चक्रायुधाय च ॥८३॥त्वं माता सर्वलोकानां त्वमेव जगतः पिता ॥भयार्त्तानां सुहृन्मित्रं त्वं पिता त्वं पितामहः ॥८४॥त्वं हविस्त्वं वषट्कारस्त्वं प्रभुस्त्वं हुताशनः ॥करणं कारणं कर्त्ता त्वमेव परमेश्वरः ॥८५॥शंखचक्रगदापाणे मां समुद्धर माधव ॥८६॥प्रसीद मंदरधर प्रसीद मधुसूदन ॥प्रसीद कमलाकान्त प्रसीद भुवनाधिप ॥८७॥॥ अगस्त्य उवाच ॥इत्येवं स्तुवतस्तस्य मनोभक्त्या महात्मनः ॥आविर्बभूव विश्वात्मा विष्णुर्गरुडवाहनः ॥८८॥शंखचक्रगदापाणिः पीतांबरधरोऽच्युतः ॥उवाच स प्रसन्नात्मा विष्णुशर्माणमव्ययः ॥८९॥॥ श्रीभगवानुवाच ॥तुष्टोऽस्मि भवतो वत्स महता तपसाऽधुना ॥स्तोत्रेणानेन सुमते नष्टपापोऽसि सांप्रतम् ॥९०॥वरं वरय विप्रेन्द्र वरदोऽहं तवाग्रतः ॥नाऽतप्ततपसा द्रष्टुं शक्यः केनाप्यहं द्विज ॥९१॥॥ विष्णुशर्म्मोवाच ॥कृतकृत्योऽस्मि देवेश सांप्रतं तव दर्शनात् ॥त्वद्भक्तिमचलामेकां मम देहि जगत्पते ॥९२॥॥श्रीभगवानुवाच ॥भक्तिरस्त्वचला मे वै वैष्णवी मुक्तिदायिनी ॥अत्रैवास्त्वचला मे वै जाह्नवी मुक्तिदायिनी ॥९३॥इदं स्थानं महाभाग त्वन्नाम्ना ख्यातिमेष्यति ॥९४॥॥ अगस्त्य उवाच ॥इत्युक्त्वा देवदेवेशश्चक्रेणोत्खाय तत्स्थलम् ॥जलं प्रकटयामास गांगं पातालमंडलात् ॥९५॥जलेन तेन भगवान्पवित्रेण दयांबुधिः ॥नीरजस्तु भूमितलं क्षणाच्चक्रे कृपावशात् ॥९६॥चक्रतीर्थमिति ख्यातं ततः प्रभृति तद्द्विज ॥जातं त्रैलोक्यविख्यातमघौघध्वंसकृच्छुभम् ॥९७॥तत्र स्नानेन दानेन विष्णुलोकं व्रजेन्नरः ॥९८॥ततः स भगवान्भूयो विष्णुशर्माणमच्युतः ॥कृपया परया युक्त उवाच द्विजवत्सलः ॥९९॥॥श्रीभगवानुवाच ॥त्वन्नामपूर्विका विप्र मन्मूर्तिरिह तिष्ठतु ॥विष्णुहरीति विख्याता भक्तानां मुक्तिदायिनी ॥१००॥॥ अगस्त्य उवाच ॥इति श्रुत्वा वचो विप्रो वासुदेवस्य बुद्धिमान्॥स्वनामपूर्विकां मूर्तिं स्थापयामास चक्रिणः ॥१०१॥ततः प्रभति विप्रेश शंखचक्रगदाधरः ॥पीतवासाश्चतुर्बाहुर्नाम्ना विष्णुहरिः स्थितः॥१०२॥कार्तिके शुक्लपक्षस्य प्रारभ्य दशमी तिथिम् ॥पूर्णिमामवधिं कृत्वा यात्रा सांवत्सरी भवेत् ॥१०३॥चक्रतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥बहुवर्षसहस्राणि स्वर्गलोके महीयते ॥१०४॥पितॄनुद्दिश्य यस्तत्र पिंडान्निर्वापयिष्यति ॥तृप्तास्तु पितरो यान्ति विष्णुलोकं न संशयः ॥१०५॥चक्रतीर्थे नरः स्नात्वा दृष्ट्वा विष्णुहरिं विभुम् ॥सर्वपापक्षयं प्राप्य नाकपृष्ठे महीयते ॥१०६॥स्वशक्त्या तत्र दानानि दत्त्वा निष्कल्मषो नरः ॥विष्णुलोके वसेद्धीमान्यावदिन्द्राश्चतुर्दश ॥१०७॥अन्यदापि नरस्तत्र चक्रतीथे जितेंद्रियः ॥दृष्ट्वा सकृद्धरिं देवं सर्वपापैः प्रमुच्यते ॥१०८॥इति सकलगुणाब्धिर्ध्येयमूर्तिश्चिदात्मा हरिरिह परमूर्त्या तस्थिवान्मुक्तिहेतोः ॥तमिह बहुलभक्त्या चक्रतीर्थाभिषेकी वसति सुकृतिमूर्त्तिर्योऽर्चयेद्विष्णुलोके ॥१०९॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडेऽयोध्यामाहात्म्ये विष्णुहरिमाहात्म्यवर्णनंनाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : November 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP