संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|अयोध्यामाहात्म्यम्| अध्याय २ अयोध्यामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० विषयानुक्रमणिका अयोध्यामाहात्म्यम् - अध्याय २ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय २ Translation - भाषांतर ॥ सूत उवाच ॥अगस्त्यमुनिरित्युक्त्वा चक्रतीर्थाश्रयां कथाम् ॥विभोर्विष्णुहरेश्चापि पुनराह द्विजोत्तमाः ॥१॥॥अगस्त्य उवाच ॥पुरा ब्रह्मा जगत्स्रष्टा विज्ञाय हरिमच्युतम् ॥अयोध्यावासिनं देवं तत्र चक्रे स्थितिं स्वयम् ॥२॥आगत्य कृतवांस्तत्र यात्रां ब्रह्मा यथाविधि ॥यज्ञं च विधिवच्चक्रे नानासंभारसंयुतम् ॥३॥ततः स कृतवांस्तत्र ब्रह्मा लोकपितामहः ॥कुण्डं स्वनाम्ना विपुलं नानादेवसमन्वितम् ॥४॥विस्तीर्णजलकल्लोलकलितं कलुषापहम् ॥कुमुदोत्पलकह्लारपुंडरीककुलाकुलम् ॥५॥हंससारसचक्राह्व विहंगममनोहरम् ॥तटांतविटपोल्लासि पतत्त्रिगणसंकुलम् ॥६॥तत्र कुण्डे सुराः सर्वे स्नाताः शुद्धिसमन्विताः ॥बभूवुरद्धा विगतरजस्का विमलत्विषः ॥७॥तदाश्चर्य्यं महद्दृष्ट्वा ते सर्वे सहसा सुराः ॥ब्रह्माणं प्रणिपत्योचुर्भक्त्या प्रांजलयस्तदा ॥८॥॥ देवा ऊचुः ॥भगवन्ब्रूहि तत्त्वेन माहात्म्यं कमलासन ॥अस्य कुण्डस्य सकलं खातस्य विमलत्विषः ॥९॥अत्र स्नानेन सर्वेषामस्माकं विगतं रजः ॥महदाश्चर्यमेतस्य दृष्ट्वा कुंडस्य विस्मिताः ॥सर्वे वयं सुरश्रेष्ठ कृपया त्वमतो वद ॥१०॥॥ ब्रह्मोवाच ॥शृण्वन्तु सर्वे त्रिदशाः सावधानाः सविस्मयाः ॥कुण्डस्यैतस्य माहात्म्यं नानाफलसमन्वितम् ॥११॥अत्र स्नानेन विधिवत्पापात्मानोऽपि जंतवः ॥विमानं हंससंयुक्तमास्थाय रुचिरांबराः ॥निवसंति ब्रह्मलोके यावदाभूतसंप्लवम् ॥१२॥अत्र दानेन होमेन यथाशक्त्या सुरोत्तमाः ॥तुलाश्वमेधयोः पुण्यं प्राप्नुयुर्मुनिसत्तम ॥१३॥ममास्मिन्सरसि श्रीमाञ्जायते स्नानतो नरः ॥तस्मादत्र विधानेन स्नानं दानं जपादिकम् ॥१४॥सर्वयज्ञसमं स्याद्वै महापातकनाशनम्॥ब्रह्मकुण्डमिति ख्यातिमितो यास्यत्यनुत्तमाम्॥१५॥अस्मिन्कुण्डे च सांनिध्यं भविष्यति सदा मम ॥कार्त्तिके शुक्लपक्षस्य चतुर्दश्यां सुरोत्तमाः ॥१६॥यात्रा भविष्यति सदा सुराः सांवत्सरी मम ॥शुभप्रदा महापापराशिनाशकरी तदा ॥१७॥स्वर्णं चैव सदा देयं वासांसि विविधानि च ॥निजशक्त्या प्रकर्तव्या सुरास्तृप्तिर्द्विजन्मनाम्॥१८॥॥ अगस्त्य उवाच ॥इत्युक्त्वा देवदेवोऽयं ब्रह्मा लोकपितामहः ॥अन्तर्दधे सुरैः सार्द्धं तीर्थं दृष्ट्वा तपोधन ॥१९॥तदाप्रभृति तत्कुण्डं विख्यातं परमं भुवि ॥चक्रतीर्थाच्च पूर्वस्यां दिशि कुण्डं स्थितं महत् ॥२०॥॥सूत उवाच ॥इत्युक्त्वा स तपोराशिरगस्त्यः कुंभसंभवः ॥पुनः पृष्टो मुनिवरो व्यासायावीवदत्कथाम् ॥२१॥॥ अगस्त्य उवाच ॥अन्यच्छृणु महाभाग तीर्थं दुष्कृतिदुर्ल्लभम् ॥ऋणमोचनसंज्ञं तु सरयूतीरसंगतम् ॥२२॥ब्रह्मकुण्डान्मुनिवर धनुःसप्तशतेन च ॥पूर्वोत्तरदिशाभागे संस्थितं सरयूजले ॥२३॥तत्र पूर्वं मुनिवरो लोमशो नाम नामतः ॥तीर्थयात्राप्रसंगेन स्नानं चक्रे विधानतः ॥२४॥ततः स ऋणनिर्मुक्तो बभूव गतकल्मषः ॥तदाश्चर्यं महद्दृष्ट्वा मुनीन्सानन्दमब्रवीत् ॥२५॥पश्यन्त्वेतस्य महतो गुणांस्तीर्थवरस्य वै ॥भुजावूर्ध्वं तथा कृत्वा हर्षेणाहाऽश्रुलोचनः ॥२६॥॥ लोमश उवाच ॥ऋणमोचनसंज्ञं तु तीर्थमेतदनुत्तमम् ॥यत्र स्नानेन जंतूनामृणनिर्यातनं भवेत् ॥२७॥ऐहिकं पारलौकिक्यं यदृणत्रितयं नृणाम् ॥तत्सर्वं स्नानमात्रेण तीर्थेऽस्मिन्नश्यति क्षणात् ॥२८॥सर्वतीर्थोत्तमं चैतत्सद्यः प्रत्ययकारकम् ॥मया चास्य फलं सम्यगनुभूतमृणादिह ॥२९॥तस्मादत्र विधानेन स्नानं दानं च शक्तितः ॥कर्त्तव्यं श्रद्धया युक्तैः सर्वदा फलकांक्षिभिः ॥३०॥स्नातव्यं च सुवर्णं च देयं वस्त्रादि शक्तितः ॥३१॥॥अगस्त्य उवाच ॥इत्युक्त्वा तीर्थमाहात्म्यं लोमशो मुनिसत्तमः ॥अन्तर्दधे मुनिश्रेष्ठः स्तुवंस्तीर्थगुणान्मुदा ॥३२॥इत्येतत्कथितं विप्र ऋणमोचनसंज्ञकम् ॥यत्र स्नानेन जन्तूनामृणं नश्यति तत्क्षणात् ॥ऋणमोचनतीर्थं तु पूर्वतः सरयूजले ॥३३॥धनुर्द्विशत्या तीर्थं च पापमोचनसंज्ञकम्॥सर्वपापविशुद्धात्मा तत्र स्नानेन मानवः ॥जायते तत्क्षणादेव नात्र कार्या विचारणा ॥३४॥मया तत्र मुनिश्रेष्ठ दृष्टं माहात्म्यमुत्तमम् ॥३५॥पांचालदेशसंभूतो नाम्ना नरहरिर्द्विजः ॥असत्संगप्रभावेन पापात्मा समजायत ॥३६॥नाना विधानि पापानि ब्रह्महत्यादिकानि च ॥कृतवान्पापिसंगेन त्रयीमार्गविनिन्दकः ॥३७॥स कदाचित्साधुसंगात्तीर्थयात्राप्रसंगतः ॥अयोध्यामागतो विप्र महापातककृद्द्विजः ॥३८॥पापमोचनतीर्थे तु स्नातः सत्संगतो द्विजः ॥पापराशिर्विनष्टोऽस्य निष्पापः समभूत्क्षणात् ॥३९॥दिवः पपात तन्मूर्ध्नि पुष्पवृष्टिर्मुनीश्वर ॥दिव्यं विमानमारुह्य विष्णुलोके गतो द्विजः ॥४०॥तद्दृष्ट्वा महदाश्चर्यं मया च द्विजपुंगव ॥श्रद्धया परया तत्र कृतं स्नानं विशेषतः ॥४१॥माघकृष्णचतुर्दश्यां तत्र स्नानं विशेषतः ॥दानं च मनुजैः कार्य्यं सर्वपापविशुद्धये ॥४२॥अन्यदा(?) तु कृते स्नाने सर्वपापक्षयो भवेत् ॥४३॥पापमोचनतीर्थे तु पूर्वं तु सरयूजले ॥धनुःशतप्रमाणेन वर्त्तते तीर्थमुत्तमम् ॥४४॥सहस्रधारासंज्ञं तु सर्वकिल्बिषनाशनम् ॥यस्मिन्रामाज्ञया वीरो लक्ष्मणः परवीरहा ॥प्राणानुत्सृज्य योगेन ययौ शेषात्मतां पुरा ॥४५॥सार्द्धंहस्तत्रयेणैव प्रमाणं धनुषो विदुः ॥चतुर्भिर्हस्तकैः संख्या दण्ड इत्यभिधीयते ॥४६॥॥ सूत उवाच ॥इत्थं तदा समाकर्ण्य कुम्भयोनिमुनेस्तदा ॥कृष्णद्वैपायनो व्यासः पुनः पप्रच्छ कौतुकात् ॥४७॥॥ व्यास उवाच ॥सहस्रधारामाहात्म्यं विस्तराद्वद सुव्रत ॥शृण्वंस्तीर्थस्य माहात्म्यं न तृप्यति मनो मम ॥४८॥॥ अगस्त्य उवाच ॥सावधानः शृणु मुने कथां कथयतो मम ॥सहस्रधारातीर्थस्य समुत्पत्तिं महोदयात् ॥४९॥पुरा रामो रघुपतिर्देवकार्यं विधाय वै ॥कालेन सह संगम्य मंत्रं चक्रे नरेश्वरः ॥५०॥आवां मन्त्रयमाणौ हि यः पश्येदन्तिकागतः॥४९॥मया त्याज्यो भवेत्क्षिप्रमित्थं चक्रे स संविदम् ॥५१॥तस्मिन्मंत्रयमाणे हि द्वारे तिष्ठति लक्ष्मणे ॥आगतः स तपोराशिर्दुर्वासास्तेजसां निधिः ॥५२॥आगत्य लक्ष्मणं शीघ्रं प्रीत्योवाच क्षुधाऽऽकुलः॥ ५३॥॥ दुर्वासा उवाच ॥सौमित्रे गच्छ शीघ्रं त्वं रामाग्रे मां निवेदय ॥कार्यार्थिनमिदं वाक्यं नान्यथा कर्तुमर्हसि ॥५४॥॥ अगस्त्य उवाच ॥शापाद्भीतः स सौमित्रिर्द्रुतं गत्वा तयोः पुरः ॥मुनिं निवेदयामास रामाग्रे दर्शनार्थिनम् ॥दुर्वाससं तपोराशिमत्रिनन्दनमागतम् ॥५५॥रामोऽपि कालमामंत्र्य प्रस्थाप्य च बहिर्ययौ ॥दृष्ट्वा मुनिं तं प्रणतः संभोज्य प्रभुरादरात् ॥५६॥दुर्वाससं मुनिवरं प्रस्थाप्य स्वयमादरात् ॥सत्यभंगभयाद्वीरो लक्ष्मणं त्यक्तवांस्तदा ॥५७॥लक्ष्मणोऽपि तदा वीरः कुर्वन्नवितथं वचः ॥भ्रातुर्ज्येष्ठस्य सुमतिः सरयूतीरमाययौ ॥५८॥तत्र गत्वाथ च स्नात्वा ध्यानमास्थाय सत्वरम् ॥चिदात्मनि मनः शान्तं संगम्यावस्थितस्तदा ॥५९॥ततः प्रादुरभूत्तत्र सहस्रफणमण्डितः ॥शेषश्चक्षुःश्रवाः श्रेष्ठः क्षितिं भित्त्वा सहस्रधा ॥सुरलोकात्सुरेन्द्रोऽपि समागादमरैः सह ॥६०॥ततः शेषात्मतां यातं लक्ष्मणं सत्यसंगरम् ॥उवाच मधुरं शक्रः सुराणां तत्र पश्यताम् ॥६१॥॥इन्द्र उवाच ॥लक्ष्मणोत्तिष्ठ शीघ्रं त्वमारोह स्वपदं स्वकम् ॥देवकार्यं कृतं वीर त्वया रिपुनिषूदन ॥६२॥वैष्णवं परमं स्थानं प्राप्नुहि त्वं सनातनम् ॥भवन्मूर्तिः समायातः शेषोऽपि विलसत्फणः ॥६३॥सहस्रधा क्षितिं भित्त्वा सहस्रफणमण्डलैः ॥क्षितेः सहस्रच्छिद्रेषु यस्माद्भित्त्वा समुद्गताः ॥६४॥फणसाहस्रमणिभिर्दग्धाः शेषस्य सुव्रत ॥तस्मादेतन्महातीर्थं सरयूतीरगं शुभम् ॥ख्यातं सहस्रधारेति भविष्यति न संशयः ॥६५॥एतत्क्षेत्रप्रमाणं तु धनुषां पञ्चविंशतिः ॥अत्र स्नानेन दानेन श्राद्धेन श्रद्धयान्वितः ॥सर्वपापविशुद्धात्मा विष्णुलोकं व्रजेन्नरः ॥६६॥अत्र स्नातो नरो धीमाञ्छेषं संपूज्य चाव्ययम् ॥तीर्थं संपूज्य विधिवद्विष्णुलोकमवाप्नुयात् ॥६७॥तस्मादत्र प्रकर्तव्यं स्नानं विधिपुरःसरम् ॥शेषरूपाहिवद्ध्येयाः पूज्या विप्रा विशेषतः ॥६८॥स्वर्णं चान्नं च वासांसि देयानि श्रद्धयान्वितैः ॥स्नानं दानं हरेः पूजा सर्वमक्षयतां व्रजेत् ॥६९॥तस्मादेतन्महातीर्थं सर्वकामफलप्रदम् ॥क्षितौ भविष्यति सदा नात्र कार्या विचारणा ॥७०॥श्रावणे शुद्धपक्षस्य या तिथिः पञ्चमी भवेत् ॥तस्यामत्र प्रकर्तव्यो नागानुद्दिश्य यत्नतः ॥७१॥उत्सवो विपुलः सद्भिः शेषपूजापुरःसरम् ॥उत्सवे तु कृते तत्र तीर्थे महति मानवैः ॥७२॥सन्तोष्य च द्विजान्भक्त्या नागपूजापुरस्सरम् ॥सन्तुष्टाः फणिनः सर्वे पीडयन्ति न मानुषान् ॥७३॥वैशाखमासे ये स्नानं कुर्वंत्यत्र समाहिताः ॥न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥७४॥तस्मादत्र प्रकर्तव्यं माधवे यत्नतो नरैः ॥स्नानं दानं हरिः पूज्यो ब्राह्मणाश्च विशेषतः ॥तीर्थे कृतेऽत्र मनुजैः सर्वकामफलप्रदः ॥७५॥विष्णुमुद्दिश्य यो दद्यात्सालंकारां पयस्विनीम् ॥सवत्सामत्र सत्तीर्थे सत्पात्राय द्विजन्मने ॥७६॥तस्य वासो भवेन्नित्य विष्णुलोके सनातने ॥अक्षयं स्वर्गमाप्नोति तीर्थ स्नानेन मानवः ॥७७॥अत्र पूज्यौ विशेषेण नरैः श्रद्धासमन्वितः ॥वैशाखे मास्यलंकारैर्वस्त्रैश्च द्विजदंपती ॥७८॥लक्ष्मीनारायणप्रीत्यै लक्ष्मीप्रात्यै विशेषतः ॥वैशाखे मासि तीर्थानि पृथिवीसंस्थितानि वै ॥७९॥सर्वाण्यपि च संगत्य स्थास्यंत्यत्र न संशयः ॥तस्मादत्र विशेषेण वैशाखे स्नानतो नृणाम् ॥सर्वतीर्थावगाहस्य भविष्यति फलं महत् ॥८०॥॥ अगस्त्य उवाच ॥इत्युक्त्वा मुनिराजेंद्रो लक्ष्मणं सुरसं गतम् ॥शेषं संस्थाप्य तत्तीर्थे भूभारहरणक्षमम् ॥लक्ष्मणं यानमारोप्य प्रतस्थे दिवमादरात् ॥८१॥तदाप्रभृति तत्तीर्थं विख्यातिं परमां ययौ ॥वैशाखे मासि तीर्थस्य माहात्म्यं परमं स्मृतम् ॥८२॥पञ्चम्यामपि शुक्लायां श्रावणस्य विशेषतः ॥अन्यदा पर्वणि श्रेष्ठं विशेषं स्नानमाचरेत् ॥सहस्रधारातीर्थे च नरः स्वर्गमवाप्नुयात्॥ ८३॥विधिवदिह हि धीमान्स्नानदानानि तीर्थे नरवर इह शक्त्या यः करोत्यादरेण ॥स इह विपुलभोगान्निर्मलात्मा च भक्त्या भजति भुजगशायिश्रीपतेरात्मनैक्यम् ॥८४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये ब्रह्मकुण्डसहस्रधारातीर्थमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : November 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP