संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|अयोध्यामाहात्म्यम्| अध्याय ७ अयोध्यामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० विषयानुक्रमणिका अयोध्यामाहात्म्यम् - अध्याय ७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ७ Translation - भाषांतर ॥ अगस्त्य उवाच ॥तीर्थमन्यत्प्रवक्ष्यामि क्षीरोदकमिति स्मृतम् ॥सीताकुण्डाच्च वायव्ये वर्त्तते गुणसुन्दरम् ॥पुण्यैकनिचयस्थानं सर्वदुःखविनाशनम् ॥१॥पुरा दशरथो राजा पुत्रेष्टिनाम नामतः ॥चकार विधिवद्यज्ञं पुत्रार्थं यत्र चादरात् ॥२॥क्रतुं समापयामास सानन्दो भूरिदक्षिणम् ॥यज्ञान्ते क्रतुभुक्तत्र मूर्तिमान्समदृश्यत ॥३॥हस्ते कृत्वा हेमपात्रं हविःपूर्णमनुत्तमम् ॥तस्मिन्हविषि संकीर्णं वैष्णवं तेज उत्तमम् ॥चतुर्विधं विभज्यैव पत्नीभ्यो दत्तवान्नृपः ॥४॥यत्र तत्क्षीरसंप्राप्तिर्जाता परमदुर्लभा ॥क्षीरोदकमिति ख्यातं तत्स्थानं पापनाशनम् ॥उदकेनाभिव्यक्तं च उत्तमं च फलप्रदम् ॥५॥तत्र स्नात्वा नरो धीमान्विजितेन्द्रिय आदरात् ॥सर्वान्कामानवाप्नोति पुत्रांश्च सुबहुश्रुतान् ॥६॥आश्विने शुक्लपक्षस्य एकादश्यां जितव्रतः ॥तत्र स्नात्वा विधानेन दत्त्वा शक्त्या द्विजन्मने ॥७॥विष्णुं संपूज्य विधिवत्सर्वान्कामानवाप्नुयात् ॥पुत्रानवाप्नुयाद्विद्धि धर्मांश्च विधिवन्नरः ॥८॥तस्मात्क्षीरोदकस्थानान्नैर्ऋते दिग्दले श्रितम् ॥ख्यातं बृहस्पतेः कुण्डमुद्दंडाचंडमंडितम् ॥९॥सर्वपापप्रशमनं पुण्यामृततरंगितम् ॥यत्र साक्षात्सुरगुरुर्निवासं किल निर्ममे ॥१०॥यज्ञं च विधिवच्चक्रे बृहस्पतिरुदारधीः ॥नानामुनिगणैर्युक्तं रम्यं बहुफलप्रदम् ॥सुपर्णच्छायसंपन्नं कुण्डं तत्पापिदुर्ल्लभम् ॥११॥इन्द्रादयोऽपि विबुधा यत्र स्नात्वा प्रयत्नतः ॥मनोभीष्टफलं प्राप्ताः सौंदर्यौदार्यतुंदिलाः ॥१२॥यत्र स्नानेन दानेन नरो मुच्येत किल्बिषात् ॥१३॥भाद्रे शुक्ले तु पंचम्यां यात्रा तत्र फलप्रदा ॥अन्यदापि गुरोर्वारे स्नानं बहुफलप्रदम् ॥१४॥बृहस्पतेस्तथा विष्णोः पूजां तत्र य आचरेत् ॥सर्वपापविनिर्मुक्तो विष्णुलोके स मोदते ॥१५॥भवेद्बृहस्पतेः पीडा यस्य गोचरवेधतः ॥तेनात्र विधिवत्स्नानं कार्यं संकल्पपूर्वकम् ॥१६॥होमं कृत्वा गुरोर्मूर्तिः सुवर्णेन विनिर्मिता ॥स्थित्वा जले प्रदेया वै पीतांबरसमन्विता ॥१७॥वेदज्ञायातिशुचये स्नात्वा पीडापनुत्तये ॥होमं च कारयेत्तत्र ग्रहजाप्यविधानतः ॥१८॥एवं कृते न संदेहो ग्रहपीडा प्रणश्यति ॥१९॥तद्दक्षिणे मुनिश्रेष्ठ रुक्मिणीकुण्डमुत्तमम् ॥चकार यत्स्वयं देवी रुक्मिणी कृष्णवल्लभा ॥२०॥तत्र विष्णुः स्वयं चक्रे निवासं सलिले तदा ॥वरप्रदानात्स्नेहेन भार्यायाः प्रगुणीकृतम् ॥२१॥तत्र स्नानं तथा दानं होमं वैष्णवमंत्रकम् ॥द्विजपूजां विष्णुपूजां कुर्वीत प्रयतो नरः ॥२२॥तत्र सांवत्सरी यात्रा कर्त्तव्या सुप्रयत्नतः ॥ऊर्जकृष्णनवम्यां च सर्वपापापनुत्तये ॥२३॥पुत्रवाञ्जायते वन्ध्यो यात्रां कृत्वा न संशयः ॥नारीभिर्वा नरैर्वापि कर्त्तव्यं स्नानमादरात् ॥२४॥भुक्त्वा भोगान्समग्रांश्च विष्णुलोके स मोदते ॥लक्ष्मीकामनया तत्र स्नातव्यं च विशेषतः ॥२५॥सर्वकाममवाप्नोति तत्र स्नानेन मानवः ॥रुक्मिणीश्रीपतिप्रीत्यै दातव्यं च स्वशक्तितः ॥२६॥कर्त्तव्या विधिवत्पूजा ब्राह्मणानां विशेषतः ॥ध्येयो लक्ष्मीपतिस्तत्र शंखचक्रगदाधरः ॥२७॥पीतांबरधरः स्रग्वी नारदादिभिरीडितः ॥तार्क्ष्यासनो मुकुटवान्महेन्द्रादिविभूषितः ॥२८॥सर्वकामफलावाप्त्यै वक्षोलक्षितकौस्तुभः ॥अतसीकुसुमश्यामः कमलामललोचनः ॥२९॥एवं कृते न संदेहः सर्वान्कामानवाप्नुयात् ॥इह लोके सुखं भुक्त्वा हरिलोके स मोदते ॥३०॥अतः परं प्रवक्ष्यामि तीर्थमन्यदघापहम् ॥कलिकिल्विषसंहारकारकं प्रत्ययात्मकम् ॥३१॥परं पवित्रमतुलं सर्वकामार्थसिद्धिदम् ॥धनयक्षइतिख्यातं परं प्रत्ययकारकम् ॥३२॥रुक्मिणीकुण्डवायव्यदिग्दले संस्मृतं शुभम् ॥हरिश्चन्द्रस्य राजर्षेरासीत्तत्र धनं महत् ॥३३॥तस्य रक्षार्थमत्यर्थं रक्षितो यक्षउच्चकैः ॥विश्वामित्रो मुनिः पूर्वं यदा चैव पराजयत् ॥३४॥हरिश्चंद्रं नरपतिं राज्यसूयकरं परम् ॥राज्यं जग्राह सकलं चतुरंगबलान्वितम् ॥३५॥तद्वशेऽदाच्च स मुनिर्धनं सकलमुत्तमम् ॥तद्रक्षायै प्रयत्नेन यक्षं स्थापितवानसौ ॥३६॥प्रमंथुर इति ख्यातं प्रमोदानन्दमंदिरम् ॥रक्षां विदधतस्तस्य बहुयत्नेन सर्वशः ॥३७॥तुतोष स मुनिर्द्धीमान्कदाचिद्विजितेन्द्रियः ॥उवाच मधुरं वाक्यं प्रीत्या परमया युतः ॥३८॥॥ विश्वामित्र उवाच ॥वरं वरय धर्मज्ञ क्षिप्रमेव विमत्सरः॥भक्त्या परमया धीर संतुष्टोऽस्मि विशेषतः॥३९॥॥यक्ष उवाच ॥वरं प्रयच्छसि यदि विप्रवर्य मदीप्सितम्॥ममांगमतिदुर्गंधि शापाच्च नृपतेरभूत्॥सुगन्धयितुं ब्रह्मर्षे तत्प्रसीद मुनीश्वर ॥४०॥॥ अगस्त्य उवाच ॥एवमुक्ते तु यक्षेण मुनिर्ध्यानस्थलोचनः॥तं विविच्यानया भक्त्या अभिषेकं चकार सः॥४१॥तीर्थोदकेन विधिवत्कृत्वा संकल्पमादरात्॥ततः सोऽभूत्क्षणेनैव सुगन्धोत्तरविग्रहः ॥४२॥तथाभूतः स मधुरं प्रोवाच प्रांजलिस्ततः ॥पुनः पुरः स्थितो धीमान्विनयावनतस्तदा ॥४३॥॥ यक्ष उवाच ॥त्वत्कृपाभिरहं धीर जातः सुरभिविग्रहः॥एतत्स्थानं यथा ख्यातिं याति सर्वज्ञ तत्कुरु ॥४४॥त्वत्प्रसादेन विप्रर्षे तथा यत्नं विधेहि वै ॥४५॥॥ अगस्त्य उवाच ॥एवमुक्तः क्षणं ध्यात्वा मुनिः स्तिमितलोचनः ॥यक्षं प्रति प्रसन्नात्मा ह्युवाच श्लक्ष्णया गिरा ॥४६॥॥ विश्वामित्र उवाच ॥प्रसिद्धिमतुलां यक्ष एतत्स्थानं गमिष्यति ॥धनयक्ष इति ख्यातिमेतत्तीर्थं गमिष्यति ॥४७॥सौंदर्य्यदं शरीरस्य परं प्रत्ययकारकम् ॥यत्र स्नात्वा विधानेन दौर्गंध्यं त्यजति क्षणात् ॥तत्र स्नानं प्रयत्नेन कर्त्तव्यं पुण्यकांक्षिभिः ॥४८॥दानं श्रद्धास्वशक्तिभ्यां लक्ष्मीपूजा विशेषतः ॥तत्र स्नानेन दानेन लक्ष्मीप्रीत्यै विशेषतः ॥४९॥पूजया तु निधीनां च नवानामपि सुव्रत ॥इह लोके सुखं भुक्त्वा परलोके स मोदते ॥५०॥महापद्मस्तथा पद्मः शंखो मकरकच्छपौ ॥मुकुन्दकुंदनीलाश्च खर्वश्च निधयो नव ॥५१॥एतेषामपि कुण्डेऽत्र संनिधिर्भविताऽनघ ॥एतेषां तु विशेषेण पूजा बहुफलप्रदा॥५२॥जलमध्ये प्रकर्त्तव्यं निधिलक्ष्मीप्रपूजनम्॥५३॥अन्नं बहुविधं देयं वासांसि विविधानि च॥५४॥सुवर्णादि यथाशक्त्या वित्तशाठ्यं विवर्जयेत् ॥गुप्तं दानं प्रयत्नेन कर्त्तव्यं सुप्रयत्नतः ॥५५॥फलानि च सुवर्णानि देयानि च विशेषतः ॥५६॥कृष्णपक्षे चतुर्दश्यां स्नानं बहुफलप्रदम् ॥श्रद्धया परया युक्तैः कर्त्तव्यं श्रद्धयाधिकम् ॥५७॥माघे कृष्णचतुर्दश्यां यात्रा सांवत्सरी भवेत् ॥तत्र स्नानं पितॄणान्तु तर्पणं च विशेषतः ॥५८॥आब्रह्मस्तम्बपर्यंतं जगत्तृप्यत्विति ब्रुवन् ॥अपसव्येन विधिवत्तर्प्पयेदंजलित्रयम् ॥५९॥एवं कुर्वन्नरो यक्ष न मुह्यति कदाचन ॥अत्र स्नातो दिवं याति अत्र स्नातः सुखी भवेत् ॥६०॥अत्र स्नातेन ते यक्ष कर्त्तव्यं पूजनं पुरः ॥त्वत्पूजनेन विधिवन्नृणां पापक्षयो भवेत् ॥६१॥नमः प्रमथराजेति पूजामन्त्र उदाहृतः ॥तीर्थमध्ये प्रकर्त्तव्यं पूजनं श्रवणादिकम् ॥६२॥निधिलक्ष्म्यो तथा यक्ष तव पूजा विशेषतः ॥एवं यः कुरुते धीरः सर्वान्कामानवाप्नुयात् ॥६३॥धनार्थी धनमाप्नोति पुत्रार्थी पुत्रमाप्नुयात् ॥मोक्षार्थी मोक्षमाप्नोति तत्किं न यदिहाप्यते ॥६४॥यस्तु मोहान्नरो यक्ष स्नानं न कुरुते किल ॥तस्य सांवत्सरं पुण्यं त्वं ग्रहीष्यसि सर्वशः ॥६५॥इति दत्त्वा वरांस्तस्मै विश्वामित्रो मुनीश्वरः॥अन्तर्दधे मुनिवरस्तदा स च तपोनिधिः ॥६६॥तदाप्रभृति तत्स्थानं परमां ख्यातिमाययौ ॥तस्य तीर्थस्य सकला भूमिः स्वर्णविनिर्मिता ॥६७॥दिव्यरत्नौघखचिता समंतादुपशोभिता ॥एवं यः कुरुते विद्वन्स याति परमां गतिम् ॥६८॥धनयक्षादुत्तरस्मिन्दिग्भागे संस्थितं द्विज ॥वसिष्ठकुण्डं विख्यातं सर्वपापापहं सदा ॥६९॥वसिष्ठस्य सदा तत्र निवासः सुतपोनिधेः ॥अरुन्धती सदा यस्य वर्तते निर्मलव्रता ॥७०॥अत्र स्नानं विशेषेण श्राद्धपूर्वमतंद्रितः ॥यः कुर्यात्प्रयतो धीमांस्तस्य पुण्यमनुत्तमम् ॥७१॥वामदेवस्य तत्रैव संनिधिर्वर्ततेऽनघ ॥वशिष्ठवामदेवौ तु पूजनीयौ प्रयत्नतः ॥७२॥पतिव्रता पूजनीयाऽरुन्धती च विशेषतः ॥स्नातव्यं विधिना सम्यग्दातव्यं च स्वशक्तितः ॥७३॥सर्वकामफलप्राप्तिर्जायते नात्र संशयः ॥अत्र यः कुरुते स्नानं स वशिष्ठसमो भवेत् ॥७४॥भाद्रे मासि सिते पक्षे पंचम्यां नियतव्रतः ॥तस्य सांवत्सरी यात्रा कर्त्तव्या विधिपूर्विका ॥७५॥विष्णुपूजा प्रयत्नेन कर्तव्या श्रद्धयात्र वै ॥सर्वपापविशुद्धात्मा विष्णुलोके महीयते ॥७६॥वसिष्ठकुण्डाद्विप्रेंद्र प्रत्यग्दिग्दलमाश्रितम् ॥विख्यातं सागरं कुण्डं सर्वकामार्थसिद्धिदम् ॥यत्र स्नानेन दानेन सर्वकामानवाप्नुयात् ॥७७॥पौर्णमास्यां समुद्रस्य स्नानाद्यत्पुण्यमाप्नुयात् ॥तत्पुण्यं पर्वणि स्नातो नरश्चाक्षयमाप्नुयात् ॥७८॥तस्मादत्र विधानेन स्नातव्यं पुत्रकांक्षया ॥आश्विने पौर्णमास्यां तु विशेषात्स्नानमाचरेत् ॥७९॥एवं कुर्वन्नरो विद्वान्सर्वपापैः प्रमुच्यते ॥अत्र स्नात्वा नरो दत्त्वा यथाशक्त्या दिवं व्रजेत् ॥८०॥सागरान्नैर्ऋते भागे योगिनीकुण्डमुत्तमम् ॥यत्राऽऽसते चतुःषष्टियोगिन्यो जलसंस्थिताः ॥८१॥सर्वार्थसिद्धिदाः पुंसां स्त्रीणां चैव विशेषतः ॥परसिद्धिप्रदाः सर्वाः सर्वकामफलप्रदाः ॥८२॥आश्विने शुक्लपक्षस्य अष्टम्यां च विशेषतः ॥स्नातव्यं च प्रयत्नेन योगिनीप्रीतये नृभिः ॥८३॥अत्र स्नानं तथा दानं सर्वं सफलतां व्रजेत् ॥यक्षिणीप्रभृतयः सिद्धा भवंत्यत्र न संशयः ॥८४॥योगिनीकुंडतः पूर्वमुर्वशीकुण्डमुत्तमम् ॥यत्र स्नातो नरो विद्वन्नुर्वशीं दिवि संश्रयेत् ॥८५॥पुरा किल मुनिर्धीरो रैभ्यो नाम तपोधनः ॥चचार हिमवत्पार्श्वे निराहारो जितेन्द्रियः ॥८६॥तत्तपो विपुलं दृष्ट्वा भीतः सुरपतिस्ततः ॥उर्वशीं प्रेषयामास तपोविघ्नाय चादरात् ॥८७॥ततः सा प्रेषिता तेनाजगाम गजगामिनी ॥उवास हिमवत्पार्श्वे रैभ्याश्रममनुत्तमम् ॥८८॥वनफुल्ललताकुञ्जे मञ्जुकूजद्विहंगमे ॥किन्नरीकेलिसंगीतस्तिमितांगकुरंगके ॥८९॥पुन्नागकेशराशोकच्छिन्नकिजल्कपिंजरे ॥कल्पिते कांचनगिरौ द्वितीय इव वेधसा ॥९०॥सा बभौ कांतिसर्वस्वकोशः कुसुमधन्वनः ॥उर्वश्यनल्पसामान्यलावण्यामृतवाहिनी ॥९१॥अंगप्रभासुवर्णेन सितमौक्तिकशोभिता ॥तारुण्यरुचिरत्वेन तारुण्येन विभूषिता ॥९२॥विलोमलोचनापांगतरंगधवलत्विषा ॥नवपल्लवसच्छायं कल्पयन्ती निजाधरम् ॥९३॥कर्णोपलम्बिसंघुष्यद्भृङ्गाढ्यचूतमञ्जरी ॥सुधागर्भसमुद्भूता पारिजातलता यथा ॥९४॥तनुमध्या पृथुश्रोणिर्वर्णोद्भिन्नपयोधरा ॥निःशाणितशरस्येव शक्तिः कुसुमधन्वनः ॥९५॥अपश्यदाश्रमे तस्मिन्मुनिरायतलोचनाम् ॥नयनानलदाहेन विदग्धेन मनोभुवा ॥९६॥त्रिनेत्रवंचनायैव कल्पितां ललनातनुम् ॥तामाश्रमलतापुष्पकांचीरचितकुण्डलाम् ॥९७॥विलोक्य तां विशालाक्षीं मुनिर्व्याकुलितेन्द्रियः ॥बभूव रोषसंतप्तः शशाप च बहु ज्वलन् ॥९८॥॥ रैभ्य उवाच ॥कुरूपतां व्रज क्षिप्रं या त्वं सौंदर्यगर्विता ॥समागता तपोविघ्नहेतवे मम सन्निधौ ॥९९॥॥ अगस्त्य उवाच ॥इति शप्ता रुषा तेन मुनिना सा शुभेक्षणा ॥उवाच वनिता भूत्वा प्रांजलिर्मुनिमादरात् ॥१००॥॥ उर्वश्युवाच ॥भगवन्मे प्रसीद त्वं पराधीना यतस्त्वहम् ॥त्वच्छापस्य कथं मुक्तिर्भविता नियतव्रत ॥१०१॥॥ रैभ्य उवाच ॥अयोध्यायामस्ति तीर्थं पावनं परमं महत् ॥तत्र स्नानं कुरुष्वाद्य सौंदर्यं परमाप्नुहि ॥१०२॥त्वन्नाम्नैव च विख्यातिं तोयं यास्यति तद्ध्रुवम् ॥१०३॥॥ अगस्त्य उवाच ॥एवं सा विप्रवचसा विदधे सर्वमादरात् ॥सुन्दरी साऽभवत्क्षिप्रं तत्स्थानं ख्यातिमाययौ ॥१०४॥अत्र स्नानं मुनिश्रेष्ठ यः कुर्याद्विधिवज्जनः ॥सौंदर्यं परमं तस्य भवेत्तत्र न संशयः ॥१०५॥भाद्रे शुक्लतृतीयायां यात्रा सांवत्सरी भवेत् ॥विष्णुरत्र जनैः पूज्यः सर्वकामार्थसिद्धये ॥१०६॥एवं कुर्वन्नरो विद्वान्विष्णुलोके वसेत्सदा ॥नरो वा यदि वा नारी सर्वान्कामानवाप्नुयात् ॥१०७॥घोषार्ककुंडं परममुर्वशीकुंडदक्षिणे ॥वर्तते मुनिशार्दूल सर्वपापापहं सदा ॥१०८॥यत्र स्नानेन दानेन सूर्यलोके महीयते ॥एतत्तीर्थस्य सदृशं नापरं विद्यते क्वचित् ॥१०९॥व्रणी कुष्ठी दरिद्री वा दुःखाक्रांतोऽपि यो नरः ॥करोति विधिवत्स्नानं सर्वान्कामानवाप्नुयात् ॥११०॥रविवारे विशेषेण कर्त्तव्यं स्नानमादरात् ॥भाद्रे मासि तथा माघे शुक्लषष्ठ्यां प्रयत्नतः ॥१११॥कर्त्तव्यं विधिवत्स्नानं सूर्यलोकाभिकांक्षया ॥पौषे मासि तथा स्नानं सूर्यवारे विशेषतः ॥११२॥सप्तम्यां रवियुक्तायां स्नानं बहुफलप्रदम् ॥घोषाभिधोऽभवत्पूर्वं सूर्यवंशे नरेश्वरः ॥११३॥समुद्रमेखलामेकः पृथिवीं समपालयत् ॥यस्य कीर्त्या प्रकाशंते त्रिलोकीमंडलानि वै ॥११४॥यः प्रतापात्स्फुरन्भाति प्रभाकर इवापरः ॥प्रचंडतरदोर्दंडखंडितारातिमंडलः ॥११५॥स कदाचित्प्रजापालो मंत्त्रिविन्यस्तभूतलः ॥बभ्राम मृगयासक्तो वनेऽतिगहनद्रुमे ॥११६॥स राजा पूर्वजन्मोत्थपापैरशुभसूचकैः ॥कृमिव्याप्तकरांभोजः सुन्दरोपि गतस्मयः ॥११७॥मृगयायामभूदेकः कदाचित्पर्यटन्वने ॥वराहसिंहहरिणान्निघ्नन्गच्छन्नितस्ततः ॥११८॥तृषाक्रान्तो म्लानतनुः सरोऽपश्यत्पुरो नृपः ॥ददर्श तत्र च मुनीन्स्नानसंध्यादितत्परान् ॥११९॥ततो विधिवदाचम्य स्नानं चक्रे नरेश्वरः ॥ततो दिव्यशरीरोऽभूदानंदामलमानसः ॥१२०॥मुनिभिस्तीर्थमाज्ञाय चक्रे सूर्य्यस्तुतिं प्रियाम् ॥१२१॥॥ राजोवाच ॥भगवन्देवदेवेश नमस्तुभ्यं चिदात्मने ॥नमः सवित्रे सूर्याय जगदानंददायिने ॥१२२॥प्रभागेहाय देवाय त्रयीभूताय ते नमः ॥विवस्वते नमस्तुभ्यं योगज्ञाय सदात्मने ॥१२३॥पराय परमेशाय त्रिलोकीतिमिरच्छिदे ॥अचिन्त्याय सदा तुभ्यं नमो भास्करतेजसे ॥१२४॥योगप्रियाय योगाय योगज्ञाय सदा नमः ॥ॐकाराय वषट्काररूपिणे ज्ञानरूपिणे ॥१२५॥यज्ञाय यज्ञमानाय हविषे ऋत्विजे नमः ॥रोगघ्नाय स्वरूपाय कमलानंददायिने ॥१२६॥अतिसौम्यातितीक्ष्णाय सुराणां पतये नमः ॥सत्राशाय नमस्तुभ्यं भक्तत्राय प्रियात्मने ॥१२७॥प्रकाशकाय सततं लोकानां हितकारिणे ॥प्रसीद प्रणतायाद्य मह्यं भक्तिकृते स्वयम् ॥१२८॥॥ अगस्त्य उवाच ॥इत्येवं ब्रुवतस्तस्य स प्रसन्नो रविः स्वयम् ॥आविर्बभूव सहसा भक्तस्य प्रियकाम्यया ॥उवाच मधुरं वाक्यं प्रश्रयानतमूर्द्धजम् ॥१२९॥॥ रविरुवाच ॥वरं वरय राजेंद्र प्रसन्नोऽस्मि तवाग्रतः ॥ददामि तद्वरं तेऽद्य यत्त्वया मनसेप्सितम् ॥१३०॥॥ राजोवाच ॥भगवन्भास्करानंत प्रयच्छसि वरं यदि ॥मन्नाम्ना कृतमूर्त्तिस्ते तिष्ठत्वत्र सदा विभो ॥१३१॥॥ रविरुवाच ॥एवमस्तु मनुष्येंद्र तव वांछा मनोहरा ॥एतत्स्तोत्रं त्वयोक्तं मे ये पठिष्यंति मानवाः ॥१३२॥तेभ्यस्तुष्टः प्रदास्यामि सर्वान्कामान्नरेश्वर ॥एतत्स्थानं परां ख्यातिं त्वन्नाम्ना यास्यति क्षितौ ॥१३३॥सर्वान्कामानवाप्नोति योऽत्र स्नानं समाचरेत्॥मद्भक्तेन सदा राजन्कर्त्तव्यं स्नानमत्र वै ॥१३४॥यंयं काममिहेच्छेत तंतं काममवाप्नुयात् ॥१३५॥॥ अगस्त्य उवाच ॥इति दत्त्वा वरं देवः कृपया परया युतः ॥भास्वान्सहस्रकिरणस्तदान्तर्द्धानमाययौ ॥१३६॥राजा भास्करदेहोत्थां रविमूर्त्तिमनुत्तमाम् ॥तत्र संस्थापयामास पूजयामास च स्वयम् ॥१३७॥घोषार्ककुण्डं तन्नाम्ना तत्र ख्यातिं जगाम ह ॥यत्र स्नानान्नरो राजन्सूर्य्यलोके वसेत्सदा ॥१३८॥इति रुचिरविधानैस्तूर्णमादित्यमूर्त्तिं विमलपरमभक्त्या पूजयित्वाऽऽदरेण ॥तदमृतमयकुण्डे स्नानमादौ विधाय प्रचुरविमलकीर्तिः सूर्यलोके वसेत्सः ॥१३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये बृहस्पतिकुण्डरुक्मिणीकुण्डधनयक्षतीर्थ वसिष्ठकुण्डसागरकुण्ड योगिनीकुण्डोर्वशीकुण्डघोषार्ककुंड माहात्म्यवर्णनंनाम सप्तमोऽध्यायः ॥७॥छ ॥ N/A References : N/A Last Updated : November 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP