संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|केदारखण्डः| अध्यायः १५ केदारखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ केदारखण्डः - अध्यायः १५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः १५ Translation - भाषांतर ॥ ऋषय ऊचुः ॥राज्यं प्राप्तो हि देवेंद्रः कथितस्ते गुरुं विना ॥गुरोरवज्ञया जातो राज्यभ्रंशो हि तस्य तु ॥१॥केन प्रणोदितश्चेंद्रो बभूव चिरमासने ॥तत्सर्वं कथयाशु त्वं परं कौतूहलं हि नः ॥२॥ ॥लोमश उवाच ॥गुरुणापि विना राज्यं कृतवान्स शचीपतिः ॥विश्वरूपोक्तविधिना इंद्रो राज्ये स्थितो महान् ॥३॥विश्वकर्मसुतो विप्रा विश्वरूपो महानृपः ॥पुरोहितोऽथ शक्रस्य याजकश्चाभवत्तदा ॥४॥तस्मिन्यज्ञेऽवदानैश्च यजने असुरान्सुरान् ॥मनुष्यांश्चैव त्रिशिरा अपरोक्षं शचीपतेः ॥५॥देवान्ददाति साक्रोशं दैत्यांस्तूष्णीमथाददात् ॥मनुष्यान्मध्यपातेन प्रत्यहं स ग्रहान्द्विजः ॥६॥एकदा तु महेंद्रेण सूचितो गुरुलाघवात् ॥अलक्ष्यमाणेन तदा ज्ञातं तस्य चिकीर्षितम् ॥७॥दैत्यानां कार्यसिद्ध्यर्थमवदानं प्रयच्छति ॥असौ पुरोहितोऽस्माकं परेषां च फलप्रदः ॥८॥इति मत्वा तदा शक्रो वज्रेण शतपर्वणा ॥चिच्छेद तच्छिरांस्येव तत्क्षणादभवद्वधः ॥९॥येनाकरोत्सोमपानमजायंत कपिंजलाः ॥ततोन्येन सुरापानात्कलविंका भवन्मुखात् ॥१०॥अन्याननादजायंत तित्तिरा विश्वरूपिणः ॥एवं हतो विश्वरूपः शक्रेण मंदभागिना ॥११॥ब्रह्महत्या तदोद्भूता दुर्धर्षा च भयावहा ॥दुर्धर्षा दुर्मुखा दुष्टा चण्डालरजसान्विता ॥१२॥ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥इत्येषामप्यघवतामिदमेव च निष्कृतिः ॥१३॥नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥त्रिशिरा धूम्रहस्ता सा शक्रं ग्रस्तुमुपाययौ ॥१४॥ततो भयेन महता पलायनपरोऽभवत् ॥पलायमानं तं दृष्ट्वा ह्यनुयाता भयावहा ॥१५॥यतो धावति साऽधावत्तिष्ठंतमनुतिष्ठति ॥अंगकृता यथा छाया शक्रस्यपरिवेष्टितुम् ॥आयाति तावत्सहसा इंद्रोऽप्यप्सु न्यमज्जत ॥१६॥शीघ्रत्वेन यथा विप्राश्चिरंतनजलेचरः ॥१७॥एवं दिव्यशतं पूर्णं वर्षाणां च शचीपतेः ॥वसतस्तस्य दुःखेन तथा चैव शतद्वयम् ॥अराजकं तदा जातं नाकपृष्ठे भयावहम् ॥१८॥तदा चिंतान्विता देवा ऋषयोऽपि तपस्विनः ॥त्रैलोक्यं चाऽऽपदा ग्रस्तं बभूव च तदा द्विजाः ॥१९॥एकोऽपि ब्रह्महा यत्र राष्ट्रे वसति निर्भयः ॥अकालमरणं तत्र साधूनामुपजायते ॥२०॥राजा पापयुतो यस्मिन्राष्ट्रे वसति तत्र वै ॥दुर्भिक्षं चैव मरणं तथैवोपद्रवा द्विजाः ॥२१॥भवंति बहवोऽनर्थाः प्रजानां नाशहेतवे ॥तस्माद्राज्ञा तु कर्तव्यो धर्म्मः श्रद्धापरेण हि ॥२२॥तथा प्रकृतयो राज्ञः शुचजित्वेन प्रतिष्ठिताः ॥इन्द्रेण च कृतं पापं तेन पापेन वै द्विजाः ॥नानाविधैर्महातापैः सोपद्रवमभूज्जगत् ॥२३॥ ॥शौनक उवाच ॥अश्वमेधशतेनैव प्राप्तं राज्यं महत्तरम् ॥देवानामखिलं सूत कस्माद्विघ्रमजायत ॥शक्रस्य च महाभाग यथावत्कथयस्व न ॥२४॥ ॥सूत उवाच ॥देवानां दानवानां च मनुष्याणां विशेषतः ॥कर्म्मैव सुखदुःखानां हेतुभूतं न संशयः ॥२५॥इन्द्रेण च कृतं विप्रा महद्भूतं जुगुप्सितम् ॥गुरोरवज्ञा च कृता विश्वरूपवधः कृतः ॥२६॥गौतमस्य गुरोः पत्नी सेविता तस्य तत्फलम् ॥प्राप्तं महेंद्रेण चिरं यस्य नास्ति प्रतिक्रिया ॥२७॥ये हि दृष्कटतकर्म्माणो न कुर्वंति च निष्कृतिम् ॥दुर्दशां प्रप्नुवन्त्येते यथैवेन्द्रः शतक्रतुः ॥२८॥दुष्कृतोपार्जितस्या तः प्रायाश्चित्तं हि तत्क्षणात् ॥कर्तव्यं विधिवद्विप्राः सर्वपापोपशांतये ॥२९॥उपपातकमध्यस्तं महापातकतां व्रजेत् ॥३०॥ततः स्वधर्मनिष्ठां च ये कुर्वंति सदा नराः ॥प्रातर्मध्याह्नसायाह्ने तेषां पापं विनश्यति ॥३१॥प्राप्नुवंत्युत्तमं लोकं नात्र कार्या विचारणा ॥तस्मादसौ दुराचारः प्राप्ते वै कर्मणः फलम् ॥३२॥स प्रधार्य तदा सर्वे लोकपालास्त्वरान्विताः ॥बृहस्पतिमुपागम्य सर्वमात्मनि धिष्ठितम् ॥कथयामासुरव्यग्रा इंद्रस्य च गुरुं प्रति ॥३३॥देवैरुक्तं वचो विप्रा निशम्य च बृहस्पतिः ॥अराजकं च संप्राप्तं चिंतयामास बुद्धिमान् ॥३४॥किं कार्यं चाद्य कर्तव्यं कथं श्रेयो भविष्यति ॥देवानां चाद्य लोकानामृषीणां भावितात्मनाम् ॥३५॥मनसैव च तत्सर्वं कार्याकार्यं विचार्य च ॥जगाम शक्रं त्वरितो देवैः सह महायशाः ॥३६॥प्राप्तो जलाशयं तं च यत्रास्ते हि पुरंदरः ॥यस्य तीरे स्थिता हत्या चंडालीव भयावहा ॥३७॥तत्रोविष्टास्ते सर्वे देवा ऋषिगणान्विताः ॥आह्वानं च कृतं तस्य शक्रस्य गुरुणा स्वयम् ॥३८॥समुत्थितस्ततः शक्रो ददर्श स्वगुरुं तदा ॥बाष्पपूरितवक्त्रो हि बृहस्पतिमभाषत ॥३९॥प्रणिपत्य च तत्रत्यान्कृताञ्जलिरभाषत ॥तदा दीनमुखो भूत्वा मनसा संविमृश्य च ॥४०॥स्वयमेव कृतं पूर्वमज्ञानलक्षणं महत् ॥अधुनैव मया कार्यं किं कर्तव्यं वद प्रभो ॥४१॥प्रहस्योवाच भगवान्बृहस्पति रुदारधीः ॥पुरा त्वया कृतं यच्च तस्येदं कर्मणः फलम् ॥४२॥मां च उद्दिश्य भो इंद्र तद्भोगादेव संक्षयः ॥प्रायश्चितं हि हत्याया न दृष्टं स्मृतिकारिभिः ॥४३॥अज्ञानतो हि यज्जातं पापं तस्य प्रतिक्रिया ॥कथिता धर्म्मशास्त्रज्ञैः सकामस्य न विद्यते ॥४४॥सकामेन कृतं पापमकामं नैव जायते ॥ताभ्यां विषयभेदेन प्रायश्चित्तं विधीयते ॥४५॥मरणांतो विधिः कार्यो कामेन हि कृतेन हि ॥अज्ञानजनिते पापे प्रायश्चित्तं विधीयते ॥४६॥तस्मात्त्वया कृतं यच्च स्वयमेव हतो द्विजः ॥पुरोहितश्च विद्वांश्च तस्मान्नास्ति प्रतिक्रिया ॥४७॥यावन्मरणमप्येति तावदप्सु स्थिरो भव ॥४८॥शताश्वमेधसंज्ञं च यत्फलं तव दुर्मते ॥तन्नष्टं तत्क्षणादेव घातितो हि द्विजो यदा ॥४९॥सच्छिद्रे च यथा तोयं न तिष्ठति घटेऽण्वपि ॥तथैव सुकृतं पापे हीयते च प्रदक्षिणम् ॥५०॥तस्माच्च दैवसंयोगात्प्राप्तं स्वर्गादिकं च यैः ॥यथोक्तं तद्भवेत्तेषां धर्मिष्ठानां न संशयः ॥५१॥एतच्छ्रुत्वा वचस्तस्य शक्रो वचनमब्रवीत् ॥कुकर्मणा मदीयेन प्राप्तमेतन्न संशयः ॥५२॥अमरावती माशु त्वं गच्छ देवर्षिबिः सह ॥लोकानां कार्यसिद्ध्यर्थे देवानां च बृहस्पते ॥इंद्रं कुरु महाभाग यस्ते मनसि रोचते ॥५३॥यथा मृतस्तथा हं वै ब्रह्महत्यावृतो महान् ॥रागद्वेषसमुत्थेन पापेनास्मि परिप्लुतः ॥५४॥तस्मात्त्वरान्विता यूयं देवराजानमाशुः वै ॥कुर्वतु मदनुज्ञाताः सत्यं प्रतिवदामि वः ॥५५॥एवमुक्तास्तदा सर्वे बृहस्पतिपुरोगमाः ॥एत्यामरावतीं तूर्णं पुरंदरविचेष्टितम् ॥कथयामासुरव्यग्रा शचीं प्रति यथा तथा ॥५६॥राज्यस्य हेतोः किं कार्यं विमृशंतः परस्परम् ॥५७॥एवं विमृश्यमानानां देवानां तत्र नारदः ॥यदृच्छयागतस्तत्र देवर्षिरमितद्युतिः ॥५८॥उवाच पूजितो देवान्कस्माद्यूयं विचेतसः ॥तेनोक्ताः कथयामासुः सर्वं शक्रस्य चेष्टितम् ॥५९॥गतमिंद्रस्य चेंद्रत्वमेनसा परमेण तु ॥ततः प्रोवाच तान्देवान्देवर्षिर्नारदो वचः ॥६०॥यूयं देवाश्च सर्वज्ञास्तपसा विक्रमेण च ॥तस्मादिंद्रो हि कर्तव्यो नहुषः सोमवंशजः ॥६१॥सोऽस्मिन्राष्ट्रे प्रतिष्ठाप्यस्त्वरितेनैव निर्जराः ॥एकोनमश्वमेधानां शतं तेन महात्मना ॥कृतमस्ति महाभागा नहुषेण च यज्वना ॥६२॥शच्या श्रुतं च तद्वाक्यं नारदस्य मुखोद्गतम् ॥गतांतःपुरमव्यग्रा बाष्पपूरितलोचना ॥६३॥नारदस्य वचः श्रुत्वा सर्वे देवान्वमोदयन् ॥६४॥नहुषं राज्यमारोढुमैकपद्येन ते यदा ॥आनीतो हि तदा राजा नहुषो ह्यमरावतीम् ॥६५॥राज्यं दत्तं महेंद्रस्य सुरैः सर्वैर्महर्षिभिः ॥तदागस्त्यादयः सर्वे नहुषं पर्युपासत ॥६६॥गंधर्वाप्सरसो यक्षा विद्याधरमहोरगाः ॥यक्षाः सुपर्णाः पतगा ये चान्ये स्वर्गवासिनः ॥६७॥तदा महोत्सवो जातो देवपुर्यां निरंतरः ॥शंखतूर्यमृदंगानि नेदुर्दुंदुभयः समम् ॥६८॥गायकाश्च जगुस्तत्र तथा वाद्यानि वादकाः ॥नर्तका ननृतुस्तत्र तथा राज्यमहोत्सवे ॥६९॥अभिषिक्तस्तदा तत्र बृहस्पतिपुरोगमैः ॥७०॥अर्चितो देवसूक्तैश्च यथा वद्ग्रहपूजनम् ॥कृतवांश्चैव ऋषिभिर्विद्वद्भिर्भावितात्मभिः ॥७१॥तथा च सर्वैः परिपूजितो महान्राजा सुराणां नहुषस्तदानीम् ॥इंद्रासने चेंद् समानरूपः संस्तूयमानः परमेण वर्चसा ॥७२॥सुगंधदीपैश्च सुवाससा युतोऽलंकारभोगैः सुविराजितांगः ॥बभौ तदानीं नहुषो मुनीद्रैः संस्तूयमानो हि तथाऽमरेंद्रैः ॥७३॥इति परमकलान्वितोऽसौ सुरमुनिवरगणैश्च पूज्यमानः ॥नहुषनृपवरोऽभवत्तदानीं हृदि महता हृच्छयेनतप्तः ॥७४॥ ॥नहुष उवाच ॥इंद्राणी कथमद्यैव नायाति मम सन्निधौ ॥तां चाह्वयत शीघ्रं भो मा विलंबितुमर्हथ ॥७५॥नहुपस्य वचः श्रुत्वा बृहस्पतिरुदारधीः ॥शचीभवनमासाद्य उवाच च सविस्तरम् ॥७६॥शक्रस्य दुर्निमित्तेन ह्यनीतो नहुषोऽत्र वै ॥राज्यार्ते भामिनि त्वं च अर्द्धासनगता भव ॥७७॥शची प्रहस्य चोवाच बृहस्पतिमकल्मषम् ॥असौ न परिपूर्णो हि यज्ञैः शक्रासने स्थितः ॥एकोनमश्वमेधानां शतं कृतमनेन वै ॥७८॥तस्मान्न योग्यो प्रहस्य चोवाच बृहस्पतिमकल्पणषम् ॥असौ न परिपूर्णो हि यज्ञैः शक्रासने स्थितः ॥अवाह्यवाहनेनैव अत्रागत्य लभेत माम् ॥७९॥तथेति गत्वा त्वरितो बृहस्पतिरुवाच तम् ॥नहुषं कामसंतप्तं शच्योक्तं च यथातथम् ॥८०॥तथेति मत्वा राजासौ नहुषः काममोहितः ॥विमृश्य परया बुद्ध्या अवाह्यं किं प्रशस्यते ॥८१॥स बुद्ध्या च चिरं स्मृत्वा ब्राह्मणाश्चतपस्विनः ॥अवाह्याश्च भवंत्यस्मादात्मानं वाहयाम्यहम् ॥८२॥द्वाभ्यां च तस्याः प्राप्त्यर्थमिति मे हृदि वर्तते ॥शिबिकां च ददौ ताभ्यां द्विजाभ्यां काममोहितः ॥८३॥उपविश्य तदा तस्यां शिवबिकायां समाहितः ॥सर्पसर्पेति वचनान्नोदयामास तौ तदा ॥८४॥अगस्त्यः शिबिकावाही ततः क्रुद्धोऽशपन्नृपम् ॥विप्राणामवमंता त्वमुन्मत्तोऽजगरो भव ॥८५॥शापोक्तिमात्रतो राजा पतितो ब्राह्मणस्य हि ॥तत्रैवाजगरो भूत्वा विप्रशापो दुरत्ययः ॥८६॥यथा हि नहुषो जातस्तथा सर्वेऽपि तादृशाः ॥विप्राणामवमानेन पतिन्ति निरयेऽशुचौ ॥८७॥तस्मासर्वप्रयत्नेन पदं प्राप्य विचक्षणैः ॥अप्रमत्तैर्नरैर्भाव्यमिहामुत्र च लब्धये ॥८८॥तथैव नहुषः सर्प्पो जातोरण्ये महाभये ॥एवं चैवाभवत्तत्र देवलोके ह्यराजकम् ॥८९॥तथैव ते सुराः सर्वे विस्मयाविष्टचेतसः ॥अहो बत महत्कष्टं प्राप्तं राज्ञा ह्यनेन वै ॥९०॥न मर्त्य लोको न स्वर्गो जातो ह्यस्य दुरात्मनः ॥सतामवज्ञया सद्यः सुकृतं दग्धमेव हि ॥९१॥याज्ञिको ह्यपरो लोके कथ्यतां च महामुने ॥तदोवाच महातेजा नारदो मुनिसत्तमः ॥९२॥ययातिं च महाभागा आनयध्वं त्वरान्विताः ॥देवदूतास्तु वै तूर्णं ययातिं द्रुतमानयन् ॥९३॥विमानमारुह्य तदा महात्मा ययौ दिवं देवदूतैः समेतः ॥पुरस्कृतो देववरैस्तदानीं तथोरगैर्यक्षगंधर्वसिद्धैः ॥९४॥आयातः सोऽमरावत्यां त्रिदशैरभितोषितः ॥इंद्रासने चोपविष्टो बभाषे च स सत्वरम् ॥९५॥नारदेनैवमुक्तस्तु त्वं राजा याज्ञिको ह्यसि ॥सतामवज्ञया प्राप्तो नहुषो दंदशूकताम् ॥९६॥ये प्राप्नुवंति धर्मिष्ठा दैवेन परमं पदम् ॥प्राक्तनेनैव मूढास्ते न पश्यंति शुभाशुभम् ॥९७॥पतंति नरके घोरे स्तब्धा वै नात्र संशयः ॥९८॥ ॥ययातिरुवाच ॥यैः कृतं पुण्यं तेषां विघ्नः प्रजायते ॥अल्पकत्वेन देवर्षे विद्धि सर्वं परं मम ॥९९॥महादानानि दत्तानि अन्नदानयुतानि च ॥गोदानानि बहून्येव भूमिदानयुतानि च ॥१००॥तथैव सर्वाण्यपि चोत्तमानि दानानि चोक्तानि मनीषिभिर्यदा ॥एतानि सर्वाणि मया तदैव दत्तानि काले च महाविधानतः ॥१०१॥यज्ञैरिष्टं वाजपेयातिरात्रैर्ज्योतिष्टोमै राजसूयादिभिश्च ॥शास्त्रप्रोक्तैरश्वमेधादिभिश्च यूपैरेषालंकृता भूः समंतात् ॥१०२॥देवदेवो जगन्नाथ इष्टो यज्ञैरनेकशः ॥गालवाय पुरे दत्ता कन्या त्वेषा च माधवी ॥१०३॥पत्नीत्वेन चतुर्भ्यश्च दत्ताः कन्या मुने तदा ॥गालवस्य गुरोरर्थे विश्वामित्रस्य धीमतः ॥१०४॥एवं भूतान्यनेकानि सुकृतानि मया पुरा ॥महांति च बहून्येव तानि वक्तुं न पार्यते ॥१०५॥भूयः पृष्टः सर्वदेवैः स राजा कृतं सर्वं गुप्तमेव यथार्थम् ॥विज्ञातुमिच्छाम यथार्थतोपि सर्वे वयं श्रोतुकामा ययाते ॥१०६॥वचो निशम्य देवानां ययातिरमितद्युतिः ॥कथयामास तत्सर्वं पुण्यशेषं यथार्थतः ॥१०७॥कथितं सर्वमेतच्च निःशेषं व्यासवत्तदा ॥स्वपुण्यकथनेनैव ययातिरपतद्भुवि ॥१०८॥तत्क्षणादेव सर्वेषां सुराणां तत्र पश्यताम् ॥एवमेव तथा जातमराजकमतंद्रितम् ॥१०९॥अन्यो न दृश्यते लोके याज्ञिको यो हि तत्र वै ॥शक्रासनेऽभिषे कार्यं श्रूयतां हि द्विजोत्तमाः ॥११०॥सर्वे सुराश्च ऋषयोऽथ महाफणींद्रा गन्धर्वयक्षखगचारणकिंनराश्च ॥विद्याधराः सुरगणाप्सरसां गणाश्च चिंतापराः समभवन्मनुजास्तथैव ॥१११॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे देवेन्द्रस्वाराज्याभिषेकवृत्तान्ते देवेन्द्रस्य ब्रह्महत्ययोपद्रुतौ नहुषशापययातिभूषण्यवृत्तान्तवर्णनंनाम पंचदशोऽध्यायः ॥१५॥ N/A References : N/A Last Updated : July 18, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP