संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|केदारखण्डः| अध्यायः १९ केदारखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ केदारखण्डः - अध्यायः १९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः १९ Translation - भाषांतर ॥ लोमश उवाच ॥एवं संबोधितो दैत्यो गुरुणा भार्गवेण हि ॥उवाच प्रहसन्वाक्यं मेघगंभीरया गिरा ॥१॥त्वयोक्तोहं हितार्थाय यैर्वाक्यैश्चालितोऽस्म्यहम् ॥तव वाक्यं मम प्रीत्यै हितमप्यहितं भवेत् ॥२॥दास्यामि भिक्षितं चास्मै विष्मवे बटुरूपिणे ॥पात्रीभूतो ह्ययं विष्णुः सर्वकर्मफलेश्वरः ॥३॥येषां हृदि स्थितो विष्णुस्ते वै पात्रतमा ध्रुवम् ॥यस्य नाम्ना सर्वमिदं पवित्रमिव चोच्यते ॥४॥येन वेदाश्च यज्ञाश्च मंत्रतंत्रादयो ह्यमी ॥सर्वे संपूर्णतां यांति सोऽयं विश्वेश्वरो हरिः ॥५॥आगतः कृपया मेद्य सर्वात्मा हरिरीश्वरः ॥उद्धर्तुं मां न संदेह एतज्जानीहि तत्त्वतः ॥६॥तस्य तद्वचनं श्रुत्वा चुकोप च रुषान्वितः ॥भार्गवः शप्तुमारेभे दैत्येंद्रं धर्म्मवत्सलम् ॥७॥मम वाक्यमतिक्रम्य दातुमिच्छस्यरिंदम ॥विगुणो भव रे मंद तस्मात्त्वं निःश्रिको भव ॥८॥एवं शशाप च तदा परमार्थविज्ञं शिष्यं महात्मानमगाधबोधम् ॥स वै जगामाथ महाकविस्त्वरात्स्वमाश्रमं धर्म्मविदां वरिष्ठः ॥९॥गते तु भार्गवे तस्मिन्बलिर्विरोचनात्मजः ॥वामनं चार्चयित्वा स महीं दातुं प्रचक्रमे ॥१०॥विंध्यावलिः समागत्य बलेरर्द्धांगशोभिता ॥अवनिज्य बटोः पादौ प्रददौ विष्णवे महीम् ॥११॥संकल्पपूर्वेण तदा विधिना विधिकोविदः ॥संकल्पेनैव महता ववृधे भगवानजः ॥१२॥यदैकेन मही व्याप्ता विष्णुना प्रभविष्णुना ॥सर्वे स्वर्गा द्वितीयेन व्याप्तास्तेन महात्मना ॥१३॥सत्यलोकगतो विष्णोश्चरणः परमेष्ठिना ॥कमण्डलुगतेनैव अंभसा चावनेनिजे ॥१४॥तत्पादसंपर्कजलाच्च जाता भागीरथी सर्वसुमंगला च ॥यया त्रिलोकी च कृता पवित्रा यया च सर्वे सगराः समुद्धृताः ॥यया कपर्दः परिपूरितो वै शंभोस्तदानीं च भगीरथेन ॥१५॥तीर्थानां तीर्थमाद्यं च गंगाख्यमवतारितम् ॥तद्विष्णोश्चरणेनैव समेतं ब्रह्मणा कृतम् ॥१६॥त्रिविक्रमात्परो ह्यात्मा नाम्ना त्रिविक्रमोऽभवत् ॥त्रिविक्रमक्रमाक्रांतं त्रैलोक्यं च तदाऽभवत् ॥१७॥पदद्वयेन वा पूर्णं जगदेतच्चराचरम् ॥विहाय तत्स्वरूपं च देवदेवो जनार्द्दनः ॥पुनश्च बटुरूपोऽसावुपविश्य निजासने ॥१८॥तदा देवाः सगंधर्वा मुनयः सिद्धचारणाः ॥आगताश्च बलेर्यज्ञं द्रष्टुं यज्ञपतिं प्रभुम् ॥१९॥तत्र ब्रह्मा समागत्य स्तुतिं चक्रे परात्मनः ॥बलेस्तत्रैव चान्येन च दैत्येंद्राश्चागतास्त्वरम् ॥२०॥एभिः सर्वैः परिवृतो वामनो बलिसद्मनि ॥उपविश्यासने सोऽथ उवाच गरुडं प्रति ॥२१॥दैत्योऽसौ बालिशो भूत्वा दत्तानेन मही मम ॥त्रिपदक्रमणेनैव गृहीतं च पदद्वयम् ॥२२॥पदमेकं प्रतिश्रुत्य न ददाति हि दुर्मतिः ॥तस्मात्त्वया गृहीतव्यं तृतीयं पदमेव च ॥२३॥इत्युक्तो गरुडस्तेन वामनेन महात्मना ॥वैरोचनिं विनिर्भर्त्स्य वाक्यं चेदमुवाच ह ॥२४॥रे बले किं त्वया मूढ कृतमस्ति जुगुप्सितम् ॥अविद्यमाने ह्यर्थे हि किं ददासि परमात्मने ॥औदार्येण हि किं कार्यमल्पकेन त्वयाधुना ॥२५॥इत्युक्तो बलिराविष्टः स्यमानः खगेश्वरम् ॥वक्ष्यमाणमिदं वाक्यं गरुत्मन्तं तदाऽब्रवीत् ॥२६॥समर्थोस्मि महापक्ष गृपणो न भवाम्यहम् ॥येनेदं कारितं सर्वं तस्मै किं प्रददाम्यहम् ॥२७॥असमर्थो ह्यहं तात कृतोऽनेन महात्मना ॥तदोवाच बलिं सोऽपि तार्क्ष्यपुत्रो महामनाः ॥२८॥जानन्नपि च दैत्येंद्र गुरुणापि निवारितः ॥विष्णवेऽपि महीं प्रादास्त्वया किं विस्मृतं महत् ॥२९॥दातव्यं तत्पदं विष्णोस्तृतीयं यत्प्रतिश्रुतम् ॥न ददासि कथं वीर निरयेच पतिष्यसि ॥३०॥न ददासि तृतीयं च पदं मे स्वामिनः कथम् ॥बलाद्गृह्णामि रे मूढ इत्युक्त्वा तं महासुरम् ॥बबंध वारुणैः पाशैर्विरोचन सुतं तदा ॥३१॥नितरां निष्ठुरो भूत्वा गरुडो जयतां वरः ॥बद्धं स्वपतिमालोक्य विंध्यावलिः समभ्ययात् ॥३२॥बाणमेकं समारोप्य वामनस्याग्रतः स्थिता ॥वामनेन तदा पृष्टा केयं चात्राग्रतः स्थिता ॥३३॥तदोवाच महातेजाः प्रह्लादो ह्यसुराधिपः ॥बलेः पत्नीति त्वां प्राप्ता इयं विंध्यावली सती ॥३४॥प्रह्लादस्य वचः श्रुत्वा वामनो वाक्यमब्रवीत् ॥ब्रूहि विंध्यावले वाक्यं किं कार्यं ते करोम्यहम् ॥एवमुक्ता भगवता विंध्यावलिरभाषत ॥३५॥ ॥विन्ध्यावलिरुवाच ॥कस्माद्बद्धो मम पतिर्गरुडेन महात्मना ॥तत्कथ्यतां महाभाग त्वरन्नेव जनार्द्दन ॥तदोवाच महातेजा बटुवेषधरो हिः ॥३६॥ ॥श्रीभगवानुवाच ॥अनेनैव प्रदत्ता मे मही त्रिपदलक्षणा ॥पदद्वयेन च मयाक्रांतं त्रैलोक्यमद्य वै ॥३७॥अनेन मम दातव्यं तृतीयं पदमेव च ॥तस्माद्बद्धो मया साध्वि गरुडेनैव ते पतिः ॥३८॥श्रुत्वा भगवतो वाक्यमुवाच परमं वचः ॥प्रतिश्रुतमनेनैव न दत्तं हि तव प्रभो ॥३९॥क्रांतं त्रिभुवनं चाद्य त्वया विक्रमरूपिणा ॥तदस्माकं विजघ्नीथाः स्वर्गे वाप्यथवा भुवि ॥४०॥किंचिन्न दत्ता हि विभो देवदेव जगत्पते ॥प्रहस्य भगवानाह तदा विंध्यावलिं प्रभुः ॥४१॥पदानि त्रीणि मे चाद्य दातव्यानि कुतोऽधुना ॥शीघ्रं वद विशालाक्षि यत्ते मनसि वर्त्तते ॥तदोवाच च सा साध्वी ह्युरुक्रममवस्थिता ॥४२॥त्वया कुतो वेयमुरुक्रमेण क्रांता त्रिलोकी भुवनैकनाथ ॥तथैव सर्वं जगदेकबंधो देयं किस्माभिरतुल्यरूपिणे ॥४३॥तस्माद्विहाय तद्विष्णो त्वमेवं कुरु संप्रति ॥प्रति श्रुतानि मे भर्त्रा पदानि त्रीणि चाधुना ॥ददाति मे पतिस्तेद्य नात्र कार्या विचारणा ॥४४॥निधेहि मे पदं त्वं हि शीर्ष्णि देववर प्रभो ॥द्वितीयं मे शिशोस्त्वं हि कुरु मूर्ध्नि जगत्पते ॥४५॥तृतीयं च जगन्नाथ कुरु शीर्ष्णि पतेर्मम ॥एवं त्रीणि पदानीश तव दास्यामि केशव ॥४६॥तस्यास्तद्वचनं श्रुत्वा परितुष्टो जनार्दनः ॥उवाच श्लक्ष्णया वाचा विरोचनसुतं प्रति ॥४७॥ ॥भगवानुवाच ॥सुतलंगच्छ दैत्येन्द्र मा विलंबितुमर्हसि ॥सर्वैश्चासुरसंघैश्च चिरं जीव सुखी भव ॥४८॥परितुष्टोऽस्म्यहं तात किं कार्यं करवाणि ते ॥सर्वेषामपि दातॄणां वरिष्ठोऽसि महामते ॥४९॥वरं वरय भद्रं ते सर्वान्कामान्ददामि ते ॥त्रिविक्रमेणैवमुक्तो विरोचनसुतस्तदा ॥५०॥विमुक्तो हि परिष्वक्तो देवदेवेन चक्रिणा ॥तदा बलिरुवाचेदं वाक्यं वाक्यविशारदः ॥५१॥त्वया कृतमिदं सर्वं जगदेतच्चराचरम् ॥तस्मान्न कामये किंचित्त्वत्पदाब्जं विना प्रभो ॥५२॥भक्तिरस्तु पदांभोजे तव देव जनार्दन ॥भूयोभूयश्च देवेश भक्तिर्भवतु शाश्वती ॥५३॥एवमभ्यर्थितस्तेन भगवान्भूतभावनः ॥उवाच परमप्रीतो विरोचनसुतं तदा ॥५४॥ ॥भगवानुवाच ॥बले त्वं सुतलं याहि ज्ञातिसंबंधिभिर्वृतः ॥एवमुक्तस्तदा तेन असुरो वाक्यब्रवीत् ॥५५॥सुतले किं नु मे कार्यं देवदेव वदस्व मे ॥तिष्ठामि तव सांनिध्ये नान्यथा वक्तुमर्हसि ॥५६॥तदोवाच हृषीकेशो बलिं तं कृपयाऽन्विततः ॥अहं तव समीपस्थो भवामि सततं नृप ॥५७॥द्वारि स्थितस्तव विभो निवासामि नित्यं मा खिद्यतामसुरवर्य बले श्रृणुष्व ॥वाक्यं तु मे वर महो वरदस्तवाद्य वैकुंठवासिभिपलं च भजामि गेहम् ॥५८॥तच्छ्रुत्वा वचनं तस्य विष्मोरतुलतेजसः ॥जगाम सुतलं दैत्यौ ह्यसुरैः परिवारितः ॥५९॥तदा पुत्रशतेनैव बाणमुख्येन सत्वरम् ॥वसमानो महाबाहुर्दातॄणां च परा गतिः ॥६०॥त्रैलोक्ये याचका ये च सर्वे यांति बलिं प्रति ॥द्वारि स्थितस्तस्य विष्णुः प्रयच्छति यथेप्सितम् ॥६१॥भुक्तिकामाश्च ये केचिन्मुक्तिकामास्तथा परे ॥येषां यज्ञे च ते विप्रास्तत्तेभ्यः संप्रयच्छति ॥६२॥एवंविधो बलिर्जातः प्रसादाच्छंकरस्य च ॥पुरा हि कितवत्वेन यद्दत्तं परमात्मने ॥६३॥अशुचिं भूमिमासाद्य गंधपुष्पादिकं महत् ॥पतितं चार्प्पितं तेन शिवाय परमात्मने ॥६४॥किं पुनः परया भक्त्या चार्चयंति महेश्वरम् ॥पुष्पं फलं तोयं ते यांति शिवसन्निधिम् ॥६५॥शिवात्परतरो नास्ति पूजनीयो हि भो द्विजाः ॥ये हि मूकास्तथांधाश्च पंगवो ये जडास्तथा ॥६६॥जातिहीनाश्च चंडालाः श्वपचा ह्यंत्यजा ह्यमी ॥शिवभक्तिपरा नित्यं ते यांति परमां गतिम् ॥६७॥तस्मात्सदाशिवः पूज्यः सर्वैरेवमनीषिभिः ॥पूजनीयो हि संपूज्यो ह्यर्चनीयः सदाशिवः ॥६८॥महेशं परमारथज्ञाश्चिंतयंति हृदि स्थितम् ॥यत्र जीवो भवत्येव शिवस्तत्रैव तिष्ठति ॥६९॥विना शिवेन यत्किंचिदशिवं भवति क्षणात् ॥ब्रह्मा विष्णुश्च रुद्रश्च गुणकार्यकरा ह्यमी ॥७०॥रजोगुणान्वितो ब्रह्मा विष्णुः सत्त्वगुणान्वितः ॥तमोगुणाश्रितो रुद्रो गुणातीतो महेश्वरः ॥७१॥लिंगरूपो महादेवो ह्यर्चनीयो मुमुक्षुभिः ॥शिवात्परतरो नास्ति भुक्तिमुक्तिप्रदायकः ॥७२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे बलये वरप्रदानवर्णनंनामैकोविंशोऽध्यायः ॥१९॥ N/A References : N/A Last Updated : July 19, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP